Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.30.1

प्रियमिन्द्रस्य सततं सखायममितौजसम् ।
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ॥ ७.३०.१ ॥

普拉格乔提沙城中,他杀死了因陀罗亲爱的常伴挚友、力量无量的(薄伽达多),般度之子向右转身。

7.30.2

ततो गान्धारराजस्य सुतौ परपुरञ्जयौ ।
अर्देतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ ॥ ७.३०.२ ॥

于是,犍陀罗王的两个子嗣——征服敌城的兄弟跋利沙迦与阿恰拉——在战斗中攻击阿周那。

7.30.3

तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्वितौ ।
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ॥ ७.३०.३ ॥

两位英勇的弓箭手,从前后逼近阿周那,以迅疾锋利的箭矢猛烈地射穿了他。

7.30.4

वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् ।
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ॥ ७.३०.४ ॥

般度之子以利箭将跋利沙迦的马匹、御者、弓、华盖、战车与旗幡全部击碎成芝麻粒般细小的碎片。

7.30.5

ततोऽर्जुनः शरव्रातैर्जानाप्रहरणैरपि ।
गान्धारानाकुलांश्चक्रे सौबलप्रमुखान्पुनः ॥ ७.३०.५ ॥

于是阿周那以箭雨和及膝的兵器,再次使以苏跋罗之子为首的犍陀罗人陷入混乱。

7.30.6

ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् ।
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः ॥ ७.३०.६ ॥

于是愤怒的财胜以箭将五百名举起兵器的犍陀罗勇士送往死亡之界。

7.30.7

हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः ।
आरुरोह रथं भ्रातुरन्यश्च धनुराददे ॥ ७.३०.७ ॥

马匹被杀后,这位大臂者迅速从战车上下来,登上了兄弟的战车;另一人则拿起了弓。

7.30.8

तावेकरथमारूढौ भ्रातरौ वृषकाचलौ ।
शरवर्षेण बीभत्सुमविध्येतां मुहुर्मुहुः ॥ ७.३०.८ ॥

兄弟二人同乘一辆战车,维舍迦与阿遮罗以密集的箭雨一次又一次射中了可畏的阿周那。

7.30.9

स्यालौ तव महात्मानौ राजानौ वृषकाचलौ ।
भृशं विजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ॥ ७.३०.९ ॥

你的两位妻弟——大德之王维舍迦与阿遮罗——猛烈地攻击了普利塔之子,正如弗栗多与波罗攻击因陀罗一般。

7.30.10

लब्धलक्षौ तु गान्धारावहतां पाण्डवं पुनः ।
नैदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा ॥ ७.३०.१० ॥

两位犍陀罗王找准目标,再次打击般度之子,犹如夏季与雨季以日光炙烤世界。

7.30.11

तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ ।
संश्चिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणाऽर्जुनः ॥ ७.३०.११ ॥

大王啊,那两位人中虎——国王维舍迦与阿遮罗,并肩站在战车上,被阿周那一箭射倒。

7.30.12

तौ रथात्सिंहसंकाशौ लोहिताक्षौ महाभुजौ ।
राजन्सम्पेततुर्वीरौ सोदर्यावेकलक्षणौ ॥ ७.३०.१२ ॥

大王啊,那两位英雄,如狮子般,红眼睛,大臂,同胞兄弟,相貌相同,从战车上跌落下来。

7.30.13

तयोर्भूमिं गतौ देहौ रथाद्बन्धुजनप्रियौ ।
यशो दशः दिशः पुण्यं गमयित्वा व्यवस्थितौ ॥ ७.३०.१३ ॥

二人的身体从战车坠落于地,为亲族所爱,使名声、方位与功德得以成就,静静地留在那里。

7.30.14

दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ ।
भृशं मुमुचुरश्रूणि पुत्रास्तव विशांपते ॥ ७.३०.१४ ॥

见两位舅舅阵亡于战场,他们不曾逃走,你的儿子们,人主啊,痛哭流涕。

7.30.15

निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः ।
कृष्णौ सम्मोहन्मायां विदधे शकुनिस्ततः ॥ ७.३०.१५ ॥

