Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 7.202

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

7.202.1

तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः ।
न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया ॥ ७.२०२.१ ॥

その軍が崩れたのを見て、クンティーの子アルジュナは、無量の魂をもつ者として、ドローナの子に勝とうと望み、それを押しとどめた。

7.202.2

ततस्ते सैनिका राजन्सर्वे तत्रावतस्थिरे ।
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥ ७.२०२.२ ॥

そのとき王よ、兵士たちは皆そこに踏みとどまった。ゴーヴィンダとアルジュナが力を尽くして彼らを立て直していたのである。

7.202.3

एक एव च बीभत्सुः सोमकावयवैः सह ।
मात्स्यैरन्यैश्च संधाय कौरवान्सन्न्यवर्तत ॥ ७.२०२.३ ॥

ただひとり、ビーバツス(アルジュナ)は、ソーマカの戦士やマツヤ族らと同盟し、クル族を退却させた。

7.202.4

ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् ।
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥ ७.२०२.४ ॥

そののち速やかに進み出て、獅子の尾の旗を持つ大弓の射手アシュヴァッターマンに、サヴィヤサーチン(アルジュナ)は語った。

7.202.5

य शक्तिर्यच्च विज्ञानं यद्वीर्यं यच्च पौरुषम् ।
धार्तराष्ट्रेषु या प्रीतिर्देषोऽस्मासु च यच्च ते ॥ ७.२०२.५ ॥

おまえの力、おまえの知識、おまえの勇気と男らしさ、ドリタラーシュトラの子らへのおまえの愛情、われらへのおまえの憎しみ、そしておまえのものすべて——

7.202.6

यच्च भूयोऽस्ति तेजस्ते तत्सर्वं मयि दर्शय ।
स एव द्रोणहन्ता ते दर्पं छेत्स्यति पार्षतः ॥ ७.२०२.६ ॥

さらに残る光輝があるなら、それをすべて私に見せよ。ドローナを討つ者、プリシャタの子こそが、おまえの慢心を断ち切るだろう。

7.202.7

कालानलसमप्रख्यं द्विषामन्तकोपमम् ।
समासादय पाञ्चाल्यं मां चापि सहकेशवम्।
दर्पं नाशयितास्म्यद्य तवोद्वृत्तस्य संयुगे ॥ ७.२०२.७ ॥

時のアグニのように輝き、敵にとって死神のようなパーンチャーリャに立ち向かえ。ケーシャヴァと共にいる私にも立ち向かえ。今日、戦場でお前の驕慢を私が打ち砕く。

7.202.8

आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय ।
प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः ॥ ७.२०२.८ ॥

サンジャヤよ、師の子(アシュヴァッターマン)は尊敬に値し、力強い。彼はダナンジャヤ(アルジュナ)に愛情を抱き、かの偉大な魂にも愛されている。

7.202.9

न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् ।
अथ कस्मात्स कौन्तेयः सखायं रूक्षमुक्तवान् ॥ ७.२०२.९ ॥

ビーバトゥス(アルジュナ)がこれほど厳しい言葉を発したことは、以前には一度もなかった。ではなぜクンティーの息子は友にこれほど荒々しく語ったのか。

7.202.10

युवराजे हते चैव वृद्वक्षत्रे च पौरवे ।
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ॥ ७.२०२.१० ॥

皇太子が殺され、老クシャトラとパウラヴァが殺され、弓矢と武器の術に熟達したマーラヴァとスダルシャナが殺されたとき。

7.202.11

धृष्टद्युम्ने सात्यकौ च भीमे चापि पारजिते ।
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते। ॥ ७.२०२.११ ॥

ドリシュタデュムナ、サーティャキ、ビーマ、そして不敗のユディシュティラに対しても、その言葉によって急所まで傷つけられた。

7.202.12

अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो ।
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥ ७.२०२.१२ ॥

主よ、内部の分裂が生じ、悲しみを思い起こしたとき、ビーバトゥスの内に悲しみから、かつてない怒りが生じた。

7.202.13

तस्मादनर्हमश्लीलमप्रियं द्रोणिमुक्तवान् ।
मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा ॥ ७.२०२.१३ ॥

