摩诃婆罗多 · 章 7.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.26.1
तेष्वेवं सन्निवृत्तेषु प्रत्युद्यातेषु भागशः ।
कथं युयुधिरे पार्था मामकाश्च तरस्विनः ॥ ७.२६.१ ॥
当他们这样分批撤退又重新反扑时,普利塔之子与我方勇猛的战士是如何作战的?
7.26.2
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति ।
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय ॥ ७.२६.२ ॥
桑沙普塔卡军队与阿周那作战时,阿周那做了什么?或者,桑沙普塔卡对普利塔之子做了什么,桑闍耶?
7.26.3
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः ।
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः ॥ ७.२६.३ ॥
当他们这样分批撤退又重新反扑时,您的儿子亲自率领象军向毗瑪猛扑过去。
7.26.4
स नाग इव नागेन गोवृषेणेव गोवृषः ।
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् ॥ ७.२६.४ ॥
如象之对象,如牛之对牛,受国王亲自召唤,他冲向象军。
7.26.5
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः ।
अभिनत्कुञ्जरानीकमचिरेणैव मारिष ॥ ७.२६.५ ॥
那位精通战阵、臂力过人的普利塔之子,很快便冲破了象军,尊者啊。
7.26.6
ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम् ।
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः ॥ ७.२६.६ ॥
那些如山的象群,四面流淌着发情之液,被毗摩森那的铁箭逼退,失去了狂性。
7.26.7
विधमेदभ्रजालानि यथा वायुः समुद्धतः ।
व्यधमत्तान्यनीकानि तथैव पवनात्मजः ॥ ७.२६.७ ॥
如同狂风吹散云团,风之子便如此冲散了那些军队。
7.26.8
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत ।
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः ॥ ७.२६.८ ॥
在那些象群之间射出箭矢的毕摩,光辉如升起的太阳,将光芒洒遍一切世界。
7.26.9
ते भीमबाणाभिहताः संस्यूता विबभुर्गजाः ।
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः ॥ ७.२६.९ ॥
那些被毕摩之箭射中并穿透的象群,在天空中如同被阳光照耀的各色云朵般闪耀。
7.26.10
तथा गजानां कदनं कुर्वाणमनिलात्मजम् ।
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः ॥ ७.२६.१० ॥
当风之子这样屠戮象群时,愤怒的难敌走近他,以锐利的箭矢予以还击。
7.26.11
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः ।
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः ॥ ७.२६.११ ॥
随即,眼睛赤红如血的毕摩,想要毁灭这位大地之主,瞬间以锐利的箭矢射穿了他。
7.26.12
स शराचितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् ।
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव ॥ ७.२६.१२ ॥
全身布满箭矢的愤怒的难敌,仿佛在微笑,以如日光般闪耀的铁箭射向般度之子毕摩森那。
7.26.13
तस्य नागं मणिमयं रत्नचित्रध्वजे स्थितम् ।
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः ॥ ७.२६.१३ ॥
般度之子迅速用两支跋罗箭斩断了他那镶嵌宝石的象,那象立于饰有宝石图案的旗帜之下,也斩断了他的弓。
7.26.14
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष ।
