Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.20.1

परिणाम्य निशां तां तु भारद्वाजो महारथः ।
उक्त्वा सुबहु राजेन्द्र वचनं वै सुयोधनम् ॥ ७.२०.१ ॥

王中之王啊,度过那一夜后,大战车武士婆罗堕阁(德罗纳)对苏约达那说了许多话。

7.20.2

विधाय गोप्तॄन्पार्थस्य संशप्तकगणैः सह ।
निष्क्रान्ते च तदा पार्थे संशप्तकवधं प्रति ॥ ७.२०.२ ॥

安置好帕尔塔的护卫与三誓军的队伍后,那时帕尔塔出发去杀灭三誓军。

7.20.3

व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् ।
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया ॥ ७.२०.३ ॥

婆罗多中最优秀的人啊,那时德罗纳以列阵的军队,欲擒获法王,向般度五子的大军冲去。

7.20.4

व्यूढां दृष्ट्वा सुपर्णेन भारद्वाजस्य तां चमूम् ।
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ॥ ७.२०.४ ॥

见德罗纳的那支军队排成金翅鸟阵,坚战便以半圆阵与之相对列阵。

7.20.5

मुखं त्वासीत्सुपर्णस्य भारद्वाजो महारथः ।
शिरो दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः ॥ ७.२०.५ ॥

金翅鸟的面部是大战车武士婆罗堕阁(德罗纳),头部是国王难敌,被他的兄弟与随从所环绕。

7.20.6

चक्षुषी कृतवर्माऽऽसीद्गौतमश्चास्यतां वरः ॥ ७.२०.६ ॥

它的两眼是克里达瓦尔曼,而其中最优秀的武士是乔达摩(克里帕)。

7.20.7

भूतशर्मा क्षेमशर्मा करकाक्षश्च वीर्यवान् ।
कलिङ्गाः सिंहलाः प्राच्याः शूरा भीरा दशेरकाः ॥ ७.२०.७ ॥

跋陀舍摩、刹摩舍摩与勇猛的迦罗迦叉,羯陵伽人、僧伽罗人、东方的勇士、怖人及十部族人。

7.20.8

शका यवनकाम्भोजास्तथा हंसपथाश्च ये ।
ग्रीवायां शूरसेनाश्च दरन्दा मद्रकेकयाः।
गजाश्वरथपत्त्योघास्तस्थुः परमदंशिताः ॥ ७.२०.८ ॥

沙迦人、耶婆那人与迦portions人,以及名为天鹅路者;颈部是尸罗森那人与达兰达人、摩德罗人与喀迦耶人。象、马、车与步兵的洪流全副武装地列阵而立。

7.20.9

भूरिश्रवास्तथा शल्यः सोमदत्तश्च बाह्लिकः ।
अक्षौहिण्या वृता वीरा दक्षिणं पार्श्वमास्थिताः ॥ ७.२०.९ ॥

婆利输罗婆、沙利耶、苏摩达多与跋利迦,身边环绕一支十八万七百零一人的军团,英雄们守在右翼。

7.20.10

विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः ।
वामं पार्श्वं समाश्रित्य द्रोणपुत्राग्रतः स्थिताः ॥ ७.२०.१० ॥

阿槃提的两位王子毗湄陀与阿奴毗湄陀,以及迦槃阇王苏达希那,守住左翼,立于德罗纳之子面前。

7.20.11

पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः ।
गान्धाराः शकुनाः प्राच्याः पार्वतीया वसातयः ॥ ७.२०.११ ॥

后方是羯陵伽人、三婆湿吒人、摩揭陀人、布德罗人与摩德罗迦人;乾陀罗人、沙君那人、东方诸族、山地居民与婆萨提人。

7.20.12

पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः ।
महत्या सेनया तस्थौ नानाजनपदोत्थया ॥ ७.२०.१२ ॥

队尾是毗迦尔冈之子迦尔纳,与他的儿子、族人及亲属同在,率领从众多邦国征集的庞大军队。

7.20.13

जयद्रथो भीमरथः सम्पातिर्ऋषभो जयः ।
भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः ॥ ७.२०.१३ ॥

闍耶陀罗、毗摩罗陀、桑帕提、利沙跋、阇耶、布弥阇耶、毗哩沙克罗陀,以及大力的那罗之子。

7.20.14

वृता बलेन महता ब्रह्मलोकपरिष्कृताः ।
व्यूहस्योरसि ते राजन्स्थिता युद्धविशारदाः ॥ ७.२०.१४ ॥

