摩诃婆罗多 · 章 7.199
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.199.1
साङ्गा वेदा यथान्यायं येनाधीता महात्मना ।
यस्मिन्साक्षाद्धनुर्वेदो हीनिषेवे प्रतिष्ठितः ॥ ७.१९९.१ ॥
那位大德者依规则学习了带有支分的吠陀,其中亲自确立了弓术之学。
7.199.2
यस्य प्रसादात्कुर्वन्ति कर्माणि पुरुषर्षभाः ।
अमानुषाणि सङ्ग्रामे देवैरसुकराणि च ॥ ७.१९९.२ ॥
凭借他的恩惠,人中雄牛在战场上做出超越凡人、连诸神也难以完成的事业。
7.199.3
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मणा ।
नीचं कर्म कृतं तेन क्षुद्रेण गुरुघातिना ॥ ७.१९९.३ ॥
那作恶者当着众人的面辱骂德罗纳;那卑劣的弑师者做了下贱之事。
7.199.4
नामर्षं तत्र कुर्वन्ति धिक्क्षात्रं धिगमर्षिताम् ॥ ७.१९९.४ ॥
在那里他们没有表现出愤怒。耻辱归于刹帝利之种姓,耻辱归于愤怒本身!
7.199.5
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः ।
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय ॥ ७.१९९.५ ॥
普利塔之子以及大地上所有持弓的王者,听了般遮罗王子的话后说了什么?桑闍耶,请把它告诉我。
7.199.6
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः ।
तूष्णीं बभूवू राजानः सर्व एव विशाम्पते ॥ ७.१९९.६ ॥
听了德鲁帕达之子那些残酷的话,人民之主啊,所有的王者都沉默了。
7.199.7
अर्जुनस्तु कटाक्षेण जिह्मं विप्रेक्ष्य पार्षतम् ।
सबाष्पमतिनिःश्वस्य धिग्धिगित्येव चाब्रवीत् ॥ ७.१९९.७ ॥
阿周那斜视着般遮多的儿子,含泪深深叹息,说道:“可耻,可耻!”
7.199.8
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथाऽपरे ।
आसन्सुव्रीडिता राजन्सात्यकिस्त्वब्रवीदिदम् ॥ ७.१९९.८ ॥
坚战与怖军、双生子、克里希那及其他人都深感羞愧,大王。于是萨谛奇说了这番话。
7.199.9
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् ।
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ॥ ७.१९९.९ ॥
这里难道没有一个人能立即杀掉这个说这种话的罪人、不祥之人、人中最卑劣者吗?
7.199.10
एते त्वां पाण्डवाः सर्वे कुत्सयन्ति विवित्सया ।
कर्मणा तेन पापेन श्वपाकं ब्राह्मणा इव ॥ ७.१९९.१० ॥
所有这些般度子都因你那罪恶之行而责备你,想要知道,正如婆罗门责备狗肉厨的贱民一样。
7.199.11
एतत्कृत्वा महत्पापं निन्दितः सर्वसाधुभिः ।
न लज्जसे कथं वक्तुं समितिं प्राप्य शोभनाम् ॥ ७.१९९.११ ॥
你犯下这大罪,被一切善人谴责,来到这美好的集会上说话,难道不感到羞耻吗?
7.199.12
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते ।
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ॥ ७.१९९.१२ ॥
你这小人,为何你的舌头不裂成百片?为何你的头颅也不碎裂?你辱骂师长,为何不因不义而倒下?
7.199.13
वाच्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः ।
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ॥ ७.१९९.१३ ॥
你应当受到般度之子和所有安陀迦、毗湿尼族人的谴责,因为你做了污秽之事,却在人群大会上自夸。
7.199.14
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् ।
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ॥ ७.१९९.१४ ॥
你做了如此不当之事,又再次辱骂你的师长,你应当被杀;对你而言,活着哪怕一刻也没有意义。
7.199.15
कस्त्वेतद्व्यवसेत्पायं त्वदन्यः पुरुषाधम ।
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ॥ ७.१९९.१५ ॥
卑劣之人啊!除你之外,谁会决意揪住那位正直善良的老师的头发将他杀害呢?
