摩诃婆罗多 · 章 7.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.27.1
यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि ।
तृच्छृणुष्व महाबाहो पार्थो यदकरोद्रणे ॥ ७.२७.१ ॥
大臂者啊,你问我关于般度之子(阿周那)在战斗中的功业;请听,阿周那在战场上所做的事。
7.27.2
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिःस्वनम् ।
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत् ॥ ७.२७.२ ॥
看见婆伽陀进攻时扬起的尘土,又听到象群的嘶鸣,贡蒂之子对黑天说道。
7.27.3
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन ।
त्वरमाणोऽभिनिष्क्रान्तो ध्रुवं तस्यैष निःस्वनः ॥ ७.२७.३ ॥
摩图苏陀那啊,仿佛是普拉格约提沙王急促地骑着大象冲出;这必定是他的声音。
7.27.4
इन्द्रादनवरः सङ्ख्ये गजयानविशारदः ।
प्रथमो गजघोधानां पृथिव्यामिति मे मतिः ॥ ७.२७.४ ॥
他在战斗中不逊于因陀罗,精通驾驭象车;依我看,他是大地上象兵中的第一人。
7.27.5
स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि ।
सर्वशस्त्रातिगः सङ्ख्ये कृतकर्मा जितक्लमः ॥ ७.२७.५ ॥
他是骑象者中的最优秀者,在战斗中从无象能与其匹敌;他精通一切兵器,在战斗中建立功业,并战胜了疲劳。
7.27.6
सहः सस्त्रनिपातानामग्निस्पर्शस्य चानघ ।
स पाण्डवबलं सर्वमद्यैको नाशयिष्यति ॥ ७.२७.६ ॥
无罪者啊,他能承受兵器的打击和火的灼烧;今天他独自一人就将毁灭般度族的全部军队。
7.27.7
सिंहनादं महत्कृत्वा धनुर्बाणरवैः सह ।
विद्राव्यमाणं सम्पश्य हतभूयिष्ठनायकम्।
दृष्ट्वा विनद्य सहसा मम सेनां प्रमृद्गति ॥ ७.२७.७ ॥
他发出巨大的狮吼,伴随弓弦与箭矢的声响;看到大部分首领已被杀、溃逃的军队,便咆哮前进,要立刻碾碎我的军队。
7.27.8
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् ।
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥ ७.२७.८ ॥
除你们二人之外,无人能够阻挡他。因此请火速前往普拉格佳迪沙之主所在之处。
7.27.9
दृप्तं सङ्ख्ये द्विपबलाद्वयसा चापि विस्मितम् ।
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥ ७.२७.९ ॥
此人因象军之力而在战阵中骄傲,年岁也令他惊愕;今日我要将他送去,作为杀伐鬼神波罗的爱客。
7.27.10
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः ।
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी ॥ ७.२७.१० ॥
于是,克里希纳依萨维亚萨钦(阿周那)之言前往,那里般度军正被跋伽达多冲破。
7.27.11
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः ।
संशप्तकाः समारोहन्सहस्राणि चतुर्दश ॥ ७.२७.११ ॥
他前进之时,从后方挑战,大车战士三摩沙卡(誓死者)一万四千人便冲杀上来。
7.27.12
दशैव तु सहस्राणि त्रिगर्तानां महारथाः ।
चत्वारि च सहस्राणि वासुदेवस्य चानुगाः ॥ ७.२७.१२ ॥
三伽多人的大车战士一万,以及婆苏提婆(克里希纳)的四千随从也来到那里。
7.27.13
दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन मानिष ।
आहूयमानस्य च तैरभवद्धृदयं द्विधा ॥ ७.२७.१३ ॥
见婆伽陀所部军队被摧溃,又被彼等呼唤,他的心一分为二。
7.27.14
किन्नु श्रेयस्करं कर्म भवेदद्येत्यचिन्तयत् ।
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥ ७.२७.१४ ॥
他思量道:“今日何种行动才是最善的?我该在此折返,还是前往坚战那里?”
