摩诃婆罗多 · 章 7.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.28.1
यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् ।
सम्प्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय सन्त्वरन् ॥ ७.२८.१ ॥
于是黑天欲前行,急速驱使阿周那那如意念般迅捷、饰以黄金的骏马,奔向德罗纳的军队。
7.28.2
तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् ।
सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ॥ ७.२८.२ ॥
渴望战斗的苏舍尔曼与众兄弟一道,跟随在那位去救援被德罗纳所困的己方人马的库鲁最优者身后。
7.28.3
ततः श्वेतहयः कृष्णमब्रवीदजितञ्जयः ।
एष मां भ्रातृभिः सार्धं सुशर्माऽऽह्वयतेऽच्युत ॥ ७.२८.३ ॥
于是白马之主、不可战胜的胜者阿周那对黑天说:"阿周多啊,这个苏舍尔曼与他的兄弟们正在向我挑战。"
7.28.4
दीर्यते चोत्तरेणैव तत्सैन्यं मधुसूदन ।
द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ॥ ७.२८.४ ॥
摩杜苏陀那啊,那支军队正在北方被撕裂。今日,三誓者使我的心一分为二。
7.28.5
किन्नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् ।
इति मे त्वं मतं वेत्सि तत्र किं सुकृतं भवेत् ॥ ७.२८.५ ॥
我应当杀死三誓者,还是保护被敌人困扰的自己人?你知道我的想法;在此,什么才是善行?
7.28.6
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् ।
येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ॥ ७.२८.६ ॥
被如此说后,达沙尔诃(黑天)调转战车,朝向特里迦尔塔之主向般度之子挑战的那条路而去。
7.28.7
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः ।
ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥ ७.२८.७ ॥
于是阿周那以七支疾箭射中苏尚尔曼,又用两支利刃箭斩断了他的旗帜和弓。
7.28.8
त्रिगर्ताधिपतेश्चापि भ्रातरं षङ्भिराशुगैः ।
साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ॥ ७.२८.८ ॥
三伽多国之主的兄弟,也被般度之子迅速以六支疾箭连同马匹和御者送往阎摩之境。
7.28.9
ततो भुजगसङ्काशां सुशर्मा शक्तिमायसीम् ।
चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ॥ ७.२८.९ ॥
于是苏尚尔曼向阿周那投出一支如蛇般的铁枪,又瞄准婆苏提婆投出一支长矛。
7.28.10
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः ।
सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तयत् ॥ ७.२८.१० ॥
阿周那以三支箭斩断铁枪,又以三支箭斩断长矛,以箭雨使苏尚尔曼昏迷,将他逼退。
7.28.11
तं वासवमिवायान्तं भूरिवर्षं शरौघिणम् ।
राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ॥ ७.२८.११ ॥
大王啊,他如因陀罗般而来,倾下大量箭雨,您军中竟无一人能够猛烈地阻挡他。
7.28.12
ततो धनञ्जयो बाणैः सर्वानेव महारथान् ।
आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ॥ ७.२८.१२ ॥
于是达南惹耶以箭击倒所有大车战士,向前推进,焚烧俱卢族,如烈火焚烧干草。
7.28.13
तस्य वेगमसह्यं तं कुन्तीपुत्रस्य धीमतः ।
नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ॥ ७.२८.१३ ॥
他们无法承受那位智慧的昆提之子难以抵挡的冲击,正如众生无法忍受火的灼烧。
7.28.14
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः ।
सुपर्ण इव नागेन्द्रं प्रायात्प्राग्ज्योतिषं प्रति ॥ ७.२८.१४ ॥
般度之子以箭雨包围军队,如金翅鸟扑向蛇王,向前行驶至 Prāgjyotiṣa。
7.28.15
यत्तदानामयज्जिष्णुर्भरतानामपापिनाम् ।
धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम् ॥ ७.२८.१५ ॥
胜利者阿周那拉开了那张弓,它为无罪的婆罗多人带来安宁,在战斗中使敌人流泪增多。
7.28.16
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः ।
कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ॥ ७.२८.१६ ॥
国王啊,因你那玩弄恶劣骰戏的儿子,阿周那为了毁灭刹帝利,拉开了那张弓。
7.28.17
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी ।
व्यशीर्यत महाराज नौरिवासाद्य पर्वतम् ॥ ७.२८.१७ ॥
大王啊,你的军队被普利塔之子如此冲击,便如船只撞上山岳一般四散崩裂。
7.28.18
ततो दशसहस्राणि न्यवर्तन्त धनुष्मताम् ।
मतिं कृत्वा रणे क्रूरां वीरा जयपराजये ॥ ७.२८.१८ ॥
于是一万名弓箭手转身回头,在战斗中下定残酷的决心,或胜或败,在所不惜。
7.28.19
व्यपेतहृदयत्रासा आवव्रुस्तं महारथाः ।
आर्च्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ॥ ७.२८.१९ ॥
心无惧怕的大战车武士们包围了他。在战场上,能承受一切重担的般度之子(阿周那)迎上了那沉重的负担。
7.28.20
यथा नलवनं क्रुद्धः प्रभिन्नः षष्टिहायनः ।
मृद्गीयात्तद्वदायस्तः पार्थोऽमृद्गाच्चमूं तव ॥ ७.२८.२० ॥
如同六十岁、暴怒发情的象踏平芦苇丛,努力作战的般度之子踏碎了你的军队。
7.28.21
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः ।
तेन नागेन सहसा धनञ्जयमुपाद्रवत् ॥ ७.२८.२१ ॥
当那支军队被摧毁后,国王婆伽达多骑着那头象突然冲向了财富征服者(阿周那)。
7.28.22
तं रथेन नरव्याघ्रः प्रत्यगृह्णाद्धनञ्जयः ।
स सन्निपातस्तुमुलो बभूव नरनागयोः ॥ ७.२८.२२ ॥
人中之虎财富征服者以战车迎战他。人与象的那场冲突变得异常激烈。
7.28.23
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च ।
सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ ॥ ७.२८.२३ ॥
两位英雄依照典籍布阵,一位乘战车,一位乘象,婆伽达多与财富征服者在战场上往来驰骋。
7.28.24
ततो जीमूतसङ्काशान्नागादिन्द्र इव प्रभुः ।
अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम् ॥ ७.२८.२४ ॥
于是,那头如乌云般的象上,如因陀罗一般的主君婆伽达多以箭雨倾注在财富征服者身上。
7.28.25
स चापि शरवर्षं तं शरवर्षेण वासिवः ।
अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ॥ ७.२८.२५ ॥
勇猛的婆薮(阿周那)也在箭雨及身之前,以自己的箭雨将婆伽陀的箭雨截断。
7.28.26
ततः प्राग्ज्योतिषो राजा शरवर्षे निवारिते ।
संरक्तनयनो रोषात्पार्थं पुनरवाकिरत् ॥ ७.२८.२६ ॥
于是,他的箭雨被挡下后,普腊格约迪沙王双眼因愤怒而通红,再次向般度之子倾泻箭雨。
7.28.27
स तथा शरवर्षेण पार्थं समभिहत्य वै ।
चोदयामास तं नागं वधायाच्युतपार्थयोः ॥ ७.२८.२७ ॥
他如此以箭雨击中般度之子后,便驱使那头象去杀死阿周图(黑天)和般度之子。
7.28.28
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् ।
चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ॥ ७.२८.२८ ॥
见那象如愤怒的死神般冲来,遮那陀那急忙将战车向左(apasavya)转去。
7.28.29
सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम् ।
सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः ॥ ७.२८.२९ ॥
那大象虽已逼近又转身退去,然而达那阁耶想起法度,不愿将它连同御者一起送入死亡。
7.28.30
स तु नागो द्विपरथान्हयांश्चामृद्य मारिष ।
प्राहिणोन्मृत्युलोकाय ततः क्रुद्धो धनञ्जयः ॥ ७.२८.३० ॥
然而那大象踩碎了战车与马匹,哦尊者,把它们送往死亡之界;于是达那阁耶愤怒起来。