7.199.16
सप्तावरे तथा पूर्वे बान्धवास्ते निमञ्जिताः ।
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ॥ ७.१९९.१६ ॥
你这个家族的耻辱,使你前后七代的亲族都沉沦了,并且失去了名声。
7.199.17
उक्तवांश्चापि यत्पार्थे भीष्मं प्रति नरर्षभ ।
तथान्तो विहितस्तेन स्वयमेव महात्मना ॥ ७.१९९.१७ ॥
人中之牛啊!正如你对般度之子所说关于毗湿摩的话,那位大德自己已经为自己定下了结局。
7.199.18
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः ।
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ॥ ७.१९९.१८ ॥
杀害他的人也将是你的亲兄弟,那最为作恶的人;大地上除了般遮罗之子,再没有别的作恶者了。
7.199.19
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल ।
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ॥ ७.१९९.१९ ॥
你父所生的那人,确实是毗湿摩的灭亡者;他受到尸干陀保护,他便是那位大士的死亡。
7.199.20
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः ।
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ॥ ७.१९९.२० ॥
般遮罗人背离法度,卑劣地背叛朋友与师长,突然遭遇你的兄弟,已被一切善人斥责。
7.199.21
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि ।
शिरस्ते पोथयिष्यामि गदया वज्रकल्पया ॥ ७.१९९.२१ ॥
若你再在我面前说出这样的话,我将以如雷霆般的金刚杵,砸碎你的头颅。
7.199.22
त्वां च ब्रह्महणं दृष्ट्वा जनः सूर्यमवेक्षते ।
ब्रह्महत्या हि ते पापं प्रायश्चित्तार्थमात्मनः ॥ ७.१९९.२२ ॥
人们见你是杀害婆罗门者,便仰望太阳;因为杀婆罗门之罪归于你,其赎罪也须你自己承担。
7.199.23
पाञ्चालक सुदुर्वृत्त ममैव गुरुमग्रतः ।
गुरोर्गुरुं च भूयोऽपि क्षिपन्नैव हि लज्जसे ॥ ७.१९९.२३ ॥
般遮罗之恶徒啊!就在我的师长面前,一再辱骂师长的师长,你竟不知羞耻。
7.199.24
तिष्ठतिष्ठ सहस्वैकं गदापातमिमं मम ।
तव चापि सहिष्येऽहं गदापाताननेकशः ॥ ७.१९९.२४ ॥
站住,站住!且受我这一记铁锤之击;我也将多次承受你的锤击。
7.199.25
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् ।
संरब्धं सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव ॥ ७.१९९.२५ ॥
萨陀多之子(萨提亚基)如此以粗言辱骂,愤怒的般遮罗之子(德里斯塔笃姆那)仿佛笑着,对激愤的萨提亚基说道。
7.199.26
श्रूयतेश्रूयते चेति क्षम्यते चेति माधव ।
सदाऽनार्योऽशुभः साधुं पुरुषं क्षेप्तुमिच्छति ॥ ७.१९९.२६ ॥
“听到了,听到了,也可以原谅。”哦,摩陀婆!卑贱而邪恶的人总想辱骂善良的人。
7.199.27
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् ।
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ॥ ७.१९९.२७ ॥
世间称赞忍让,然而罪人不配得到忍让。心怀罪恶的人以为忍让者已被征服。
7.199.28
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः ।
आकेशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ॥ ७.१९९.२८ ॥
你行为卑劣,心地低下,决意作恶——从发梢到指甲尖都该受到谴责,你却还想开口说话。
7.199.29
वरं हि ते मृतिः पाप न च ते चित्तमीदृशम् ।
श्रोतुं वक्तव्यतामूलं नीचाचाराश्च मानवाः।
परान्क्षिपन्ति दोषेण स्वेषु दोषेष्वदृष्टयः ॥ ७.१९९.२९ ॥
哦,罪人!对你而言死亡反而更好;你的心并不适合聆听这些责备之言的根源。行为卑劣的人以过错指责他人,却看不见自己的过错。
7.199.30
यः स भूरिश्रवाश्छिन्नभुजः प्रायगतस्त्वया ।
वार्यमाणेन हि हतस्ततः पापतरं नु किम् ॥ ७.१९९.३० ॥
那位双臂已断、倒卧在濒死之中的布利施罗婆斯,竟被你杀死了,尽管有人制止。还有什么罪过比这更大呢?