それゆえ彼はドローナの息子に、ふさわしくなく、下品で不快な言葉を、臆病者に対するように荒々しく語った。相手は尊敬すべき師の息子であったのに。

7.202.14

एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप ।
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा ॥ ७.२०२.१४ ॥

王よ、パールタにあらゆる急所を突く荒々しい言葉でこう言われると、大弓士の中の最たる者は怒りに息を荒げた。

7.202.15

द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ।
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् ॥ ७.२०२.१५ ॥

ドローナの息子はパールタに激怒し、とりわけクリシュナに怒った。そしてその勇者は戦車に立ち、水で口を清めて、身を整えた。

7.202.16

देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ।
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः ॥ ७.२०२.१६ ॥

師の息子は、神々にさえ抗しがたい火の武器を手に取り、見えるものも見えないものも含む敵の群れを狙った。

7.202.17

सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ।
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥ ७.२०२.१७ ॥

マントラで清めた燃え立つ矢を、煙のない火のように、四方から怒りに満ちて、敵の英雄を倒す者が放った。

7.202.18

ततस्तुमुलमाकाशे शरवर्षमजायत ।
पावकार्चिपरीतं तत्पार्थमेवाभिपुप्लुवे ॥ ७.२०२.१८ ॥

すると空には凄まじい矢の雨が起こり、炎の光に包まれたそれは、まさにパールタめがけて襲いかかった。

7.202.19

उल्काश्च गगनात्पेतुर्दिशश्च न चकाशिरे ।
तमश्च सहसा रौद्रं चमूमवततार ताम् ॥ ७.२०२.१९ ॥

空から流星が落ち、方角は輝かなかった。そして突然、恐ろしい闇がその軍勢の上に降りた。

7.202.20

रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः ।
ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च ॥ ७.२०२.२० ॥

羅刹と人食いの鬼神たちは群がって叫びを上げた。冷たくない熱風が吹き、太陽さえ熱を放たなかった。

7.202.21

वायसाश्चापि चाक्रन्दन्दिक्षु सर्वासु भैरवम् ।
रुधिरं चापि वर्षन्तो निनेदुस्तोयदा दिवि ॥ ७.२०२.२१ ॥

カラスもあらゆる方角で恐ろしく鳴き叫び、雨雲は血を降らせながら天に轟いた。

7.202.22

पक्षिणः पशवो गावो विनेदुश्चापि सुव्रताः ।
परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥ ७.२०२.२२ ॥

鳥も獣も牛も鳴き叫んだ。誓願を守り、心を最も制御した人々でさえ安らぎを得られなかった。

7.202.23

भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम् ।
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवाभवत् ॥ ७.२०२.२३ ॥

あらゆる大元素は乱れ、太陽は逆向きに回ったかのようだった。三界は深く焼かれ、熱病に取りつかれたようになった。

7.202.24

अस्त्रतेजोभिसन्तप्ता नागा भूमिशयास्तथा ।
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥ ७.२०२.२४ ॥

武器の輝きに焼かれて地に伏していた蛇たちも、息を吐きながら立ち上がり、恐ろしい炎を放とうと焦った。

7.202.25

जलजानि च सत्वानि दह्यमानानि भारत ।
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥ ७.२०२.२५ ॥

バーラタよ、水に生まれた生き物さえも焼かれていた。熱せられた池は彼らに安らぎをもたらさなかった。

7.202.26

दिग्भ्यः प्रदिग्भ्यः खाद्भूमेः सर्वतः शरवृष्टयः ।
उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥ ७.२०२.२६ ॥

方角と四隅から、空から、大地から、四方八方から矢の雨が降り注ぎ、高く低く、ガルダや風のように速く落ちてきた。

7.202.27

तैः शरैर्द्रोणपुत्रस्य वज्रवेगैः समाहताः ।
प्रदग्धा रिपवः पेतुरग्निदग्धा इव द्रुमाः ॥ ७.२०२.२७ ॥