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः ॥ ७.२६.१४ ॥
主啊,见杜尔约达那被婆罗摩所逼,安伽国王骑着象前来,想要扰乱他。
7.26.15
तमापतन्तं नागेन्द्रमम्बुदप्रतिमस्वनम् ।
कुम्भान्तरे भीमसेनो नाराचैरार्दयद्भृशम् ॥ ७.२६.१५ ॥
婆罗摩那用铁箭狠狠射中那向他冲来、吼声如云的象王,箭射在它的象头之间。
7.26.16
तस्य कायं विनिर्भिद्य न्यमज्जद्धरणीतले ।
ततः पपात द्विरदो वज्राहत इवाचलः ॥ ७.२६.१६ ॥
它穿透了象身,陷入地中;于是那象倒下,如同被金刚杵击中的山岳。
7.26.17
तस्वावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः ।
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः ॥ ७.२६.१७ ॥
那蛮族之王的象已倒,他正向下坠落,迅捷的狼腹(婆罗摩)以跋罗箭斩下了他的头。
7.26.18
तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः ।
सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्गती ॥ ७.२६.१८ ॥
那英雄倒下之后,那支军队四散奔逃;惊慌的马匹、象与战车踩踏着步兵而去。
7.26.19
तेष्वनीकेषु भग्नेषु विद्रवत्सु समन्ततः ।
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् ॥ ७.२६.१९ ॥
当那些军队溃散、四面逃窜之时,普拉格耶奥提沙王便骑着大象冲向毗摩。
7.26.20
येन नागेन मघवानजयद्दैत्यदानवान् ।
तदन्वयेन नागेन भीमसेनमुपाद्रवत् ॥ ७.२६.२० ॥
他骑着与因陀罗战胜提迪亚与檀那婆时所用之象同族的大象,扑向毗摩森那。
7.26.21
स नागप्रवरो भीमं सहसा समुपाद्रवत् ।
श्रवणाभ्यामथो द्वाभ्यां संहतेन करेण च ॥ ७.२६.२१ ॥
那头象中之王忽然扑向毗摩,以双耳与卷起的鼻子。
7.26.22
व्यावृत्तनयनः क्रुद्वः प्रमथन्निव पाण्डवम् ।
वृकोदररथं साश्वमविशेषमचूर्णयत् ॥ ७.२६.२२ ॥
双目翻转,愤怒之极,仿佛要碾碎般帕堵瓦,它将狼腹的战车连同马匹一并无差别地碾成粉末。
7.26.23
पद्भ्यां भीमोऽप्यथो धावंस्तस्य गात्रेष्वलीयत ।
जानन्नञ्जलिकावेधं नापाक्रामत पाण्डवः ॥ ७.२६.२३ ॥
毗摩虽徒步奔跑,却躲入那象的身体之间;他虽知合掌之击的危险,般堵瓦却未曾退避。
7.26.24
गात्राभ्यन्तरगो भूत्वा करेणाताडयन्मुहुः ।
लालयामास तं नागं वधाकाङ्क्षिणमव्ययम् ॥ ७.२६.२४ ॥
他深入象身之间,以手屡次击之,并抚慰那头欲置他于死地的不朽之象。
7.26.25
कुलालचक्रवन्नागस्तदा तूर्णमथाभ्रमत् ।
नागायुतबलः श्रीमान्कालयानो वृकोदरम् ॥ ७.२६.२५ ॥
那时,那头象像陶工的转轮一样迅速旋转;那头拥有万头象之力的威武大象,走向死亡,绕着狼腹(毗摩)旋转。
7.26.26
भीमोऽपि निष्क्रम्य ततः सुप्रतीकाग्रतोऽभवत् ।
भीमं करेणावनम्य जानुभ्यामभ्यताडयत् ॥ ७.२६.२६ ॥
毗摩也走出来,站在苏普拉提卡面前。于是那象用鼻子将毗摩压低,又用膝盖撞击他。
7.26.27
ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत ।
करवेष्टं भीमसेनो भ्रमं दत्त्वा व्यमोचयत् ॥ ७.२६.२७ ॥
那象将他缠绕在脖颈上,想要杀死他;但毗摩森那给象鼻的卷绕一个转动,便挣脱了出来。
7.26.28
पुनर्गात्राणि नागस्य प्रविवेश वृकोदरः ।
यावत्प्रतिगजायातं स्वबलं प्रत्यवैक्षत।
भीमोपि नागगात्रेभ्यो विनिःसृत्यापयाज्जवात् ॥ ७.२६.२८ ॥
狼腹又进入象身之内,同时望见对面的象正逼近,以及自己的军队。毗摩也从象身中出来,迅速后撤。
7.26.29