7.199.31
प्रेषमाणो मया द्रोणो दिव्येनास्त्रेण संयुगे ।
विसृष्टशस्त्रो निहतः किं तत्र कुर दुष्कृतम् ॥ ७.१९९.३१ ॥
在战斗中,德罗那被我发出的神圣武器所击,在放下武器后被杀。那里做了什么恶行?
7.199.32
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् ।
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं वदेत् ॥ ७.१९९.३२ ॥
若敌人杀害在战场上不战斗的人、同样绝食待死的苦行者、或断臂之人,那么,萨谛奇啊,他怎能谈论(法)呢?
7.199.33
निहत्य त्वां पदा भूमौ स विकर्षति वीर्यवान् ।
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ॥ ७.१९९.३३ ॥
这位勇士将你用脚踢倒在地并拖拽着。那时,人中之最啊,你为何不杀他?
7.199.34
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः ।
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ॥ ७.१९९.३४ ॥
你这不义之人先前被阿周那击败时,索摩达塔那位威猛的勇士之子便被杀死;那时你也是这样做的。
7.199.35
यत्रयत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् ।
किरञ्छरसहस्राणि तत्रतत्र प्रयाम्यहम् ॥ ७.१९९.३५ ॥
德罗那在哪里击溃般度子孙的军队,我便在哪里前进,射出数千支箭。
7.199.36
स त्वमेवंविधं कृत्वा कर्म चण्डालवत्स्वयम् ।
वक्तुमर्हसि वक्तव्यः कस्मात्त्वं परुषाण्यथ ॥ ७.१९९.३६ ॥
你做了这样的事,应当像旃陀罗一样自己说话;可你为何说出粗暴的话?你必须得到回答。
7.199.37
कर्ता त्वं कर्मणो ह्यस्य नाहं वृष्णिकुलाधम ।
पापानां च त्वमावासः कर्मणां मा पुनर्वद ॥ ७.१९९.३७ ॥
你啊,毗诃尼族中最卑劣的人,此事的作者是你而非我。你才是罪恶与恶行的居所。不要再说了。
7.199.38
जोषमास्व न मां भूयो वक्तुमर्हस्यतः परम् ।
अधरोत्तरमेतद्वि यन्मां त्वं वक्तुमर्हसि ॥ ७.१९९.३८ ॥
请安静坐下,从此不要再对我说话。你要对我说的话颠倒了。
7.199.39
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् ।
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ॥ ७.१९९.३९ ॥
若你出于愚昧再对我说如此粗暴的话,我将在战场上以箭把你送往毗婆娑多之界。
7.199.40
न चैव मूर्ख धर्मेण केवलेनैव शक्यते ।
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ॥ ७.१९९.४० ॥
愚人啊,仅凭正法什么也成就不了。你听听他们的行为是如何以非法完成的吧。
7.199.41
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः ।
द्रौपदी च परिक्लिष्टा तथाऽधर्मेण सात्यके ॥ ७.१९९.४१ ॥
往昔,般度之子坚战被非法所欺,萨谛奇啊,德罗波蒂也同样被非法所苦。
7.199.42
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया ।
सर्वस्वमपकृष्टं च तथाऽधर्मेण बालिश ॥ ७.१९९.४२ ॥
般度众子连同黑公主都被驱逐入林,他们的全部财富也被以非法夺去,愚人啊。
7.199.43
अधर्मेणापकृष्टश्च मद्रराजः परैरितः ।
अधर्मेण तथा बालः सौभद्रो विनिपातितः ॥ ७.१९९.४३ ॥
摩德罗国王沙利耶被敌人不义地在此打倒,少年娑帕陀罗之子(阿毗曼尤)也同样被不义地击落。
