Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.29.1

तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः ।
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ॥ ७.२९.१ ॥

愤怒的般度之子对婆伽陀多做了什么?或者阿周那对普拉格约提沙做了什么?请如实告诉我。

7.29.2

प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ ।
मृत्युदंष्ट्रान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ॥ ७.२९.२ ॥

与普拉格约提沙之王交战的达莎尔哈与般度之子二人,已近死亡之齿,一切众生都这样认为。

7.29.3

तथा तु शरवर्षाणि पातयत्यनिशं प्रभो ।
गजस्कन्धान्महाराज कृष्णयोः स्यन्दनस्थयोः ॥ ७.२९.३ ॥

如此,他不停地降下箭雨,主上。大王,他从象背上,向站在战车上的两位黑天射去。

7.29.4

अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः ।
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ॥ ७.२९.४ ॥

然后,他以铁制的箭,从full拉的弓上射出,金羽,经磨石磨利,射穿了提婆伽之子。

7.29.5

अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः ।
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः सुवाससः ॥ ७.२९.५ ॥

在婆伽陀多驱使下,如火灼般锋利的箭射穿了提婆伽之子,羽翼完好地没入大地。

7.29.6

तस्य पार्थो धनुश्छित्त्वा परिवारं निहत्य च ।
लालयन्निव राजानं भगदत्तमयोधयत् ॥ ७.२९.६ ॥

阿周那斩断他的弓,杀死他的随从,仿佛在逗弄一般,与国王婆伽陀多作战。

7.29.7

सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश ।
अप्रेषयत्सव्यसाची द्विधैकैकमथाच्छिनत् ॥ ७.२९.७ ॥

他射出十四支如日光般锐利的投枪,并将每一支都斩成两段。

7.29.8

ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः ।
शरजालेन महता तद्व्यशीर्यत भूतले ॥ ७.२९.८ ॥

于是帝释之子以巨大的箭网击碎了那头象的甲胄,甲胄散落于地。

7.29.9

शीर्णवर्मा स तु गजः शरैः सुभृशमर्दितः ।
बभौ धारानिपाताक्तो व्यभ्रः पर्वतराडिव ॥ ७.२९.९ ॥

那头甲胄破碎、被箭矢重创的象,如同被暴雨淋湿、无云的山中之王,熠熠生辉。

7.29.10

ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् ।
व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् ॥ ७.२९.१० ॥

于是普拉格约提沙王向筏素提婆投出一支金柄铁矛,阿周那将其一分为二。

7.29.11

ततश्छत्रं ध्वजं चैव च्छित्त्वा राज्ञोऽर्जुनः शरैः ।
विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वतेश्वरम् ॥ ७.२९.११ ॥

随后,阿周那以箭斩断了国王的伞盖与旗幡,并微笑着迅速以十支箭射中了这位山王。

7.29.12

सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः ।
भगदत्तस्ततः क्रुद्धः पाण्डवस्य जनाधिपः ॥ ७.२९.१२ ॥

被阿周那那羽毛精美、以鹤羽为翎的箭重重射中,人主婆伽陀那便对般度之子怒火中烧。

7.29.13

व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्नाद च ।
तैरर्जुनस्य समरे किरीटं परिवर्तितम् ॥ ७.२९.१३ ॥

他怒吼着向白马的阿周那的头上投掷长矛,阿周那的王冠因此在战斗中被扭转。

7.29.14

परिवृत्तं किरीटं तद्यमयन्नेव पाण्डवः ।
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् ॥ ७.२९.१४ ॥

他扶正那歪斜的王冠,对国王说:"让世人看清楚,就这样办吧。"

7.29.15

एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम् ।
अभ्यवर्षत्स गोविन्दं धनुरादाय भास्वरम् ॥ ७.२९.१५ ॥

他被这样一说,大为愤怒,向般度之子倾泻箭雨;又拿起明亮的弓,也向戈文达倾泻。

7.29.16

तस्य पार्थो धनुश्छित्त्वा तूणीरान्सन्निकृत्य च ।
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् ॥ ७.२९.१६ ॥