ततः सर्वस्य सैन्यस्य नादः समभवन्महान् ।
अहो धिङ्गिहतो भीमः कुज्जरेणेति मारिष ॥ ७.२६.२९ ॥
于是整个军队中响起了巨大的呼喊:“哎呀,可耻!毗摩被象打伤了!”大人,就是这样。
7.26.30
तेन नागेन सन्त्रस्ता पाण्डवानामनीकिनी ।
सहसाऽभ्यद्रवद्राजन्यत्र तस्यौ वृकोदरः ॥ ७.२६.३० ॥
那头象使般若军队惊恐,突然溃逃,大王;狼腹(毗摩)则留在那里。
7.26.31
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् ।
भगदत्तं सपाञ्चाल्यः सर्वतः समवारयत् ॥ ७.२६.३१ ॥
于是国王坚战以为怖军已死,与般遮罗人一起从四面八方阻住了婆伽陀多。
7.26.32
तं रथं रथिनां श्रेष्ठाः परिवार्य परन्तपाः ।
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः ॥ ७.२६.३२ ॥
敌人的烈焰般的勇士,诸车战士之最,包围了那辆战车,以数百数千支利箭倾泻其上。
7.26.33
स विघातं पृषत्कानामङ्कुशेन समाहरन् ।
क्षणेन पाण्डुपाञ्जालान्व्यधमत्पर्वतेश्वरः ॥ ७.२६.३३ ॥
那山王以象钩挡住箭雨,刹那间便驱散了般度子与般遮罗军。
7.26.34
तदद्भुतमपश्याम भगदत्तस्य संयुगे ।
तथा वृद्धस्य चरितं कुञ्जरेण विशाम्पते ॥ ७.२६.३४ ॥
人主啊,我们在战斗中看见了婆伽陀多那奇妙的功绩,那老者与象的所作所为。
7.26.35
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् ।
तिर्यग्यातेन नागेन समदेनाशुगामिना ॥ ७.२६.३५ ॥
于是那王骑着发情而迅疾的象斜行,从达沙尔纳人处直冲向普拉格约提沙。
7.26.36
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः ।
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा ॥ ७.२६.३६ ॥
那两头形貌可怖的象之间展开了一场战斗,恰如往昔两座生翼之山与其树木之间的战斗。
7.26.37
प्राग्ज्योतिषपतेर्नागः सन्निवृत्त्यापसृत्य च ।
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् ॥ ७.२६.३७ ॥
普拉格乔提沙之王的象回身退后,刺中达舍尔纳之王象的侧面,将那头象击倒。
7.26.38
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः ।
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् ॥ ७.२६.३८ ॥
随后,婆伽陀以七支如日光般闪耀的投枪击中了站在象上的那个敌人,他的座位动摇了。
7.26.39
व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः ।
रथानीकेन महता सर्वतः पर्यवारयत् ॥ ७.२६.३९ ॥
尤提斯提拉将国王婆伽陀隔开,以庞大的战车军团从四面将他包围。
7.26.40
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः ।
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः ॥ ७.२६.४० ॥
他坐在象上,被四面的车兵环绕,如同山上林中燃烧的火焰一般耀眼。
7.26.41
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् ।
किरतां शरवर्षाणि स नागः पर्यवर्तत ॥ ७.२६.४१ ॥
四面形成了由凶猛的弓手车兵紧密排列的圆阵;那象则回旋其中,洒下箭雨。
7.26.42
ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम् ।
प्रेषयामास सहसा युयुधानरथं प्रति ॥ ७.२६.४२ ॥
随后,普拉格乔提沙之王控住他的大象,突然将它驱向युयुधाना的战车。
7.26.43
आपतन्तं च सम्प्रेक्ष्य नागं सात्वतपुङ्गवः ।
अविध्यत्पञ्चभिर्बाणैः शितैराशीविषोपमैः ॥ ७.२६.४३ ॥
