摩诃婆罗多 · 章 7.200
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.200.1
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः ।
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ॥ ७.२००.१ ॥
于是德罗纳之子屠杀了敌人,如同在劫末由时间所造的死神,毁灭一切众生。
7.200.2
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् ।
अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम् ॥ ७.२००.२ ॥
以旗帜为树,以兵器为峰,以被杀的大象为巨石,布满马匹与紧那罗,被弓弦般的藤蔓覆盖。
7.200.3
क्रव्यादपक्षिसङ्घुष्टं भूतयक्षणाकुलम् ।
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ॥ ७.२००.३ ॥
回荡着食肉鸟的鸣叫,充满鬼怪与夜叉;他以投枪杀尽敌人,堆起了一座尸体之山。
7.200.4
ततो वेगेन महता विनद्य स नरर्षभः ।
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ॥ ७.२००.४ ॥
于是那人中雄牛以巨大的力量怒吼,再次向你的儿子宣告了他的誓言。
7.200.5
यदत्र च्छद्मनाऽऽचार्यं धर्मकञ्चुकमास्थितः ।
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ॥ ७.२००.५ ॥
此时,贡蒂之子坚战身披法的铠甲,以诡计对师尊说:“放下你的武器。”
7.200.6
तस्मात्सम्पश्यतस्तस्य द्रावयिष्यानि वाहिनीम् ।
विद्राव्यसर्वान्हन्ताऽस्मि जाल्मं पाञ्चाल्यमेव तु ॥ ७.२००.६ ॥
因此,在他眼前,我将驱散他的军队;驱散所有人之后,我定要杀死那恶毒的般遮罗王子。
7.200.7
सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे ।
सत्यं ते प्रतिजानामि परिवर्तय वाहिनीम् ॥ ७.२००.७ ॥
若他们在战场上与我交战,我将杀尽他们。我以真实之言向你立誓:调转军队吧。
7.200.8
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् ।
सिंहनादेन महता व्यपोह्य सुमहद्भयम् ॥ ७.२००.८ ॥
你的儿子听罢,便调转军队;以雄狮般的吼声驱散了巨大的恐惧。
7.200.9
ततः समागमो राजन्कुरुपाण्डवसेनयोः ।
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ॥ ७.२००.९ ॥
于是,大王,库鲁与般度两军的冲突再次变得猛烈,犹如两片满盈的大海相遇。
7.200.10
संरब्धा हि स्थिरीभूता द्रोण पुत्रेण कौरवाः ।
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ॥ ७.२००.१० ॥
受德罗纳之子激励而愤怒的俱卢人稳住阵脚;而般度与般遮罗人因德罗纳之死而欢欣,变得凶猛。
7.200.11
तेषां परमहृष्टानां जयमात्मनि पश्यताम् ।
संरब्धानां महावेगः प्रादुरासीद्विशाम्पते ॥ ७.२००.११ ॥
人主啊,那些因看见胜利在于自身而欢喜无比、又满怀愤怒的人们中,爆发出巨大的冲力。
7.200.12
यथा शिलोच्चये शैलः सागरैः सागरो यथा ।
प्रतिहन्येत राजेन्द्र तथाऽसन्कुरुपाण्डवाः ॥ ७.२००.१२ ॥
犹如山岳被岩石堆所阻,大海被大海所阻,大王中的至尊啊,俱卢与般度二族便互相抵挡。
7.200.13
चुक्षुभे पृथिवी सर्वा दिशश्च प्रतिसस्वनुः ।
सम्भ्रान्तान्यपि भूतानि जलजान्यपि मारिष।
ते च सर्वे तदा योधाः सम्प्रहृष्टा युयुत्सवः ॥ ७.२००.१३ ॥
此时大地全都震动,四方回响。哦,尊者,连水中生长的生灵也惊恐不安。那些勇士无不欢欣鼓舞,急切地想要投入战斗。
7.200.14
ततः शङ्खसहस्राणि भेरीणामयुतानि च ।
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ॥ ७.२००.१४ ॥
于是,库鲁与班度的士兵欢欣鼓舞,吹响了成千上万的螺号,敲响了上万面鼓。
7.200.15