他斩断了对方的弓,又削断箭袋,普利塔之子迅速以七十二支箭射中他的所有要害。

7.29.17

विद्धस्ततोऽतिव्यथितो वैष्णवास्त्रमुदीरयन् ।
अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ॥ ७.२९.१७ ॥

于是,他身受重伤、极为痛苦,呼唤毗湿奴之箭,愤怒地以咒语加持象钩,朝般度之子的胸膛掷去。

7.29.18

विसृष्टं भगदत्तेन तदस्त्रं सर्वघाति वै ।
उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः ॥ ७.२९.१८ ॥

巴伽达塔所掷的那毁灭一切的武器,毛发殊胜者以胸膛承受,同时护住了般度之子。

7.29.19

वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि ।
पद्मकोशविचित्रा सा सर्वर्तुकुसुमोत्करा ॥ ७.२९.१९ ॥

那件武器在克沙瓦的胸前化作一串胜利花环,如莲花苞般斑斓,满缀四季之花。

7.29.20

ज्वलनार्केन्दुवर्णाभा पावकोज्ज्वलपल्लवा ।
तया पद्मपलाशिन्या वातकम्पितपत्रया ॥ ७.२९.२० ॥

那花环闪耀着火、日、月的光彩,嫩芽明亮如火,莲瓣般的叶子在风中颤动。

7.29.21

शुशुभेऽभ्यधिकं शौरिरतसीपुष्पसन्निभः ।
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ॥ ७.२९.२१ ॥

舍利(毗湿奴)光彩非凡,宛如亚麻花。于是心神疲惫的阿周那对克沙瓦说道。

7.29.22

अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन ।
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ॥ ७.२९.२२ ॥

你曾说:"哦,阇那陀那,我不会参战,只做马的御者。"哦,莲花眼者,你并未守住自己的誓言。

7.29.23

यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे ।
ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते ॥ ७.२९.२३ ॥

若我遭遇灾难或无力抵挡,那么你可以如此行事;但我仍站立之时,这并非你的职责。

7.29.24

सबाणः सधनुश्चाहं ससुहासुरमानुषान् ।
शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ॥ ७.२९.२४ ॥

我持箭执弓,能够征服这些世界,包括天神、阿修罗与人类;这点你也知道。

7.29.25

ततोऽर्जुनं वासुदेवः प्रत्युवाचार्यवद्वचः ।
शृणु गुह्यमिदं पार्थ पुरावृत्तं यथाऽनघ ॥ ७.२९.२५ ॥

于是婆苏提婆以高尚的言语回答阿周那:「无罪的普利塔之子啊,请听这古老的秘密传说。」

7.29.26

येयं भूतधरा देवी सर्वभूतधरा धरा ।
सकामा लोककर्तारं नारायणमुपस्थिता ॥ ७.२९.२६ ॥

这位承载众生、支撑一切众生的女神大地,怀着渴望来到了创造世界的那罗延面前。

7.29.27

स सङ्गत्य तया सार्धं प्रीतस्तस्या वरं ददौ ।
सा वव्रे विष्णुसदृशं पुत्रमस्त्रं च वैष्णवम् ॥ ७.२९.२७ ॥

与她结合后,他心生欢喜,便赐予她一个恩赐。她选择了一个如毗湿奴般的儿子,以及毗湿奴的神兵。

7.29.28

बभूव च सुतस्तस्या नरको नाम विश्रुतः ।
अस्त्रं च वैष्णवं तस्मै ददौ नारायणः स्वयम् ॥ ७.२९.२८ ॥

她生下一子,名为那罗迦,声名远扬。那罗延亲自把毗湿奴的神兵赐给了他。

7.29.29

तदेवं नरकस्यासीदस्त्रं सर्वाहितान्तकम् ।
तस्मात्प्राग्ज्योतिषं प्राप्तं सर्वशस्त्रविघातनम् ॥ ७.२९.२९ ॥

因此那罗迦拥有能灭尽一切敌人的神兵,于是它来到了能挫败一切兵器的普拉格约提沙。

7.29.30

नास्यावध्योऽस्ति लोकेऽस्मिन्मदन्यः कश्चिदर्जुन ।
तस्मान्मया कृतं ह्येतन्मा भूत्ते बुद्धिरन्यथा ॥ ७.२९.३० ॥