7.199.44
इतोऽप्यधर्मेण हतो भीष्मः परपुरञ्जयः ।
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ॥ ७.१९९.४४ ॥
在此也是,征服敌城的毗湿摩被不义地杀害;而你这位知法者,不义地杀死了布利什拉瓦斯。
7.199.45
एवं परैराचरितं पाण्डवेयैश्च संयुगे ।
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ॥ ७.१९९.४५ ॥
如此,敌人和般度之子在战斗中也这样行事;啊,萨特瓦塔,即使知法的英雄,在守护胜利时也是如此做的。
7.199.46
दुर्ज्ञेयः स परो धर्मस्तथाऽधर्मश्च दुर्विदः ।
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ॥ ७.१९९.४६ ॥
至上的法难以知晓,非法也难以理解;与俱卢族一同作战,不要前往你父亲的住所。
7.199.47
एवमादीनि वाक्यानि क्रूराणि परुषाणि च ।
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ॥ ७.१९९.४७ ॥
听到这样残酷而严厉的话语,光荣的萨提亚基仿佛颤抖起来。
7.199.48
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् ।
विनिः श्वस्य यथा सर्पः प्रणिधाय रथे धनुः ॥ ७.१९९.४८ ॥
听到这些,萨提亚基怒目赤红,抓起了铁杵;他像毒蛇一样喘息,将弓放在战车上。
7.199.49
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् ।
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ॥ ७.१९९.४९ ॥
于是他扑向般遮罗王子,怒气冲冲地说:“我不会对你说粗话;我要杀死你,你本是该被杀的人。”
7.199.50
तमापतन्तं सहसा महाबलममर्षणम् ।
पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम् ॥ ७.१९९.५० ॥
那位力量强大、不肯宽恕的英雄,突然怒气冲冲地扑向般遮罗王子,仿佛死神本身。
7.199.51
चोदितो वासुदेवेन भीमसेनो महाबलः ।
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ॥ ७.१९९.५१ ॥
在瓦苏提婆的催促下,大力的毗摩色那迅速跳下战车,用双臂将他拦住。
7.199.52
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली ।
प्रस्पन्दमानमादाय जगाम बलिनं बलात् ॥ ७.१९९.५२ ॥
就这样,有力的般度之子抓住了冲来的愤怒的萨谛亚基,并强行带走了这位挣扎的壮士。
7.199.53
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः ।
निगृहीतः पदे षष्ठे बलेन बलिनां वरः ॥ ७.१९९.५३ ॥
这位稳稳站定双脚的希尼族雄牛,在第六步被毗摩以力量阻住;他是强者中的最优秀者。
7.199.54
अवरुह्य रथात्तूर्णं ध्रियमाणं बलीयसा ।
उवाच श्लक्ष्णया वाचा सहदेवो विशाम्पते ॥ ७.१९९.५४ ॥
萨诃提婆迅速从战车上下来,来到被更强者握住的人身边,用温和的言辞说道,啊,人王。
7.199.55
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते ।
परमन्धकवृष्णिभ्यः पाञ्चलेभ्यश्च मारिष ॥ ७.१९९.५५ ॥
人中虎啊,我们除安陀迦、毗湿尼和般遮罗之外,别无他友,尊者。
7.199.56
तथैवान्धकवृष्णीनां तथैव च विशेषतः ।
कृष्णस्य च तथाऽस्मत्तो मित्रमन्यन्न विद्यते ॥ ७.१९९.५६ ॥
同样,安陀迦与毗湿尼,尤其是黑天,以及我们,都没有别的朋友。
7.199.57
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् ।