यथा निर्मथ्यमानस्य सागरस्य तु निःस्वनः ।
अभवत्तव सैन्यस्य सुमहानद्भुतोपमः ॥ ७.२००.१५ ॥
如同搅动大海时发出的巨响,您的军队中也升起了极其宏大而奇异的声响。
7.200.16
वर्तमाने तथा शब्दे रौद्रे तस्मिन्भयानके ।
सम्पतत्सु रथौघेषु तव तेषां च भारत ॥ ७.२००.१६ ॥
婆罗多的后裔啊,当那可怕而狂暴的声响持续之时,你方与敌方的车队纷纷冲杀过来。
7.200.17
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा ।
अभिसन्धाय पाण्डूनां पाञ्चालानां च वाहिनीं ॥ ७.२००.१७ ॥
于是德罗纳之子发出那罗延神箭,瞄准般遮罗与班度的军队。
7.200.18
प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः ।
पाण्डवान्क्षपयिष्यन्तो दीप्तास्यः पन्नगा इव ॥ ७.२००.१८ ॥
于是天空中出现了成千上万支箭,箭头燃烧,准备摧毁班度五子,如同口中喷火的毒蛇。
7.200.19
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे ।
मुहूर्ताद्भास्करस्येव लोके राजन्गभस्तयः ॥ ७.२००.१९ ॥
在那场大战中,它们瞬间遮蔽了四方、天空与军队,大王啊,犹如太阳的光芒笼罩世界。
7.200.20
तथाऽपरे द्योतमाना ज्योतींषीवामलाम्बरे ।
प्रादुरासन्महाराज कार्ष्णायसमया गुडाः ॥ ७.२००.२० ॥
同样,又有其他由黑铁制成的闪光球体,如星辰般出现在澄澈的天空中,大王啊。
7.200.21
चतुश्चक्रा द्विचक्राश्च शतघ्नो बहुला गदाः ।
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ॥ ७.२००.२१ ॥
四轮和双轮之器、百杀器、许多铁槌,以及刀刃如剃刀的飞轮,犹如光耀的太阳之轮般出现。
7.200.22
शस्त्राकृतिभिराकीर्णमतीव पुरुषर्षभ ।
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ॥ ७.२००.२२ ॥
人中雄牛啊,看见天空被各种兵器之形充满,般度子、般遮罗与斯由奈人都惊惧不安。
7.200.23
यथायथा ह्ययुध्यन्त पाण्डवानां महारथाः ।
तथातथा तदस्त्रं वै व्यवर्धत जनाधिप ॥ ७.२००.२३ ॥
大车将们与般度子交战,那神兵便随之愈发增长,人主啊。
7.200.24
वध्यमानास्तदाऽस्त्रेण तेन नारायणेन वै ।
दह्यमानाऽनलेनेव सर्वतोऽभ्यर्दिता रणे ॥ ७.२००.२४ ॥
那时,他们被那支那罗延神兵击中,如被烈火焚烧,在战场上四面受迫。
7.200.25
यथा हि शिशिरापाये दहेत्कक्षं हुताशनः ।
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ॥ ७.२००.२५ ॥
如同寒季将尽时,火焰焚烧干燥的灌木,主啊,那神箭也焚毁了般度族的军队。
7.200.26
आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति च प्रभो ।
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ॥ ७.२००.२६ ॥
主啊,法之子坚战见那不断增长的神箭正在毁灭军队,心中大惧。
7.200.27
द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् ।
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ॥ ७.२००.२७ ॥
法之子见那军队溃逃,仿佛失去知觉,又见阿周那置身事外,便说了这番话。
7.200.28
धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया ।
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो महान् ॥ ७.२००.२८ ॥
德律斯塔敦示那,你与般遮罗军一同逃走吧!萨谛奇,你这被毗湿尼与安陀迦勇士环绕的大英雄,也去吧。
7.200.29
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् ।
श्रेयो ह्युपदिशत्येष लोकस्य किमुतात्मनः ॥ ७.२००.२९ ॥
正直的婆苏提婆也会做对自己合宜之事。他所教导的是世界之福,何况是自己之福!