在这世上,除我以外没有人能杀死他,阿周那。因此这是我亲自所为;愿你的心不要另作他想。

7.29.31

अनुनीय तु दाशार्हः पाण्डवं त्वरितोऽब्रवीत् ।
जहि प्राग्ज्योतिषं क्षिप्रं वाक्यशेषं च मे शृणु ॥ ७.२९.३१ ॥

达沙尔哈恳请般度之子后,急忙说道:“速杀普拉格约提沙;且听我余下的话。”

7.29.32

चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः ।
आत्मानं प्रविभज्येह लोकानां हितमादधे ॥ ७.२९.३२ ॥

我常为护持世界而奋发。分身为四种形相,我在此承担起世界的福祉。

7.29.33

एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता ।
अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ॥ ७.२९.३३ ॥

一身居于大地,修我之苦行;另一身观看世间行善与作恶。

7.29.34

अपरा कुरुते कर्म मानुषं लोकमाश्रिता ।
शेते चतुर्थीं त्वपरा निद्रां वर्षसहस्रिकीम् ॥ ७.२९.३४ ॥

另一身居于人间行事;第四身则沉睡千年。

7.29.35

याऽसौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम ।
वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ॥ ७.२९.३५ ॥

千年之末,我那一身便会起身;彼时它将最上的恩赐赐予配得恩赐的人。

7.29.36

तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा ।
अयाचत वरं यन्मां नरकार्थाय तच्छृणु ॥ ७.२९.३६ ॥

大地知道时机已至,便向我求一恩赐——听那为了那罗迦所求之事。

7.29.37

देवानां दानवानां च अवध्यस्तनयोऽस्तु मे ।
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ॥ ७.२९.३७ ॥

愿我的儿子不被天神与檀那婆所杀,并具备毗湿奴神箭;你应当将此恩赐赐予我。

7.29.38

एवं वरमहं श्रुत्वा जगत्यास्तनये तदा ।
अमोघमस्त्रं प्रायच्छं वैष्णवं परमं पुरा ॥ ७.२९.३८ ॥

我听闻为大地之子所求的这一恩赐后,便将那不失效的至上毗湿奴神箭赐予了他。

7.29.39

अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे ।
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ॥ ७.२९.३९ ॥

我说:'啊,忍耐者,愿此箭不失效;为保护那罗迦,无人能杀他。'

7.29.40

अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः ।
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ॥ ७.२९.४० ॥

你的儿子受此神箭护佑,将成为摧毁敌军的勇士,在一切世界中永远不可战胜。

7.29.41

तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी ।
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ॥ ७.२९.४१ ॥

她说'就这样吧',心愿已满的高尚女神便离去了;那罗迦也成为无敌的、灼烧敌人的人。

7.29.42

तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् ।
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ॥ ७.२९.४२ ॥

因此,普利塔之子啊,我的那件神箭已抵达普拉格约提沙;所以在一切世界中,包括因陀罗与楼陀罗在内,无人能杀死他,尊者啊。

7.29.43

तन्मया त्वत्कृते चैतदन्यथैवोपनिर्मितम् ।
वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् ॥ ७.२९.४३ ॥

为了你,我原本另作安排。帕尔塔啊,借至高神兵之力射出,去杀死那大阿修罗吧。

7.29.44

अवध्योऽयं महास्त्रेण भगदत्तः सुरासुरैः ।
वैरिणं जहि दुर्धर्षं भगदत्तं सुरद्विषम्।
यथाऽहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ॥ ७.२९.४४ ॥

此婆伽达即使以大神兵,或天神与阿修罗,也无法杀死。去杀死那敌人,不可战胜、憎恶天神的婆伽达,正如我昔日为了世界的福祉杀死那罗迦。

7.29.45

एवमुक्तस्तदा पार्थः केशवेन महात्मना ।
भगदत्तं शितैर्बाणैः सहसा समवाकिरत् ॥ ७.२९.४५ ॥