被庞大军队环绕、装饰如梵天世界的,大王啊,那些精通战阵的勇士,站在军阵的胸部。

7.20.15

द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः ।
वातोद्धूतार्णवाकारः प्रनृत्त इव लक्ष्यते ॥ ७.२०.१५ ॥

德罗纳所布的军阵,步兵、骑兵、战车与战象俱全,如被风吹动的大海,仿佛在舞蹈一般。

7.20.16

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः ।
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्यः इवोष्णगे ॥ ७.२०.१६ ॥

从其两翼与副翼中,涌出渴望交战的勇士,如夏日从四方升起的电闪雷鸣之云。

7.20.17

तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् ।
आस्थितः शुशुभे राजन्नंशुमानुदये यथा ॥ ७.२०.१७ ॥

在其中央,骑着依法装饰的大象,大王啊,那位普拉格约提沙国王闪耀如初升的太阳。

7.20.18

माल्यदामवता राजञ्श्वेतच्छत्रेण धार्यता ।
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ॥ ७.२०.१८ ॥

大王啊,他戴着花环,头顶持着白伞,如满月之夜与昴宿相会的月亮。

7.20.19

नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ ।
अतिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ॥ ७.२०.१९ ॥

这头被发情冲昏头脑的大象,宛如一堆蓝色的黛粉,闪耀如同被巨大云层浸透的一座大山。

7.20.20

नानानृपतिभिर्वीरै र्विविधायुधभूषणैः ।
समन्वितः पार्वतीयैः शक्रो देवगणैरिव ॥ ७.२०.२० ॥

与众多国王、身饰各式兵器与饰物的勇士,以及山地诸王同在,他如同被天神群簇拥的因陀罗。

7.20.21

ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् ।
अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत् ॥ ७.२०.२१ ॥

于是坚战看见那非人所能及的阵列,在战场上敌人不可战胜,便对般遮罗子(猛光)说了这些话。

7.20.22

ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो ।
पारावतसवर्णाश्व तथा नीतिर्विधीयताम् ॥ ७.२०.२२ ॥

主啊,愿制定计策,使我今日不落入婆罗门的掌控之中,并备好鸽灰色的马匹。

7.20.23

द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत ।
अहमावारयिष्यामि द्रोणमद्य सहानुगम् ॥ ७.२०.२३ ॥

善持誓愿者啊,你不会落入努力行事的德罗纳之手;今日我将连同他的随从一起阻挡德罗纳。

7.20.24

मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि ।
न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन ॥ ७.२०.२४ ॥

俱卢子啊,只要我还活着,你不必忧虑;德罗纳在战场上绝无能力战胜我。

7.20.25

एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली ।
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् ॥ ७.२०.२५ ॥

如此说罢,德鲁帕达的勇猛之子,射出箭矢,驾着鸽灰色的马,亲自向德罗纳冲去。

7.20.26

अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् ।
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ॥ ७.२०.२६ ॥

见到站立在前的德里斯塔德尤姆纳,这不祥的景象,德罗纳顷刻间心情不再十分愉悦。

7.20.27

स हि जातो महाराज द्रोणस्य निधनं प्रति ॥ ७.२०.२७ ॥

大王啊,他确实是为德罗纳的死亡而生的。

7.20.28

मर्त्यधर्मतया तस्माद्भारद्वाजो व्यमुह्यत ।
नाशकत्तत्र तत्किञ्चिदनीकं प्रतिवीक्षितुम् ॥ ७.२०.२८ ॥

因为凡人的本性,婆罗堕嘉之子德罗纳陷入迷乱,于是在那里他对敌军竟无法看清任何东西。

7.20.29

ततः किरन्निषूंस्तीक्ष्णान्द्रुपदस्य वरूथिनीम् ।
भराद्वाजो ययौ तूर्णं पार्षतं वर्जयन्युधि।
द्रुपदस्य महत्सैन्यं दारयामास ब्राह्मणः ॥ ७.२०.२९ ॥

于是,德罗纳射出锐利的箭,迅速向德鲁帕达的军队冲去,在战斗中避开了普利沙塔之子;这位婆罗门撕裂了德鲁帕达的大军。

7.20.30

तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्षणः ।
प्रियं चिकीर्षुर्द्रोणस्य धृष्टद्युम्नमवारयत् ॥ ७.२०.३० ॥

见到他,你的儿子杜尔穆卡——折磨敌人者——想为德罗纳效力,便阻挡了德里斯塔德尤姆纳。

7.20.31

स सम्प्रहारस्तुमुलः सुघोरः समपद्यत ।
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ॥ ७.२०.३१ ॥

婆罗多啊,英勇的般沙塔之子与杜尔穆卡之间,爆发了那场喧嚣而极其可怖的交锋。

7.20.32

पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् ।
भारद्वाजं शरौघेण महता समवारयत् ॥ ७.२०.३२ ॥

