Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.3.1

शरतल्पे महात्मानं शयानममितौजसम्। ॥ ७.३.१ ॥

看见那位大德、力量无量、躺在箭床上的人。

7.3.2

दृष्ट्वा पितामहं भीष्मं सर्वक्षत्रान्तकं गुरुम् ।
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना।
जयाशा तव पुत्राणां संभग्ना शर्म वर्म च ॥ ७.३.२ ॥

看见祖父毗湿摩——灭尽一切刹帝利的导师与大弓手——被左手持弓的阿周那以神箭射倒,你儿子们的胜利希望、他们的庇护与甲胄都已粉碎。

7.3.3

महावातसमूहेन समुद्रमिव शोषितम् ।
अपाराणामिव द्वीपमगाधे गाधमिच्छताम्।
स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ॥ ७.३.३ ॥

如同被狂风吹干的大海,如同无法渡过者寻找浅滩于深水之中的岛屿,如同被亚穆纳河水流卷走,被箭矢洪流淹没的人。

7.3.4

महान्तमिव मैनाकमहार्यं भुवि पातितम् ।
नभश्च्युतमिवादित्यं शक्रस्येवामृतं हृतम् ॥ ७.३.४ ॥

如同伟大而不可动摇的迈那伽山倒在大地上,如同太阳从天空坠落,如同因陀罗的甘露被夺走。

7.3.5

शतक्रतुभिवाचिन्त्यं पुरा वृत्रेणा निर्जितम् ।
मोहनं सर्वसैन्यस्य युधि भीष्मं निपातितम् ॥ ७.३.५ ॥

昔日连帝释(因陀罗)也难以料想、连弗栗多也未能战胜、令全军迷惑的毗湿摩,在战场上被击倒。

7.3.6

ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् ।
धनंजयशरैर्व्याप्तं पितरं ते महाव्रतम्। ॥ ७.३.६ ॥

诸军之冠、诸弓手之标志,你的父亲——大誓者,被持财者(阿周那)的箭矢贯穿。

7.3.7

तं वीरशयने वीरं शयानं पुरुषर्षभम् ।
भीष्ममाधिरथिर्दृष्ट्वा भरतानां पितामहम् ॥ ७.३.७ ॥

阿提罗陀之子(迦尔纳)看见那位躺在英雄床上的英雄、人中之牛、婆罗多族的祖父毗湿摩。

7.3.8

प्रस्कन्द्य स रथात्तूर्णं शोकमोहपरिप्लुतः ।
पद्भ्यामेव जगामार्तो बाष्पव्याकुललोचनः
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ॥ ७.३.८ ॥

他被悲伤和迷惘所笼罩,迅速从战车上跳下,满眼含泪,悲痛地步行前去。他行礼、合掌,恭敬地致礼后开口说话。

7.3.9

कर्णोऽहमस्मि भद्रं ते वद मामभि भारत ।
पुण्यया क्षेमया वाचा चक्षुषा चावलोकय ॥ ७.३.९ ॥

我是迦尔纳。愿你吉祥。婆罗多啊,请以纯净而慈善的言语对我说话,并以目光看着我。

7.3.10

न नूनं सुकृतस्येह फलं कश्चित्समश्नुते ।
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ॥ ७.३.१० ॥

在此世上,确实无人享受善行之果,而你这位奉行法的老人却躺在这大地上。

7.3.11

कोशसञ्चयने मन्त्रे व्यूहे प्रहरणेषु च ।
नाहमन्यं प्रपश्यामि कुरूणां कुरुपुङ्गव ॥ ७.३.११ ॥

在聚集财宝、谋略、阵列和兵器方面,库鲁族中的牛啊,我在库鲁族中除你之外,别无他人。

7.3.12

बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् ।
योधांस्त्वमप्लुवे हित्वा पितुलोकं गमिष्यसि ॥ ७.३.१२ ॥

你以清净的智慧,本可以引领库鲁族脱离恐惧;如今你将在没有船的水中抛下战士,前往祖先的世界。

7.3.13

अद्यप्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम् ।
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ॥ ७.३.१३ ॥