伟大的克舍瓦如此说后,帕尔塔立即以利箭覆盖了婆伽达。

7.29.46

ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः ।
कुम्भयोरन्तरे नागं नाराचेन समार्पयत् ॥ ७.२९.४६ ॥

于是臂力强大、从容不迫、心胸宽广的帕尔塔,以那罗车箭射穿了大象两颊之间。

7.29.47

स समासाद्य तं नागं बाणो वज्र इवाचलम् ।
अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ॥ ७.२९.४७ ॥

那箭抵达大象,如闪电入山,如毒蛇入蚁穴,连箭杆一起没入其中。

7.29.48

स करी भगदत्तेन प्रेर्यमाणो मुहुर्मुहुः ।
न करोति वचस्तस्य दरिद्रस्येव योषिता ॥ ७.२९.४८ ॥

婆伽达一再驱策,那象却不听他的命令,正如穷人的妻子不听丈夫的话。

7.29.49

स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ ।
नदन्नार्तस्वनं प्राणानुत्ससर्ज महाद्विपः ॥ ७.२९.४९ ॥

他撑住四肢,以獠牙俯身倒向大地;发出痛苦的嘶鸣,这头巨象便断了生气。

7.29.50

ततो गाण्डीवधन्वानमभ्यभाषत केशवः ।
अयं महत्तरः पार्थ पलितेन समावृतः ॥ ७.२९.५० ॥

于是克舍婆对持甘狄拔弓的阿周那说:“般度之子啊,此人是被白发覆盖的年迈老人。”

7.29.51

वलीसञ्छन्ननयनः शूरः परमद्रुर्जयः ।
अक्ष्णोरुन्मीलनार्थाय बद्धपट्टो ह्यसौ नृपः ॥ ७.२९.५१ ॥

这位英雄,眼睛被皱纹遮蔽,极难战胜;这位国王系上了一条带子,以便睁开眼皮。

7.29.52

देववाक्यात्प्रचिच्छेद शरेण भृशमर्जुनः ।
छिन्नमात्रेंऽशुके तस्मिन्रुद्धनेत्रो बभूव सः ॥ ७.२९.५२ ॥

依神的话,阿周那以箭猛然射断了那条带子;布一断,那位国王的双眼便被遮住了。

7.29.53

तमोमयं जगन्मेने भगदत्तः प्रतापवान् ।
ततश्चन्द्रार्धबिम्बेन बाणेन नतपर्वणा ॥ ७.२९.५३ ॥

威武的婆伽达多以为世界充满了黑暗;于是阿周那以半月形箭头、弯曲关节的箭——

7.29.54

बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः ।
स भिन्नहृदयो राजा भगदत्तः किरीटिना ॥ ७.२९.५४ ॥

般度之子刺穿了国王婆伽达多的心;那位心被戴冠者(阿周那)射穿的国王婆伽达多——

7.29.55

शरासनं शरांश्चैव गतासुः प्रमुमोच ह ।
शिरसस्तस्य विभ्रष्टं पपात च वरांशुकम्।
नालताडनविभ्रष्टं पलाशं नलिनादिव ॥ ७.२९.५५ ॥

他已死去,松开了弓和箭。他头上的华美衣服坠落,如同莲花被茎杆击打而落下的palāśa花。

7.29.56

स हेममाली तपनीयभाण्डात्पपात नागाद्गिरिसन्निकाशात् ।
सुपुष्पितो मारुतवेगभग्नो महीधराग्रादिव कर्णिकारः ॥ ७.२९.५६ ॥

他戴着金色花环,从如同披着金饰的山岳般的大象上坠落,如同盛开的karṇikāra树被风力折断,从山巅坠落。

7.29.57

निहत्य तं नरपतिमिन्द्रविक्रमं सस्वायमिन्द्रस्य तदैन्द्रिराहवे ।
ततोऽपरांस्तव जयकाङ्क्षिणो नरान् बभञ्ज वायुर्बलवान्द्रुमानिव ॥ ७.२९.५७ ॥

因陀罗之子(阿周那)在战斗中连同他的部下杀死了那位勇如因陀罗的人主,随后又折断了其他渴望你方胜利的人,如同强劲的风折断树木。