般沙塔之子迅速以箭网遮蔽了杜尔穆卡,又以大量箭雨阻住了婆罗堕阁之子(德罗纳)。

7.20.33

द्रोणावारितं दृष्ट्वा भृशायस्तस्तवात्मजः ।
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् ॥ ७.२०.३३ ॥

见他被德罗纳所阻,你的儿子竭力以各种标记的箭群,使般沙塔之子彻底迷惑。

7.20.34

तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः ।
द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः ॥ ७.२०.३४ ॥

当般遮罗与俱卢的两位主将彼此交战之际,德罗纳以箭矢多方冲散了坚战的军队。

7.20.35

अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः ।
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ॥ ७.२०.३५ ॥

如同云朵被风从四面吹散,阿周那(Pārtha)的军队也在各处被冲散。

7.20.36

मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥ ७.२०.३६ ॥

那场战斗起初片刻看来颇为壮观;然而,大王啊,随后它便如同疯狂之人一般毫无节制地进行下去。

7.20.37

नैव खं न दिशो भूमिर्बभासे न च भास्करः ।
नैव स्वे न परे राजन्नाज्ञायन्त परस्परम्।
अनुमानेन संज्ञाभिर्युद्धं तत्समवर्तत ॥ ७.२०.३७ ॥

天空、方位、大地都不再显现,太阳也不再放光。大王啊,自己人与敌人彼此都认不出来;那场战斗只能凭推测和标志进行。

7.20.38

चूडामणिषु निष्केषु भूषणेष्वपि वर्मसु ।
तेषामादित्यवर्णाभा रश्मयः प्रचकाशिरे ॥ ७.२०.३८ ॥

他们的冠顶宝珠、金项链、饰物和铠甲上,放射出如太阳般的光芒。

7.20.39

तत्प्रकीर्णपताकानां रथवारणवाजिनाम् ।
बलाकाशबलाभ्रामं ददृशे रूपमाहवे ॥ ७.२०.३९ ॥

战场上,那些旗帜散乱的战车、象与马的景象,宛如被白鹭点缀的云朵。

7.20.40

नरानेव नरा जघ्नरुदग्राश्च हया हयान् ।
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् ॥ ७.२०.४० ॥

人杀人,猛烈的马杀马,车士杀车,象杀优良的象。

7.20.41

समुच्छ्रितपताकानां गजानां परमद्विपैः ।
क्षणेन तुमुलो घोरः सङ्ग्रामः समपद्यत ॥ ७.२०.४१ ॥

高扬旗帜的象群之间,由最强的象相斗,顷刻间便爆发了一场喧嚣而可怖的战斗。

7.20.42

तेषां संसक्तगात्राणां कर्षतामितरेतरम् ।
दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत ॥ ७.२०.४२ ॥

那些身躯纠缠、彼此拖拽的象,因象牙相互碰撞摩擦,竟生出了伴着烟的火。

7.20.43

विप्रकीर्णपताकास्ते विषाणजनिताग्नयः ।
बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः ॥ ७.२०.४३ ॥

他们的旗帜四散,象牙摩擦生出火焰;他们升入天空,如同带着闪电的云。

7.20.44

विक्षिपद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः ।
सम्बभूव मही कीर्णा मेघैर्द्यौरिव वार्षिकी ॥ ७.२०.४४ ॥

大地被抛掷、嘶吼、倒下的大象所覆盖,正如雨季的天空被云层布满。

7.20.45

तेषामाहन्यमानानां बाणतोमरऋष्टिभिः ।
वारणानां रवो जज्ञे मेघानामिव सम्पुवे ॥ ७.२०.४५ ॥

那些被箭、矛和长枪击中的大象发出的声音,如雨季云层的雷鸣般升起。

7.20.46

तोमराभिहताः केचिद्बाणैश्च परमद्विपाः ।
वित्रेसुः सर्वनागानां शब्दमेवापरेऽसृजन् ॥ ७.२०.४६ ॥

一些被长矛和箭射中的大象惊恐万分,另一些则发出了象群特有的吼声。

7.20.47

विषाणाभिहताश्चापि केचित्तत्र गजा गजैः ।
चक्रुरार्तस्वनं घोरमुत्पातजलदा इव ॥ ७.२०.४७ ॥

在那里,一些被其他大象象牙所伤的大象发出可怕的痛呼,如同凶兆之云。

7.20.48

प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः ।
उन्मथ्य पुनराजग्मुः प्रेरिताः परमाङ्कुशैः ॥ ७.२०.४८ ॥