ドローナの子の雷のように速い矢に打たれ、敵は焼かれ、火に焼かれた木々のように倒れた。

7.202.28

दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः ।
नदन्तो भैरवान्नादाञ्चलदोपमनिस्वनान् ॥ ७.२०२.२८ ॥

燃える大象たちは四方の大地に倒れ、恐ろしい叫びをあげ、雷鳴のような音を響かせて吠えた。

7.202.29

अपरे प्रद्रुता नागा भयत्रस्ता विशाम्पते ।
त्रेसुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः ॥ ७.२०२.२९ ॥

他の象たちは恐怖に震えて逃げ去った、人々の主よ。森で山火事に囲まれた生き物のように、彼らは四方へ走り去った。

7.202.30

द्रुमाणां शिखराणीव दावदग्धानि मारिष ।
अश्वबृन्दान्यदृश्यन्त रथबृन्दानि भारत।
अपतन्त रथौघाश्च तत्रतत्र सहस्रशः ॥ ७.२०२.३० ॥

高貴なお方よ、森の火で焼かれた木々の梢のように馬の群れが見えた。バーラタよ、戦車の群れも見え、数千の戦車の隊列があちこちに倒れた。

7.202.31

तत्सैन्यं भयसंविग्नं ददाह युधि भारत ।
युगान्ते सर्वभूतानि संवर्तक इवानलः ॥ ७.२०२.३१ ॥

バーラタよ、彼は恐怖に震えるその軍勢を戦場で焼き尽くした。ちょうど劫末に一切の衆生を焼く壊劫の火のように。

7.202.32

दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे ।
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥ ७.२०२.३२ ॥

王よ、大戦で燃えるパーンダヴァの軍勢を見て、あなたの兵たちは喜び、獅子吼を上げた。

7.202.33

ततस्तूर्यसहस्राणि नानालिङ्गानि भारत ।
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥ ७.२०२.३३ ॥

そしてバーラタよ、勝利したと思ったあなたの兵たちは喜び、様々な種類の楽器を何千と直ちに打ち鳴らした。

7.202.34

कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः ।
तमसा संवृते लोके नादृश्यन्त महाहवे ॥ ७.२०२.३४ ॥

王よ、一つのアクシャウヒニー全軍も、両手利きの射手であるパーンダヴァのアルジュナも、大戦において闇に覆われた世界の中で見えなくなった。

7.202.35

नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् ।
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥ ७.२०२.३५ ॥

王よ、ドローナの子が怒りに任せて放った武器のようなものは、私たちは以前に見たことも聞いたこともない。

7.202.36

अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् ।
सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना ॥ ७.२०२.३६ ॥

しかし、偉大なる王よ、アルジュナはブラフマーの武器を放った。それは、すべての武器を打ち消すために蓮から生まれたブラフマーによって定められたものである。

7.202.37

ततो मुहूर्तादिव तत्तमो व्युपशशाम ह ।
प्रववौ चानिलः शीतो दिशश्च विमला बभुः ॥ ७.२०२.३७ ॥

やがて一瞬のうちにその闇は静まった。冷たい風が吹き、方角はすべて澄み渡って輝いた。

7.202.38

तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् ।
अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा ॥ ७.२०२.३८ ॥

そこで私たちは驚くべき光景を見た。一個のアクシャウヒニー軍全体が滅び、武器の輝きに焼かれ、その姿は見分けがつかなくなっていた。

7.202.39

ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ ।
सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ।
ततो गण्डीवधनन्वा च केशवश्चाक्षतावुभौ ॥ ७.२०२.३९ ॥

そして、二人の英雄、偉大な弓手ケーシャヴァとアルジュナは解放され、天空で闇を払う二つのもののように、ともに姿を現した。そしてガーンディーヴァの弓を持つアルジュナとケーシャヴァは、二人とも傷ついていなかった。

7.202.40

सपताकध्वजहयः सानुकर्षवरायुधः ।
प्रबभौ सरथो युक्तस्तावकानां भयङ्करः ॥ ७.२०२.४० ॥

旗、幢幡、馬、軛の柱と優れた武器を備えた戦車は、輝きを放ち、馬をつけられ、あなたの兵にとって恐ろしい姿であった。

7.202.41

ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह ।
पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥ ७.२०२.४१ ॥