见兄弟被杀,精通百种幻术的沙恭尼于是施展幻术,要迷惑两位黑天。

7.30.16

लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः ।
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टसाः ॥ ७.३०.१६ ॥

木棍、铁球、石块、百杀器、长矛、铁锤、铁棒、长剑、三叉戟、大锤与刀矛。

7.30.17

सकम्पनर्ष्टिनखरा मुसलानि परश्वथाः ।
क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः ॥ ७.३०.१७ ॥

坎帕那、利什提与爪刃;杵与斧;剃刀、新月箭、管状箭、犊牙箭以及骨节连接的兵器。

7.30.18

चक्राणि विशिखाः प्रासा विविधान्यायुधानि च ।
प्रपेतुः शतशो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ॥ ७.३०.१८ ॥

飞轮、箭矢、长矛及各种兵器,成百上千地从四方与隅角向阿周那飞来。

7.30.19

खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचित्रकाः ।
ऋक्षाः सालावृका गृध्राः कपयश्च सरीसृपाः ॥ ७.३०.१९ ॥

驴、骆驼和水牛,狮子、老虎,犀摩罗鹿和花鹿,熊,豺狼,秃鹫,猴子和爬行动物。

7.30.20

विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति ।
सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च ॥ ७.३०.२० ॥

各种饥饿的罗刹和各种愤怒的飞禽都向阿周那扑来。

7.30.21

ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः ।
विसृजन्निषुजालानि सहसा तान्यताडयत् ॥ ७.३०.२१ ॥

于是精通神兵的英勇的贡蒂之子阿周那放出箭网,霎时把它们全部射中。

7.30.22

ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः ।
विरुवन्तो महारावान्विनेशुः सर्वतो हताः ॥ ७.३०.२२ ॥

他们被英雄那精良坚韧的箭射中,发出巨大的吼叫,从四面八方倒下死去。

7.30.23

ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति ।
तस्माच्च तमसो वचाः क्रूराः पार्थमभर्त्सयन् ॥ ७.३०.२३ ॥

于是一片黑暗向阿周那的战车涌来,从黑暗中传出残酷的声音恐吓般特。

7.30.24

तत्तमो भैरवं घोरं भयकर्तृ महाहवे ।
उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत् ॥ ७.३०.२४ ॥

在那场可怖、恐怖的大战中,阿周那以至上而强大的光明神兵(Jyautiṣa)摧毁了那令人恐惧的黑暗。

7.30.25

हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः ।
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः।
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ॥ ७.३०.२५ ॥

彼被杀后,出现了可怖的水流。阿周那为消除这水,施放了日神之箭,水大多被这箭烤干了。

7.30.26

एवं बहुविधा मायाः सौबलस्य कृताः कृताः ।
जघानास्त्रबलेनाशु प्रहसन्नर्जुनोऽब्रवीत् ॥ ७.३०.२६ ॥

如此,沙古尼所造的种种幻术一再被造出;阿周那以武器之力迅速将其击破,笑着说道。

7.30.27

दुर्द्यूतदेविन्गान्धारे नाक्षान्क्षिपति गाण्डिवम् ।
ज्वलितान्निशितांस्तीक्ष्णाञ्शरान्क्षिपतिगाण्डिवं ॥ ७.३०.२७ ॥

甘陀罗之王啊,你这恶赌之徒!甘狄拔弓不掷骰子;甘狄拔弓射出炽燃、锐利、尖锐的箭。

7.30.28

तदा हतासु मायासु त्रस्तोऽर्जुनशराहतः ।
अपायाञ्जवनैरश्वैः शकुनिः प्राकृतो यथा ॥ ७.३०.२८ ॥

当幻术被破除后,沙古尼被阿周那的箭射中而惊恐,骑着快马逃走,如同普通人一般。

7.30.29

ततोऽर्जुनोऽस्त्रविच्छैघ्र्यं दर्शयन्नात्मनोऽरिषु ।
अभ्यवर्षच्छरौधेण कौरवाणामनीकिनीम् ॥ ७.३०.२९ ॥