萨陀族中的英杰望见冲来的象,以五支锐利如毒蛇的箭射穿了它。
7.26.44
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः ।
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् ॥ ७.२६.४४ ॥
大象用鼻子卷住诗尼之孙的战车,猛然抛掷而出,但尤尤陀那躲开了。
7.26.45
बृहतः सैन्धवानश्वान्समुत्थाप्यथ सारथिः ।
तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं प्रति ॥ ७.२६.४५ ॥
随后御者扶起良种信度马,走近萨提奇,跃向那辆战车并站定。
7.26.46
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् ।
निष्पतन्सततं सर्वान्परिचिक्षेप पार्थिवान् ॥ ७.२६.४६ ॥
大象抓住空隙,迅速冲出战车的圈子,不停地把所有国王四处抛掷。
7.26.47
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः ।
तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो द्विपान् ॥ ७.२६.४७ ॥
那些人中之牛被这迅猛的巨兽吓坏了,在战场上竟把这一头象看成了成百上千头象。
7.26.48
ते गजस्थेन काल्यन्ते भगदत्तेन पार्थिवाः ।
ऐरावतस्थेन यथा देवराजेन दानवाः ॥ ७.२६.४८ ॥
正如天神之王因陀罗站在爱罗婆多象上击杀阿修罗,那些国王也正被站在象背上的婆伽达多所杀。
7.26.49
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः ।
गजवाजिकृतः शब्दः सुमहान्समजायत ॥ ७.२६.४९ ॥
在逃散的般遮罗人之间,这里那里,因为坚战(Bhīma)之故,象与马发出了极大的喧声。
7.26.50
भगदत्तेन समरे काल्यमानेषु पाण्डुषु ।
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् ॥ ७.२६.५० ॥
当般度诸子在战斗中被婆伽达多杀害时,极为愤怒的坚战再次向普拉格约提沙之主冲去。
7.26.51
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा ।
सिक्त्वा व्यत्रासयन्नागस्ते पार्थसहरंस्ततः ॥ ७.२६.५१ ॥
当他前进时,象用鼻子喷水浇湿了坐骑,使它们惊恐;于是阿周那的随从们。
7.26.52
ततस्तमभ्ययात्तूर्णं रुचिपर्वा कृतीसुतः ।
समघ्नञ्छरवर्षेण रथस्योऽन्तकसन्निभः ॥ ७.२६.५२ ॥
于是克里提之子鲁奇帕尔凡迅速向他冲去,站在战车上,如同死神,以箭雨击打他。
7.26.53
ततः स रुचिपर्वाणं शरेणानतपर्वणा ।
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् ॥ ७.२६.५३ ॥
于是山王苏波尔凡以弯曲关节的箭,将鲁奇帕尔凡送往毗婆娑多(阎摩)之境。
7.26.54
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुतः ।
चेकितानो धृष्टकेतुर्ययुत्सुश्चार्दयन्द्विपम् ॥ ७.२६.५४ ॥
当那位英雄倒下后,婆罗陀之子、德罗波蒂之子、车基坦、德里斯塔凯图和尤尤特苏攻击了那头象。
7.26.55
त एनं शरधाराभिर्धाराभिरिव तोयदाः ।
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥ ७.२६.५५ ॥
他们如雨云倾泻雨水般以箭雨浇灌他,发出可怖的吼声,渴望将他杀死。
7.26.56
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः ।
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् ॥ ७.२६.५६ ॥
于是,在熟练的驭者以脚跟、象钩和大拇指驱使下,大象伸展着鼻子,耳朵和眼睛僵直,迅速向前奔去。
7.26.57
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् ।
युयुत्सुस्तु रथाद्राजन्नपाक्रामत्त्वरान्वितः ॥ ७.२६.५७ ॥