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ॥ ७.१९९.५७ ॥
毗湿尼之后啊,即使搜遍海洋尽头,般遮罗也找不到比般度之子与毗湿尼更好的朋友。
7.199.58
स भवानीदृशं मित्रं मन्यते च यथा भवान् ।
भवन्तश्च यथाऽस्माकं भवतां च तथा वयम् ॥ ७.१९९.५८ ॥
你所重视的这样的朋友,你们对我们如何,我们对你们也如何。
7.199.59
स एवं सर्वधर्मज्ञ मित्रधर्ममनुस्मरन् ।
नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गवा ॥ ७.१९९.५९ ॥
精通一切法的人啊,如此记住友谊之法,克制你对般遮罗之子的愤怒,平息吧,希尼之最。
7.199.60
पार्षतस्य क्षम त्वं वै क्षमतां पार्षतश्च ते ।
वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ॥ ७.१९९.६० ॥
你应当原谅Pṛṣata之子,愿Pṛṣata之子也原谅你。我们是请求宽恕的人;除了和平,还能有什么呢?
7.199.61
प्रशाम्यमाने शैनेये सहदेवेन मारिष ।
पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ॥ ७.१९९.६१ ॥
当萨诃提婆安抚了诗尼耶之后,哦尊者,般遮罗国王之子大笑着说了这番话。
7.199.62
मुञ्चमुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् ।
आसादयतु मामेष धराधरमिवानिलः ॥ ७.१९९.६२ ॥
哦毗摩,放开充满战斗狂热的希尼之孙;让他攻击我,如同风撞击山岳。
7.199.63
यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् ।
युद्धश्रुद्धां च कौन्तेय जीवितं चास्य संयुगे ॥ ७.१९९.६३ ॥
哦贡提之子,在我以利箭平息他的愤怒与战斗之志以前,让他在战斗中的性命也得以保全。
7.199.64
किं नु शक्यं मया कर्तुं यत्कार्यमिदमुच्यताम् ।
सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ॥ ७.१९९.६४ ॥
我究竟能做什么?请说出此事。般度之子的庞大军队正在前进,而这些俱卢族人也正朝他们而来。
7.199.65
अथवा फल्गुनः सर्वान्वारयिष्यति संयुगे ।
अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ॥ ७.१९९.६५ ॥
否则,法尔古那(阿周那)将在战斗中阻挡所有人。我也要用箭使他的头颅落下。
7.199.66
मन्यते च्छिन्नबाहुं मां भूरिश्रवसमाहवे ।
उत्सृजैनमहं चैनमेष वा मां हनिष्यति ॥ ७.१९९.६६ ॥
他在战斗中以为我是断了手臂的人。放开他,我也会放开他;否则他将杀死我。
7.199.67
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् ।
भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ॥ ७.१९९.६७ ॥
聽着般遮羅人的話語,薩提奇如蛇般喘息,被比摩的臂彎緊緊纏住,不停地掙扎着,這位強者。
7.199.68
तौ वृषाविव नर्दन्तौ बलिनौ बाहुशालिनौ ।
त्वरया वासुदेवश्च धर्मराजश्च मारिष।
यत्नेन महता वीरौ वारयामासतुस्ततः ॥ ७.१९९.६८ ॥
那两位英雄如公牛般咆哮,强大而以臂力自豪,被婆苏提婆与法王急速而费了大力阻止,先生。
7.199.69
निवार्य परमेष्वासौ कोपसंरक्तलोचनौ ।
युयुत्सूनपरान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः ॥ ७.१९९.६९ ॥
阻止了那两位眼中因愤怒而通红的至上射手之后,刹帝利中的雄牛转身去对付其他想在战斗中交锋的人。