于是精通武器的阿周那,在敌人之中显示自己的迅捷,以箭雨倾泻在俱卢军队之上。

7.30.30

सा हन्यमाना पार्थेन तव पुत्रस्य वाहिनी ।
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ॥ ७.३०.३० ॥

大王啊,您儿子的那支军队被普利塔之子击杀,分成两股,如同恒河遇到山岭而分流。

7.30.31

द्रोणमेवान्वपद्यन्त केचित्तत्र नरर्षभाः ।
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ॥ ७.३०.३१ ॥

有些人中之牛奔向德罗纳,大王啊,另有一些被冠者(阿周那)逼迫,便奔向难敌。

7.30.32

नापश्याम ततस्त्वेनं सैन्ये वै रजसावृते ।
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ॥ ७.३०.३२ ॥

那时在尘土笼罩的军中我们没有看见他;但我从右边听见了甘狄拔弓的轰鸣。

7.30.33

शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निःस्वनम् ।
गाण्डीवस्य तु निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ॥ ७.३०.३३ ॥

螺号与鼓的轰鸣,以及各种乐器的声响;然而甘狄拔弓的轰鸣越过这一切,触及了天空。

7.30.34

ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम् ।
सुयुद्धं चार्जुनस्यासीदहं द्रोणमन्वियाम् ॥ ७.३०.३४ ॥

接着在右边又有奇异勇士的战斗,阿周那也进行了激烈的战斗;我便奔向德罗纳。

7.30.35

यौधिष्ठिराभ्यनीकानि प्रहरन्ति ततस्ततः ।
नानाविधान्यनीकानि पुत्राणां तव भारत।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ ७.३०.३५ ॥

坚战的军队四处攻击;婆罗多啊,阿周那适时地驱散了你诸子的各种军队,正如风吹散天空中的云。

7.30.36

तं वासवमिवायान्तं भूरिवर्षं शरौघिणम् ।
महेष्वासा नरव्याघ्रा नोग्रं केचिदवारयन् ॥ ७.३०.३६ ॥

他如因陀罗般来临,倾泻如雨的箭流,某些大弓手、人中之虎,也无法以其猛烈之势将他阻挡。

7.30.37

ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् ।
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ॥ ७.३०.३७ ॥

你的部众被般度之子所击,极度惊惶,四处奔逃,许多人竟打死了自己人。

7.30.38

तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः ।
शलभा इव सम्पेतुः संवृण्वाना दिशो दश ॥ ७.३०.३८ ॥

阿周那所发的那些饰以鹭羽、穿透身躯的箭,如蝗虫般纷纷落下,遮蔽了十方。

7.30.39

तुरगं रथिनं नागं पदातिमपि मारिष ।
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ॥ ७.३०.३९ ॥

尊者啊,这些箭穿透马、车士、象和步卒,便如蛇钻入蚁冢一般钻入大地。

7.30.40

न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः ।
पृथगेकशरारुग्णा निपेतुस्ते गतासवः ॥ ७.३०.४० ॥

他对象、马、人不再发第二支箭;每人只中一箭,便无声息地倒地而亡。

7.30.41

हतैर्मनुष्यौर्द्विरदैश्च सर्वतः ।
शराभिसृष्टैश्च हयैर्निपातितैः।
तदाऽश्वगोमायुबलाभिनादितं ।
विचित्रमायोधशिरो बभूव तत् ॥ ७.३०.४१ ॥

人与象被杀于四面,马被箭射倒,那时战阵中充满马、豺狼与秃鹫的嘶鸣悲号,显得异常可怖。

7.30.42

पिता सुतं त्यजति सुहृद्वरं सुहृत् ।
तथैव पुत्रः पितरं शरातुरः।
स्वरक्षणे कृतमतयस्तदा जना ।
सत्यजन्ति वाहानपि पार्थपीडिताः ॥ ७.३०.४२ ॥

父亲舍弃儿子,至交舍弃朋友;同样,被箭所伤的儿子也舍弃父亲。人们为求自保,受般度之子所迫,竟连坐骑也都舍弃了。