被高贵大象逼退的大象,在大象鞭的驱使下,再次践踏冲来,又折返回来。

7.20.49

महामात्रैर्महामात्रास्ताडिताः शरतोमरैः ।
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः ॥ ७.२०.४९ ॥

大象驭手被其他大象驭手以箭和投矛击中,放下武器和象钩,从象背上跌落到地面。

7.20.50

निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः ।
छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम् ॥ ७.२०.५० ॥

没有驭者的大象四处嘶吼,像被撕裂的云朵一样互相冲撞、倒下。

7.20.51

हतान्परिवहन्तश्च पतितान्पतितायुधान् ।
दिशो जग्मुर्महानागाः केचिदेकचरा इव ॥ ७.२०.५१ ॥

一些大象驮着死者和丢了武器的倒地者,像独行的野兽一样四散奔逃。

7.20.52

ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वथैः ।
पेतुरार्तस्वनं कृत्वा तदा विशसने गजाः ॥ ७.२०.५२ ॥

在那场屠杀中,大象们被击中,又不断被击中,发出痛苦的嘶鸣倒下。

7.20.53

तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः ।
आहता सहसा भूमिश्चकम्पे च ननाद च ॥ ७.२०.५३ ॥

他们如山的身躯从四面八方倒下,大地骤然被撞击,颤抖并发出轰鸣。

7.20.54

सादितैः सगजारोहैः सपताकैः समन्ततः ।
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ॥ ७.२०.५४ ॥

大象与其驭手、旗帜一同被杀,散落四方的大象使大地显得如同散落的群山一般壮观。

7.20.55

गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे ।
रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ॥ ७.२०.५५ ॥

象背上的驭象者,心被刺穿,在战场上被车战士以月牙箭射倒;象钩与长矛散落四处。

7.20.56

क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः ।
परान्स्वांश्चापि मृद्गन्तः परिपेतुर्दिशो दश ॥ ७.२०.५६ ॥

其他的象如鹤鸣般嘶叫,被铁箭射中,践踏敌人与自己人,向十方奔逃。

7.20.57

गजाश्वरथयोधानां शरीरौघसमावृता ।
बभूव पृथिवी राजन्मांसशोणितकर्दमा ॥ ७.२०.५७ ॥

大王啊,大地被象兵、马兵与车兵的尸体堆覆盖,变成了血肉的泥淖。

7.20.58

प्रमथ्य च विषाणाग्रैः समुत्क्षिप्ताश्च वारणैः ।
सचक्राश्च विचक्राश्च रथैरेव महारथाः ॥ ७.२०.५८ ॥

象以獠牙尖踩踏并挑起,大车战士连同战车倒下,有的车轮完好,有的车轮已毁。

7.20.59

रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः ।
हतारोहाश्च मातङ्गा दिशो जग्मुर्भयातुराः ॥ ७.२०.५९ ॥

战车失去御者,战马失去骑手,象的御者被杀,它们惊恐万状,向四方奔逃。

7.20.60

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥ ७.२०.६० ॥

此处父杀子,子杀父;这场喧嚣的战斗中,什么也无法辨认。

7.20.61

आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः ।
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ॥ ७.२०.६१ ॥

людей陷入血泥至踝,纷纷倒下,犹如被燃烧的森林大火包围的大树。

7.20.62

शोणितैः सिच्यमानानि वस्त्राणि कवचानि च ।
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ॥ ७.२०.६२ ॥

衣物、甲胄、华盖与旗幡,皆被鲜血浸透——一切看起来都是红色的。

7.20.63

हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः ।
संक्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः ॥ ७.२०.६३ ॥

马群、车群与人群被击倒;车轮一次次回转,将它们反复碾碎。

7.20.64

सगजौघमहावेगः परासुनरशैवलः ।
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः ॥ ७.२०.६४ ॥

军队之海闪耀而出,汹涌澎湃,象群成队,死者为水藻,战车群的喧嚣旋涡翻腾。

7.20.65

तं वाहनमहानौभिर्योधा जयधनैषिणः ।
अवगाह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे ॥ ७.२०.६५ ॥

追求胜利与财富的战士们,驾着他们巨大的车船投入那军队之海;虽然沉没,他们却没有陷入迷惑。

7.20.66

शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु ।
न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः ॥ ७.२०.६६ ॥

在被箭雨淋浴、身带标记的战士之中,没有一个受伤者能对他们漠不关心。

7.20.67

वर्तमाने तथा युद्धे घोररूपे भयङ्करे ।
मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ॥ ७.२०.६७ ॥

战斗就这样进行着,可怖而骇人。德罗纳使敌人陷入迷惑后,便向坚战冲去。