7.200.30
सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः ।
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ॥ ७.२००.३० ॥
此后不应再战;我向你们所有军队如此宣告。我将与兄弟们一同步入火中。
7.200.31
भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामे भीरुदुस्तरे ।
विमज्जिष्यामि सलिले सगणो द्रौणिगोष्पदे ॥ ७.२००.३१ ॥
渡过比濕摩与德罗那这片怯懦者难以渡过的战海,我将与我的随从沉没于德罗那之子的牛蹄坑水之中。
7.200.32
कामः सम्पद्यतामस्य बीभत्सोराशु मां प्रति ।
कल्याणवृत्तिराचार्यो मया युधि निपातितः ॥ ७.२००.३२ ॥
愿阿周那对我的这一心愿速速实现吧;因为我在战中击倒了德行高尚的师尊。
7.200.33
येन बालः स सौभद्रो युद्धानामविशारदः ।
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः ॥ ७.२००.३३ ॥
正是他,使那位不熟悉战阵的少年娑锁跋陀罗,未受保护,被许多有能力而残忍的人杀害。
7.200.34
येन विब्रुवती प्रश्नं तथा कृष्णा सभां गता ।
उपेक्षिता सपुत्रेण दासीभावं नियच्छती ॥ ७.२००.३४ ॥
正是他,使克里希纳在发问之时走入大会,并与她的儿子们一同遭受漠视,她已沦为奴婢之境。
7.200.35
रक्षणे च महान्यत्नः सैन्धवस्य कृतो युधि ।
अर्जुनस्य विघातार्थं प्रतिज्ञा येन रक्षिता ॥ ७.२००.३५ ॥
战中为保护信度王(胜车)付出了巨大努力,为阻挡阿周那而守住誓言的人,也正是他。
7.200.36
व्यूहद्वारि वयं चैव धृता येन जिगीषवः ।
वारितं च महत्सैन्यं प्रविशत्तद्यथाबलम् ॥ ७.२००.३६ ॥
正是他在阵门口拦住了我们这些渴望胜利之人,也正是他阻挡了那支依其力量而欲进入的大军。
7.200.37
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वन्येषु फल्गुनम् ।
कवचेन तथा गुप्तो रक्षार्थं सैन्धवस्य च ॥ ७.२००.३७ ॥
达利塔拉什特拉之子欲杀阿周那,他在其他疲惫的战士之中,披着铠甲受到保护,并为护卫信度王(胜车)而战。
7.200.38
येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः ।
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ॥ ७.२००.३८ ॥
那位通晓梵天箭的人,在努力将以萨提亚吉特为首的般遮罗人淹没之际,将他们连根击倒。
7.200.39
ग्रहणे च परो यत्नः कृतस्तेन यथा मम ।
विदितं सर्वमेवैतद्भवतां सर्वयोधिनाम् ॥ ७.२००.३९ ॥
在夺取阵势时,他也付出了巨大努力,正如对我一样;这一切你们所有战士都已知道。
7.200.40
येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः ।
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ॥ ७.२००.४० ॥
因他,我们被不义地逐出王国;尽管我们阻拦,他仍想要跟随我们。
7.200.41
वनवासान्निवृत्तानां समये च तथा कृते ।
स्नेहश्च दर्शितो नित्यं प्रत्यक्षं वो महारथाः ॥ ७.२००.४१ ॥
对于从林中放逐归来的人们,在适当的时候这样做了之后,啊,大车战士们,他始终公开向你们表示亲情。
7.200.42
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् ।
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः ॥ ७.२००.४२ ॥
那位对我们表现出最高友情的人已被杀害;为了他,我也将与亲族一同赴死。
7.200.43
एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः ।
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ॥ ७.२००.४३ ॥