7.27.15
तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह ।
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥ ७.२७.१५ ॥
俱卢之最!他如此以智慧审度之后,阿周那的决心更加坚定——他的心在诛杀三界誓战者(Saṃśaptaka)之事上变得坚定不移。
7.27.16
स सन्निवृत्तः सहसा कपिप्रवरकेतनः ।
एको रथसहस्राणि निहन्तुं वासवी रणे ॥ ७.२७.१६ ॥
旗帜上有猿中之王的他,突然回身——独自一人,要在战场上摧毁千辆战车:因陀罗之子(阿周那)。
7.27.17
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः ।
अर्जुनस्य वधोपाये या वै द्वैधमकल्पयत् ॥ ७.२७.१७ ॥
这一计谋既属难敌,也属迦尔纳——关于诛杀阿周那的方法,它在二人心中引起了犹豫。
7.27.18
स तु दोलायमानोऽबूद्द्वैधीभावेन पाण्डवः ।
वधेन तु नराग्र्याणामकरोत्तां मृषा तदा ॥ ७.२७.१८ ॥
般度之子被二心的状态所摇动,开始犹豫;然而那时,他却使杀戮人中俊杰的意图落空。
7.27.19
ततः शतसहस्राणि शराणां नतपर्वणाम् ।
असृजन्नर्जुने राजन्संशप्तकमहारथाः ॥ ७.२७.१९ ॥
王啊,于是三穿甲的大车战士们向阿周那射出了数十万支弯曲节杆的箭。
7.27.20
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः ।
न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ॥ ७.२७.२० ॥
王啊,不见昆提之子般度子,也不见杰纳尔达那黑天;马匹与战车也都被箭覆盖,不可辨认。
7.27.21
तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः ।
ततस्तान्प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान् ॥ ७.२७.२१ ॥
此时,被迷惑所笼罩的杰纳尔达那果然心神慌乱;随后般度子以梵天武器杀死了他们中的大多数。
7.27.22
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः ।
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ॥ ७.२७.२२ ॥
成百上千的手连同箭、弓弦、掌和弓一起被砍断;旗帜、马匹、御者与车战士纷纷倒在地上。
7.27.23
द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिताः ।
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥ ७.२७.२३ ॥
身形相同、如同被树木与云彩覆盖的山峰般的装饰精良的大象,骑手已被杀,被般度子的箭射中,倒在地上。
7.27.24
विप्रविद्धकुथा नागाश्छिन्नभाण्डाः परासवः ।
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम् ॥ ७.२७.२४ ॥
披饰撕裂、鞍具被割断的大象,失去生命,与骑手一同倒在战场上,被箭矢严重压碎。
7.27.25
सर्ष्टिप्रासासिनखराः समुद्गरपरश्वथाः ।
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥ ७.२७.२५ ॥
人的手臂连同矛、投枪、剑、爪形兵器、铁锤和战斧,被戴冠者的新月头箭斩断而坠落。
7.27.26
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष ।
संच्छिन्नान्यर्जुनशरैः शिरांस्युर्वी प्रपेदिरे ॥ ७.२७.२६ ॥
尊贵的主啊,那些如初升太阳、莲花和月亮般容颜的头颅,被阿周那的箭斩断,坠落于地。
7.27.27
जज्वालालङ्कृता सेना पत्रिभिः प्राणिभोजनैः ।
नानारूपैस्तदाऽमित्रान्क्रुद्धेनिघ्नति फल्गुने ॥ ७.२७.२७ ॥
那时,装饰着众多形状、以生灵为食之箭的军队燃烧起来;愤怒的法尔古那(阿周那)正在击杀敌人。
7.27.28
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव ।
धनञ्जयं भूतगणाः साधुसाध्वित्यपूजयन् ॥ ७.२७.२८ ॥
如象搅动莲池一般,搅乱军阵的达那阁耶(阿周那)受到众生之群的赞叹,他们高呼:“善哉,善哉!”
7.27.29
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः ।
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह ॥ ७.२७.२९ ॥
见到普利塔之子的这一功绩,如同因陀罗的功业,摩陀婆(黑天)极为惊叹,合掌对他说道。
7.27.30
कर्मैतत्पार्थ शक्रेण यमेन धनदेन च ।
दुष्करं समरे यत्ते कृतमद्येति मे मतिः ॥ ७.२७.३० ॥
普利塔之子啊,这一功绩在战斗中即使因陀罗、阎摩和俱毗罗也难以完成,依我之见,今日你已完成了它。
7.27.31
युगपच्चैव सङ्ग्रामे शतशोऽथ सहस्रशः ।
पतिता एव मे दृष्टाः संशप्तकमहारथाः ॥ ७.२७.३१ ॥
战场上,同时,成百上千地,我看见桑萨普塔卡的大车战士纷纷倒下。
7.27.32
संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः ।
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत् ॥ ७.२७.३२ ॥
随后,杀尽人数最多的桑萨普塔卡,阿周那催促克里希纳道:“向跋伽陀驶去。”