やがて一瞬のうちに、喜び勇むパーンダヴァたちの「キラキラ」という歓声が、法螺貝と太鼓の音とともに湧き上がった。

7.202.42

हताविति तयोरासीत्सेनयोरुभयोर्मतिः ।
तरसाऽभ्यागतौ दृष्ट्वा सहितौ कैशवार्जुनौ ॥ ७.२०२.४२ ॥

「この二人は討たれた」というのが両軍の考えであったが、ケーシャヴァとアルジュナが素早く連れ立って近づいてくるのを見て、その考えは覆された。

7.202.43

तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ ।
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताऽभवन् ॥ ७.२०२.४३ ॥

無傷で喜んだ二人は最上の法螺貝を吹いた。歓喜するパーンダヴァの子らを見て、あなた方の側は苦しんだ。

7.202.44

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः ।
मुहूर्तं चिन्तयामास किन्त्वेतदिति मारिष ॥ ७.२०२.४४ ॥

解放された二人の大いなる魂を見て、ドローナの子は深く悲しんだ。しばし彼は「これはどうしたことか」と思案した、尊き方よ。

7.202.45

चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः ।
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्ततः ॥ ७.२०२.४५ ॥

王の中の王よ、考え込んだ後、彼は思索と悲しみに沈み、長く熱い溜息をついて意気消沈した。

7.202.46

ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः ।
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ॥ ७.२०२.४६ ॥

するとドローナの子は弓を捨て、戦車から素早く飛び降り、「恥だ、恥だ、これはすべて偽りだ!」と言って戦場から逃げ去った。

7.202.47

ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम् ।
वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह ॥ ७.२०२.४७ ॥

そこで彼は、滑らかな雨雲のごとく、ヴェーダの住処、汚れなき者、サラスヴァティーの岸に住むヴェーダ・ヴィヤーサを見た。

7.202.48

तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वहम् ।
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥ ७.२०२.४८ ॥

クル族を支える者が前に立つのを見て、ドローナの子は礼をし、喉を詰まらせ、ひどく哀れに言葉を発した。

7.202.49

भोभो माया यदृच्छा वा दैवं वा किमिदं भवेत् ।
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥ ७.२०२.४९ ॥

ああ!これは幻か、偶然か、それとも運命か?私のこの武器がなぜ無駄になったのか?私のどこに過ちがあったのか?

7.202.50

अधरोत्तरमेतद्वा लोकानां वा पराभवः ।
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥ ७.२०२.५० ॥

これは逆転か、それとも諸世界の敗北か?もしこの二人のクリシュナが生きているなら、時は実に越えがたい。

7.202.51

नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः ।
न सर्पा यक्षपतगा न मनुष्याः कथञ्चन ॥ ७.२०२.५१ ॥

アスラでもなく、ガンダルヴァでもなく、ピシャーチャでもなく、ラークシャサでもなく、蛇でもなく、ヤクシャや鳥でもなく、人間でもどうにもできない。

7.202.52

उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् ।
तदिदं केवलं हत्वा शान्तमक्षौहिणीं ज्वलत् ॥ ७.२०२.५२ ॥

私が放ったこの武器を別のものに変えられる者はいない。燃え盛るアクシャウヒニー軍を一つ滅ぼしてようやく鎮まったのだ。

7.202.53

सर्वघानि मया मुक्तमस्त्रं परमदारुणम् ।
केनेमौ मर्त्यधर्माणौ नाधाक्षीत्केशवार्जुनौ ॥ ७.२०२.५३ ॥

私が放ったこの全てを滅ぼす極めて恐ろしい武器が、死すべき性質のケーシャヴァとアルジュナを、どうして焼き尽くさなかったのか?