昆提之子如此说时,达舍珂之裔(克里希那)急忙以双臂拦住军队,说出了这番话。
7.200.44
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत ।
एष योगोऽत्र विहितः प्रतिघाते महात्मनः ॥ ७.२००.४४ ॥
速速放下武器,从车乘上下来。这是此处为对抗大德者所定的方法。
7.200.45
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत ।
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ॥ ७.२००.४५ ॥
众人都从象、马与车上下到地面;这样,此兵器便不会在地上击杀你们这些无武器的人。
7.200.46
यथायथा हि युध्यन्ते योधा ह्यस्त्रमिदं प्रति ।
तथातथा भवन्त्येते कौरवा बलवत्तराः ॥ ७.२००.४६ ॥
战士们越是与此兵器抗争,这些俱卢人便越是强大。
7.200.47
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये ।
येऽञ्जलिं कुर्वते वीर नमस्ति च विवाहनाः।
तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान् ॥ ७.२००.४७ ॥
凡下车、放下兵器、合掌致礼而俯首者,英雄啊,此兵器在战场上不会杀害这些人。
7.200.48
ये त्वेतत्प्रतियोत्स्यन्ति मनसाऽपीह केचन ।
निहनिष्यति तान्सर्वान्रसातलगतानपि ॥ ७.२००.४८ ॥
但凡此处有人,哪怕只在心中与之相抗,此兵器也会杀死他们全部,即便他们已逃入幽界。
7.200.49
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत ।
ईषुः सर्वे समुत्स्रष्टुं मनोभिः करणेन च ॥ ७.२००.४९ ॥
婆罗多啊,他们听了婆苏提婆的那番话,都想以心念与手段发射(武器)。
7.200.50
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः ।
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ॥ ७.२००.५० ॥
于是,看到那些想要发射武器的人,般度之子毗摩修那,大王啊,一面振奋他们,一面说了这番话。
7.200.51
न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित् ।
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ॥ ७.२००.५१ ॥
此处任何人都不可发射兵器;我将以迅疾的箭矢遏止德罗纳之子的神兵。
7.200.52
गदयाऽप्यनया गुर्व्या हेमविग्रहया रणे ।
कालवत्प्रहरिष्यामि द्रौणेरस्त्रं विशातयन् ॥ ७.२००.५२ ॥
我将以这沉重、金身的铁杵在战场上如死神般击打,粉碎德罗纳之子的神兵。
7.200.53
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह ।
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ॥ ७.२००.५३ ॥
此处没有人能与我的勇力相当,正如没有其他光能与太阳相比。
7.200.54
पश्यतेमौ हि मे बाहू नागराजकरोपमौ ।
समर्थौ पर्वतस्यापि शैशिरस्य निपातने ॥ ७.२००.५४ ॥
请看,我这两臂如同象王的鼻子,即使是寒冬所生的山岳也能将其推倒。
7.200.55
नागायुतसमप्राणो ह्यहमेको नरेष्विह ।
शक्रो यथाऽप्रतिद्वन्द्वो दिवि देवेषु विश्रुतः ॥ ७.२००.५५ ॥
在人间,我独自拥有万头象的生命之力,正如天上诸神中无与伦比的因陀罗闻名于世。
7.200.56
अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि ।
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ॥ ७.२००.५६ ॥
今日战场上,请看我这双宽肩之臂的威力,它们将挡下德罗纳之子那熊熊燃烧、光芒四射的神箭。
7.200.57
यदि नारायणास्त्रस्य प्रतियोद्वा न विद्यते ।
अद्यैतत्प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुपु ॥ ७.२००.५७ ॥