婆罗多族中最优秀者啊,从今日起,愤怒的般度之子将毁灭俱卢族,如老虎毁灭鹿群。

7.3.14

अद्य गाण्डीवधोपेण वीर्यज्ञाः सव्यसाचिनः ।
कुरवः सन्त्रसिष्यन्ति वज्रघोषादिवासुराः ॥ ७.३.१४ ॥

今日,知其威力的萨维耶萨钦(阿周那)以甘狄拔弓的弦响,将使俱卢族惊恐,如阿修罗被霹雳之声震慑。

7.3.15

अद्य गाण्डीवमुक्तानामशनीनामिव …ः ।
त्रासयिष्यति बाणानां कुरूनन्यांश्च पथि… ॥ ७.३.१५ ॥

今日从甘狄拔弓射出的箭矢如雷电……将在路上惊吓俱卢族及其他人……

7.3.16

समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्द…त् ।
धार्तराष्ट्राः इधक्ष्यन्ति तथा बाणाः किरीटि… ॥ ७.३.१६ ॥

英雄啊,如燃起大火的烈焰焚烧树木……,同样,俱卢之箭将焚烧持国之子……

7.3.17

येन येन प्रसरतो वाय्वग्नी सहितौ वने ।
तेन तेन प्रदहतो भूरिगुल्मतृणद्रुमान् ॥ ७.३.१७ ॥

风与火在林中一同蔓延,所到之处便焚烧众多灌木、草丛和树木。

7.3.18

यादृशोऽग्निः समुद्भूतस्तादृक्पार्थो न संशयः ।
यथा वायुर्नरव्याघ्र तथा कृष्णो संशयः ॥ ७.३.१८ ॥

所燃起的火如何,阿周那便如何,无疑。人中之虎啊,如风如何,克里希那便如何,无疑。

7.3.19

…दतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च ।
श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत। ॥ ७.३.१९ ॥

…听到般遮耶那螺号与甘提拔弓的吼声,婆罗多啊,所有军队都将陷入恐惧。

7.3.20

कपिध्वजस्योत्पततो रथस्यामित्रकर्शिनः ।
शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ॥ ७.३.२० ॥

猴旗战车腾跃而起、摧毁敌人的轰鸣,除你之外,国王们都无法承受,英雄啊。

7.3.21

को ह्यर्जुनं योधयितुं त्वदन्यः पार्थिवोऽर्हति ।
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः। ॥ ७.३.२१ ॥

除你之外,哪位国王能与阿周那作战?智者们宣说他那神圣的功业。

7.3.22

अमानुषैश्च संग्रामं त्र्यम्बकेण महात्मना ।
तस्माच्चैव वरं प्राप्तो दुष्प्रापश्चाकृतात्मभिः ॥ ७.३.२२ ॥

他与非人之众以及伟大的三眼神作战,因此获得了不自律者难以获得的恩赐。

7.3.23

कोऽन्यः शक्तो रणे जेतुं पूर्वं यो न जितस्त्वया ।
जितो येन रणे रामो भवता वीर्यशालिना। ॥ ७.३.२३ ॥

还有谁能在战场上获胜,而你此前未曾战胜过他?勇力之人啊,是你在战场上战胜了罗摩。

7.3.24

क्षत्रियान्तकरो घोरो देवदानवदर्पहा ।
सोप्यद्याभिहतः शेते शरैः प्रोतः शिखण्डिना ॥ ७.३.२४ ॥

他,这位毁灭刹帝利、摧破诸神与阿修罗傲慢的可怕者,如今也被击倒,被尸犁的箭矢穿透而躺卧。

7.3.25

तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवता चानुशिष्टः ।
आशीविषं हष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलान्निहन्तुम् ॥ ७.३.२५ ॥

今日我无法忍受,在您的教导下,将以兵器之力杀死那位善战的般遮武士,他如毒蛇一般,目光亦能致人于死,是可怖的英雄。