7.202.54

एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ।
श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने ॥ ७.२०२.५४ ॥

尊き方よ、私の問いに応じ、ありのままにこれを説いてください。大聖者よ、これらすべてを真実の本質として聞きたいのです。

7.202.55

महान्तमेवमर्थं मां यं त्वं पृच्छसि विस्मयात् ।
तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥ ७.२०२.५५ ॥

驚きのあまり私に尋ねているこの大いなる事柄を、あなたにすべて語ろう。心を集中して聞きなさい。

7.202.56

योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः ।
आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः ॥ ७.२०२.५६ ॥

ナーラーヤナという名で知られる者、古人よりも先に生まれた者、根源の神、世界の主、諸世界の創造者、自ら主なる御方。

7.202.57

आद्यः सर्वस्य लोकस्य अनादिनिधनोऽच्युतः ।
व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश्च ह ॥ ७.२०२.५७ ॥

彼はあらゆる世界の始原、始めも終わりもなく、不滅なる者。その真実の本性は、聖典と聖仙たちが説き明かす。

7.202.58

अतोऽजय्यः सर्वभूतैर्मनसाऽपि जगत्पतिः ।
तस्मादिमं जेतुकाम अज्ञानतमसा वृतः ॥ ७.२०२.५८ ॥

ゆえに世界の主は、いかなる存在も心によってさえ打ち負かすことはできない。それでも無明の闇に覆われた者が、彼を打ち負かそうと望む。

7.202.59

मा शुचः पुरुषव्याघ्र विद्वि तद्वदिहार्जुनम् ।
तस्य शक्तिरसौ पार्थास्तस्माच्छोकमिमं त्यज ॥ ७.२०२.५९ ॥

人中の虎よ、嘆くな。ここのアルジュナも彼と同じであると知れ。あのプリター の子は彼の力である。ゆえにこの悲しみを捨てよ。

7.202.60

विश्वेश्वरोऽयं लोकादिः परमात्मा ह्यधोक्षजः ।
सहस्रसंहितादंशादेकांशोऽयमजायत ॥ ७.२०२.६० ॥

これは宇宙の主、諸世界の始原、至高の我、感覚を超えた者である。千重の集成の一部から、この一部が生まれた。

7.202.61

देवानां हितकामार्थं लोकानां चैव सत्तमः ।
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ॥ ७.२०२.६१ ॥

神々と諸世界の利益と願いのために、最も優れた者が一つの目的のためにダルマの子として生まれた——宇宙の創造者である。

7.202.62

स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः ।
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः ॥ ७.२०२.६२ ॥

彼は寒い山に身を置き、両腕を高く掲げて苛烈な苦行を行った。大いなる輝きを放ち、燃え盛る火と太陽のようであった。

7.202.63

षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च ।
अशोषयत्तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः ॥ ७.२०२.६३ ॥

六万年と、さらにそれと同じ数の百年のあいだ、風を食として、蓮華眼の彼は自らの身を干からびさせた。

7.202.64

अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् ।
द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥ ७.२०२.६४ ॥

さらに別の苦行を行い、二度、そしてまたもう一つの大いなる苦行をして、彼は自らの輝きで天と地の間の隙間を満たした。

7.202.65

स तेन तपसा तात ब्रह्मभूतो यदाऽभवत् ।
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम्।
ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम् ॥ ७.२०२.६५ ॥

愛しい子よ、その苦行によって彼がブラフマンとなったとき、彼は宇宙の主、万有の源、世界の主を見た——容易には打ち倒せず、すべての神々に讃えられる者を。

7.202.66

अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम् ।
रुद्रमीशानवृषभं हरं शंभुं कपर्दिनम् ॥ ७.२०२.६६ ॥

微小なものよりも小さく、大いなるものよりも大いなる者——ルドラ、主たちの中の牡牛、ハラ、シャンブ、もつれ髪の者を。

7.202.67

चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह ।
दुर्वारणं सुदुर्धर्षं दुर्निरीक्ष्यं दुरासदम्।
अतिमन्युं महात्मानं सर्वभूतप्रचेतसम् ॥ ७.२०२.६७ ॥