若无人能抵挡那那罗衍那神箭,那么今日在俱卢与般度众人注视之下,我将亲自去抵挡它。
7.200.58
अर्जुनार्जुन बीभत्सो न न्यस्यं गाण्डिवं त्वया ।
शशाङ्कस्येव ते पङ्को नैर्मल्यं पातयिष्यति ॥ ७.२००.५८ ॥
阿周那,阿周那,比跋苏!切勿放下甘狄拔神弓;正如月亮上的污点会损其皎洁,这样做也会损你的清白。
7.200.59
भीम नारायणास्त्रे मे गोषु च ब्राह्मणेषु च ।
एतेषु गाण्डिवं न्यस्यमेतद्धि व्रतमुत्तमम् ॥ ७.२००.५९ ॥
婆罗多!面对那那罗衍那神箭,为了牛和婆罗门,我不会放下甘狄拔神弓;这便是我的至高誓愿。
7.200.60
एवमुक्तस्ततो भीमो द्रोणपुत्रमरिन्दमम् ।
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ॥ ७.२००.६० ॥
听闻此言,毗摩向那征服敌人的德罗纳之子进发,乘坐光辉如太阳的战车,车声如雷云轰鸣。
7.200.61
कम्पयन्मेदिनीं सर्वां त्रासयंश्च चमूं तव ।
शङ्खशब्दं महत्कृत्वा भुजशब्दं च पाण्डवः ॥ ७.२००.६१ ॥
震撼整个大地,惊吓你的军队,般度之子吹响了巨大的海螺,并发出了臂膀的响声。
7.200.62
तस्य शङ्खस्वनं श्रुत्वा बाहुशब्दं च तावकाः ।
समन्तात्कोष्ठकीकृत्य शरव्रातैरवाकिरन् ॥ ७.२००.६२ ॥
你的战士听到他的海螺声和臂膀的响声,四面合围,以箭雨将他覆盖。
7.200.63
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः ।
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ॥ ७.२००.६३ ॥
那位以敏捷之勇著称的贡蒂之子,瞬间便以箭网逼近并将他覆盖。
7.200.64
ततो द्रौणिः प्रहस्यैनं द्रवन्तमभिभाष्य च ।
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ॥ ७.२००.६४ ॥
于是德罗纳之子笑着对逃跑的他说话,并以那些带着燃烧箭头的咒力箭将他覆盖。
7.200.65
पन्नगैरिव दीप्तास्यैर्वमद्भिर्ज्वलनं रणे ।
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ॥ ७.२००.६५ ॥
如同在战场上口中燃烧、喷吐火焰的毒蛇,普利塔之子被金色的火星所覆盖。
7.200.66
तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे ।
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ॥ ७.२००.६६ ॥
大王啊!在战斗中,怖军的形象变得像黄昏时被萤火虫覆盖的山峰。
7.200.67
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति ।
अवर्धत महाराज यथाऽग्निरनिलोद्धतः ॥ ७.२००.६७ ॥
大王啊,德罗纳之子的那件武器反击向他,愈发增长,如同被风吹动的火焰。
7.200.68
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् ।
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ॥ ७.२००.६८ ॥
见那件具有毗摩勇力的武器不断增长,除毗摩外,般度军陷入极大的恐惧。
7.200.69
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले ।
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ॥ ७.२००.६९ ॥
于是他们全都把武器抛在地上,从战车、象和马上下来。
7.200.70
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च ।
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ॥ ७.२००.७० ॥
当他们放下武器、从坐骑上跌落时,那件武器的巨大威力落在毗摩的头上。
7.200.71
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः ।
भीमसेनमपश्यन्त तेजसा संवृतं तथा ॥ ७.२००.७१ ॥
一切众生都惊呼“哎呀”,尤其般度之子们看见毗摩森那被那光芒所笼罩。