他用脚踏倒了尤尤特苏的马,并将御者击倒;但大王啊,尤尤特苏急忙跳下战车退开了。
7.26.58
ततः पाण्डवयोधास्ते नागराजं शरैर्द्रुतम् ।
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः ॥ ७.२६.५८ ॥
于是那些般度的战士迅速以箭雨浇灌象王,发出可怖的吼声,渴望将其杀死。
7.26.59
पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् ।
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः।
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् ॥ ७.२६.५९ ॥
你的儿子慌乱地跃上萨乌跋德拉的战车;站在象背上向敌人射出箭矢的国王,光辉如太阳将光芒洒满世界。
7.26.60
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः ।
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः ॥ ७.२६.६० ॥
阿周那之子以十二支箭射中他,尤尤特苏以十支箭射中,德罗波蒂之子们与德里斯塔克图各以三支箭射中。
7.26.61
चेकितानः चतुःषष्ट्या सोत्तरायुधिकं पुनः ।
प्रत्यविध्यत्ततः सर्वान्भगदत्तस्त्रिभिस्त्रिभिः ॥ ७.२६.६१ ॥
车奇塔那以六十四件及更多兵器再次反击。随后婆伽达多以每人三箭射中了他们所有人。
7.26.62
सोऽतियत्नार्पितैर्बाणैराचितो द्विरदो बभौ ।
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् ॥ ७.२६.६२ ॥
那头大象被极力射出的箭矢覆盖,闪耀如同被太阳光线缝合的巨大云朵。
7.26.63
नियन्तुः शिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः ।
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् ॥ ७.२६.६३ ॥
在御者的技巧与努力驱使下,受敌箭折磨的那头象,将那些敌人向左右抛掷开去。
7.26.64
गोपाल इव दण्डेन यथा पशुगणान्वने ।
सङ्कालयति तां सेनां भगदत्तस्तथा मुहुः ॥ ७.२६.६४ ॥
如同牧人在林中用杖驱赶牛群,婆伽达多也一再驱赶、聚拢那支军队。
7.26.65
क्षिप्रं श्येनाभिप्रन्नानां वायसानामिव स्वनः ।
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः ॥ ७.२६.६५ ॥
很快,如同被鹰隼袭击的乌鸦鸣叫,逃散的般度之子中骤然爆发出巨大的哀号。
7.26.66
स नागराजः प्रवराङ्कुशाहतः ।
पुरा सपक्षोऽद्रिवरो यथा नृप।
भयं तदा रिपुषु समादधद्भृशं ।
वणिग्जनानां क्षुभितो यथाऽर्णवः ॥ ७.२६.६६ ॥
那象王被上好的象钩刺中,啊国王,如同往昔长翼的巨大山岳,那时在敌人中引起极大的恐惧,如同令商人惊恐的翻腾大海。
7.26.67
ततो ध्वनिर्द्विरदरथाश्वपार्थिवै ।
र्भयाद्रवद्भिर्जनितोऽतिभैरवः।
क्षितिं वियद् द्यां विदिशो दिशस्तथा ।
समावृणोत्पार्थिवसंयुगे ततः ॥ ७.२६.६७ ॥
于是,象、车、马和国王的喧嚣,以及因恐惧而呼喊之人的极其可怖的声音升起,在那场王者之战中覆盖了大地、天空、天界、方位和次方位。
7.26.68
स तेन नागप्रवरेण पार्थिवो ।
भृशं जगाहे द्विषतामनीकिनीम्।
पुरा सुगुप्तां विबुधैरिवाहवे ।
विरोचनो देववरूतिनीमिव ॥ ७.२६.६८ ॥
那位国王乘着那头上好的象,猛烈地冲入敌军之中,正如往昔毗卢遮那冲入在战斗中被诸神严密守护的天神大军。
7.26.69
भृशं ववौ ज्वलनसखो वियद्रजः ।
समावृणोन्मुहुरपि चैव सैनिकान्।
तमेकनागं गणशो यथा गजान् ।
समन्ततो द्रुतमथ मेनिरे जनाः ॥ ७.२६.६९ ॥
火的朋友风猛烈地吹起,扬起天空的尘土,一次又一次地覆盖士兵;人们以为那一头象正从四面八方飞快地冲来,仿佛是一群象。