彼はチェキターナであり、至高の根源、立つものと動くものの支えである。防ぎがたく、極めて打ち破りがたく、見がたく、近づきがたい。激しい怒りを持つ偉大な魂であり、一切の存在の心である。

7.202.68

दिव्यं चापमिषुधी चाददानं ।
हिरण्यवर्माणमनन्तवीर्यम्।
पिनाकिनं वज्रिणं दीप्तशूलं ।
परश्वथिं गदिनं चायतासिम् ॥ ७.२०२.६८ ॥

神聖な弓と二つの矢筒を取り、黄金の鎧をまとい、無限の武勇を持ち、ピナーカを持ち、雷杵を振るい、燃える三叉戟、斧、棍棒、長剣を携える。

7.202.69

वचोधिकैः सुष्टुतमिष्टवाग्भिः ॥ ७.२०२.६९ ॥

何よりも優れた言葉と、心地よい言葉によってよく讃えられた。

7.202.70

जलं दिशं खं क्षितिं चन्द्रसूर्यौ ।
हुताशवायुप्रतिमं सुरेशम्।
नालं द्रष्टुं यं जना भिन्नवृत्ता ।
ब्रह्मद्विषघ्नममृतस्य योनिम् ॥ ७.२०२.७० ॥

水、方角、空、大地、月と太陽。火と風に等しく、神々の主。行いの分かれた人々には見ることのできぬお方、梵に敵対する者を滅ぼすお方、不死の根源。

7.202.71

यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः ।
क्षीणे पापे मनसा वीतशोकाः।
तन्निष्ठात्मा तपसा धर्ममीड्यं ।
तद्भक्त्या वै विश्वरूपं ददर्श ॥ ७.२०२.७१ ॥

善行のバラモンたちが見るお方。罪が尽き、心に憂いなくなったとき;苦行によって、その方に心を定めた魂で、讃えられるべき法を;その方への信愛によって、まことに宇宙の姿を見た。

7.202.72

दृष्ट्वा चैनं वाड्मनोबुद्धिदेहैः ।
संहृष्टात्मा मुमुदे वासुदेवः ॥ ७.२०२.७२ ॥

その方を見て、言葉、心、知性、身体をもって、歓喜した魂のヴァースデーヴァは喜び楽しんだ。

7.202.73

अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् ।
रुद्रं नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ॥ ७.२०२.७३ ॥

数珠に囲まれた、光の至高の宝庫、宇宙の源であるルドラを見て、ナーラーヤナは礼拝した。

7.202.74

वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् ।
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम् ॥ ७.२०२.७४ ॥

広やかで美しい肢体のパールヴァティーと共にあり、遊戯し、精霊の群れと従者に囲まれた、恩恵を与える偉大な主を見た。

7.202.75

अजमीशानमव्यक्तं कारणात्मानमच्युतम् ।
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने।
पद्माक्षस्तं विरुपाक्षमभितुष्टाव भक्तिमान् ॥ ७.२०२.७५ ॥

直ちにルドラに礼拝した。その不生の、主なる、未顕の、原因を自己とする、不滅の、アンダカを討つ者に。蓮華眼の信者は、その三眼の神を大いに讃えた。

7.202.76

न्नरान्सुपर्णानथ गन्धर्वयक्षान्। ॥ ७.२०२.७६ ॥

人間、スパルナ(ガルダ)、そしてガンダルヴァとヤクシャを[……]。

7.202.77

पृथग्विधान्भूतसङ्घांश्च विश्वां… ।
स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव ॥ ७.२०२.७७ ॥

様々な種類の存在の群れと全宇宙……あなたから生じたもの。私たちはそれらすべてを同じように知っている。

7.202.78

ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं ।
पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥ ७.२०२.७८ ॥

インドラの業、ヤマの業、ヴァルナの業、ヴァイッタパーリヤ(クベーラの領域)、祖霊の業、トヴァシュトリの業、そして穏やかな業も、すべてあなたのものです。

7.202.79

रूपं ज्योतिः शब्द आकाशवायुः ।
स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी।
कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च ।
त्वत्सम्भूताः स्थास्नु चरिष्णु चेदम् ॥ ७.२०२.७९ ॥

形、光、音、虚空と風、触、味、水、香と大地、時間、ブラフマー、ブラフマンとバラモン──これらも、不動と動くこの世界も、あなたから生じた。

7.202.80

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ।
ताथिश्चैक्यं संक्षये यान्ति भूयः।
एवं विद्वान्प्रभवं चाप्ययं च ।
त्वसम्भूतं तव सायुज्यमेति ॥ ७.२०२.८० ॥

水滴が分かれてまた一つに帰り、壊滅のときにまた一体となるように、このように知る者は生と滅を知り、あなたから生じたあなたとの合一に至る。

7.202.81

त्वत्सम्भूतास्ते च तेभ्यः परस्त्वम् ॥ ७.२०२.८१ ॥

それらもまたあなたから生じ、あなたはそれらより高い。

7.202.82

भूतं भव्यं भविता चाप्रधृष्यं ।
त्वत्सम्भूता भुवनानीह विश्वा।
भक्तं च मां भजमानं भजस्व ।
प्रीत्या मां वै लोकपितामहेश ॥ ७.२०२.८२ ॥

過去・現在・未来は打ち負かされず、ここにある全世界はあなたから生じた。帰依者と、あなたを礼拝する私を愛をもって受け入れてください、世界の祖父よ、主よ。

7.202.83

नभिष्टुतः प्रविकार्षीश्च मायाम् ॥ ७.२०२.८३ ॥

讃えられても、どうか幻力をあらわさないでください。

7.202.84

तस्मै वरानचिन्त्यात्मा देवदेवः पिनाकधृत् ।
विष्णवे देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥ ७.२०२.८४ ॥

不可思議な自性を持つ神々の神、ピナーカ弓の持ち主は、聖仙たちに讃えられ、神々の中で第一のヴィシュヌに恩恵を授けた。

7.202.85

मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु ।
अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥ ७.२०२.८५ ॥

私の恩寵によって、人間の中に、また神々やガンダルヴァの胎に、無限の力と本性を持つナーラーヤナとなるであろう。

7.202.86

न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः ।
न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः ॥ ७.२०२.८६ ॥

神々、アスラ、大蛇たちもお前を制することはなく、ピシャーチャ、ガンダルヴァ、ヤクシャ、ラークシャサもできない。

7.202.87

न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः ।
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥ ७.२०२.८७ ॥

スパルナ、ナーガ、ヴィシュヴァ神群、胎生によらず生まれた者も、お前を制することはない。神であってさえ、戦いでお前に勝つ者はいない。

7.202.88

न शस्त्रेण न वज्रेण नाग्निना न च वारिणा ।
न चार्द्रेण न शुष्केण त्रसेन स्थावरेण च ॥ ७.२०२.८८ ॥

武器によっても、雷霆によっても、火によっても、水によっても、湿ったものによっても、乾いたものによっても、動くものによっても、動かぬものによっても、お前は滅ぼされない。

7.202.89

न हस्तेन न पादेन न काष्ठेन न लोष्टुना ।
कश्चित्तव रुजां कर्ता मत्प्रसादात्कथञ्चन।
अपि वै समरं गत्वा भविष्यसि ममाधिकः ॥ ७.२०२.८९ ॥

手によっても、足によっても、木によっても、土塊によっても、お前を傷つける者はいない。私の恩寵によって、いかなる仕方でも誰もお前に苦痛を与えることはない。戦いに赴いても、お前は私を超えるであろう。

7.202.90

एवमादीन्वराँल्लब्ध्वा प्रसादादथ शूलिनः ।
स एष देवश्चरति मायया मोहयञ्जगत् ॥ ७.२०२.९० ॥

三叉戟を持つ神の恩寵により、このような恩典を得たこの神は、幻力によって世界を惑わしながら歩き回っている。

7.202.91

तस्यैव तपसा जातो नरो नाम महामुनिः ।
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥ ७.२०२.९१ ॥

彼自身の苦行によって、ナラという名の大聖者が生まれた。この神と等しい彼を、常にアルジュナだと知れ。

7.202.92

तावेतौ पूर्वदेवानां परमोपचितादृषी ।
लोकयात्राविधानार्थं दानवानां वधाय च।
धर्मसंस्थापनार्थाय सञ्जायेते युगेयुगे ॥ ७.२०२.९२ ॥

この二人は太古の神々の中で最も高く尊ばれた仙人である。世界の運行を整えるため、ダーナヴァを滅ぼすため、そしてダルマを確立するため、二人は世々にわたって生まれる。

7.202.93

तथैव कर्मणा कृत्स्नं महतस्तपरसोऽपि च ।
तेजो वाग्भिश्च विद्वंस्त्वं जातो रुद्रान्महामते ॥ ७.२०२.९३ ॥

同様に、行為によって、偉大な苦行の輝きによって、そして言葉によっても、あなたは完全にルドラから生まれたのだ。学者よ、大智の人よ。

7.202.94

स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् ।
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥ ७.२०२.९४ ॥

あなたは神のように賢く、世界が生成より成ることを知り、彼の恩寵を望んで戒律によって自らを抑えた。

7.202.95

शुभ्रमत्र हविः कृत्वा महापुरुषविग्रहम् ।
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥ ७.२०२.९५ ॥

ここで清浄な供物を捧げ、大丈夫の姿を、読誦と護摩と供物によって祭った。名誉を与える者よ。

7.202.96

स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् ।
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥ ७.२०२.९६ ॥

あなたにこのように供養され、その太古の神も満足された。学者よ、あなたの心にあった豊かな恩寵を彼はあなたに授けた。

7.202.97

जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः ।
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयाऽर्चायां युगेयुगे।
देवदेवस्त्वचिन्त्यात्मा अजेयो विष्णुसम्भवः ॥ ७.२०२.९७ ॥

あの二人の誕生、行い、苦行、ヨーガは、あなたの中に豊かにある。あなたは世々の時代を通じて、リンガと像においてその神を礼拝してきた。彼は神々の神、不可思議な自己、不敗であり、ヴィシュヌから生まれた者である。

7.202.98

सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥ ७.२०२.९८ ॥

バヴァ(存在の源)があらゆる姿をもつと知り、リンガにおいて主を礼拝する者には、自己のヨーガと聖典のヨーガが永遠に宿る。

7.202.99

एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः ।
प्रार्थयन्ते परं लोके स्थाणुमेव च शाश्वतम् ॥ ७.२०२.९९ ॥

このように神々、成就者、偉大な聖仙たちは供犠しつつ、世において至高で永遠なるスターヌのみに祈願する。

7.202.100

स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः ।
कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः ॥ ७.२०२.१०० ॥

この人こそルドラの帰依者ケーシャヴァ、ルドラから生まれたクリシュナである。供犠によって礼拝されるべき者、まさに永遠の者である。

7.202.101

सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः ।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥ ७.२०२.१०१ ॥

すべての存在の源を知って主のリンガを礼拝する者に、牛旗を掲げる神は、いっそう大きな愛情を注ぐ。

7.202.102

तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः ।
नमश्चकार रुद्राय बहुमेने च केशवम् ॥ ७.२०२.१०२ ॥

その言葉を聞いて、ドローナの子である大戦士はルドラに礼拝し、ケーシャヴァを大いに敬った。

7.202.103

हष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये ।
वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत् ॥ ७.२०२.१०३ ॥

身の毛もよだち、自制した彼は大聖者に礼拝し、軍勢を見やって、まさしく撤退(avahāra)を行わせた。

7.202.104

ततः प्रत्यवहारोऽभूत्पाण्डवानां विशाम्पते ।
कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥ ७.२०२.१०४ ॥

さて、人主よ、戦いでドローナが倒れた後、パーンドゥの子らの側にも、悲嘆に沈んだクル族の側にも、戦闘からの撤退が起きた。

7.202.105

युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् ।
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥ ७.२०२.१०५ ॥

王よ、五日間戦い軍勢を討ち滅ぼした後、ヴェーダの彼岸に達したバラモンのドローナは梵天界へと去った。