摩诃婆罗多 · 章 7.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.31.1
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय ।
चलितानां द्रुतानां च कथमासीन्मनांसि वः ॥ ७.३१.१ ॥
全胜啊,当那些军队被般度之子击溃时,你们这些动摇奔逃之人的心意如何?
7.31.2
आनीकानां प्रभग्नानामवस्थानमपश्यताम् ।
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय ॥ ७.३१.२ ॥
全胜啊,对于目睹大军完全溃散的人来说,重新集结并稳住阵脚是困难的;请把此事告诉我。
7.31.3
तथापि तव पुत्रस्य प्रियकामा विशाम्पते ।
यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ॥ ७.३१.३ ॥
尽管如此,人主啊,那些希望你儿子安好的英勇战士,为了守护在世间的名声,仍追随德罗纳而去。
7.31.4
समुद्यतेषु चास्त्रेषु सम्प्राप्ते च युधिष्ठिरे ।
अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ॥ ७.३१.४ ॥
兵器高举、坚战逼近之时,在那可怕的战斗中,他们竟不能建立英雄之功,仿佛真的惊恐一般。
7.31.5
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः ।
सात्यकेश्चैव वीरस्य धृष्टद्युम्नस्य वा विभो ॥ ७.३१.५ ॥
主啊,那些力量无限的人落入了阿比马森纳、英雄萨谛奇或德里斯塔丹尤姆那之间的空隙。
7.31.6
द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् ।
मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ॥ ७.३१.६ ॥
残忍的般遮罗人高呼“德罗纳!德罗纳!”催促士卒;而你的儿子们则高呼“不要德罗纳!”催促所有俱卢人。
7.31.7
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे ।
कुरूणां पाण्डवानां च द्रोणद्यूतमवतेत ॥ ७.३१.७ ॥
有人喊道“德罗纳,德罗纳!”,另有人喊“不要杀德罗纳!”;在俱卢与般度之间,德罗纳的骰戏正在进行。
7.31.8
यंयं प्रमथते द्रोणः पाञ्चालानां रथव्रजम् ।
तत्रतत्र तु पाञ्चाल्यो धृष्टद्युम्नोऽभ्यवर्तत ॥ ७.३१.८ ॥
德罗纳在般遮罗的战车阵中碾压何人,那里般遮罗王子持征便前去迎战。
7.31.9
तेषां भाग्यविपर्यासैः सङ्ग्रामे भैरवे सति ।
वीराः समासदन्वीरान्कुर्वन्तो भैरवं रवम् ॥ ७.३१.९ ॥
在那场可怕的战斗中,双方命运颠倒,英雄扑向英雄,发出可怕的吼声。
7.31.10
अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः ।
अकम्पयन्ननीकानि स्मरन्तः क्लेशमात्मनः ॥ ७.३१.१० ॥
那里般度诸子对敌人而言变得不可动摇;他们回想自身所受的苦难,使敌军为之颤抖。
7.31.11
ते त्वमर्षवशं प्राप्ता हीमन्तः सत्वचोदिताः ।
त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ॥ ७.३१.११ ॥
他们被愤慨所支配,虽知羞耻却受勇气激励,舍弃性命,不曾退却,在那场大战中击打德罗纳。
7.31.12
अयासमिव सम्पातः शिलानामिव चाभवत् ।
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ॥ ७.३१.१२ ॥
在那场喧嚣的战斗中,具有无量光辉的勇士们以性命为赌注,他们相互冲撞,犹如铁与石相击。
7.31.13
नानुस्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम् ।
ये पूर्वदेवैर्देवानामपश्यन्युद्धमद्भुतम् ॥ ७.३१.१३ ॥
即便曾见过往昔诸神与神明之间奇异之战的长者,也不记得如此的战斗。
7.31.14
प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने ।
निवर्तता बलौघेन महता भारपीडिता ॥ ७.३१.१४ ॥
在那场英雄的毁灭中,大地仿佛震动起来,被撤退的庞大军队之重压得喘不过气。
7.31.15
घूर्णतोऽपि बलौघस्य दिवं स्तब्ध्वेव निःस्वनः ।
अजातशत्रोस्तत्सैन्यमाविवेश सुभैरवः ॥ ७.३१.१५ ॥
旋转的兵流之吼声仿佛使天空僵住,那极其可怖的声音进入了阿阇多设特鲁的军队。
7.31.16
समासाद्य तु पाण्डूनामनीकानि सहस्रशः ।
द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः ॥ ७.३१.१६ ॥
德罗纳在战场中驰骋,抵达般度之子的千百支部队,以锐利的箭将它们击溃。
7.31.17
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा ।
पर्यवरायदासाद्य द्रोणं सेनापतिः स्वयम् ॥ ७.३१.१७ ॥
当这些部队被行奇迹之业的德罗纳击溃时,元帅亲自上前来到德罗纳身边,将他包围。
7.31.18
तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तथा ।
नैव तस्योपमा काचिदिति मे निश्चिता मतिः ॥ ७.३१.१८ ॥
德罗纳与般遮罗人之间的那场战斗极为奇异;我确信,没有任何可以与之相比的事物。
7.31.19
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् ।
शरस्कुलिङ्गश्चापार्चिर्दिहन्कक्षमिवानलः ॥ ७.३१.१९ ॥
那时,如火焰般耀眼的尼罗焚烧了俱卢军队。他箭矢的火星与弓上的火焰,如同烧尽干草的大火。
7.31.20
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् ।
पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत ॥ ७.३१.२० ॥
焚烧军队的他,被德罗纳的威猛之子——先开口者——微笑着温和地对他说道。
7.31.21
नील किं बहुभिर्दग्धैस्तव योधैः सरार्चिषा ।
मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशु माम् ॥ ७.३१.२१ ॥
尼罗啊,被你的火焰烧死如此多的战士有何用?只与我单独交战吧;愤怒地,快速攻击我。
7.31.22
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् ।
व्याकोशपद्माभमुखो नीलो विव्याध सायकैः ॥ ७.३१.२२ ॥
他的形貌如同一丛莲花,眼如莲瓣,面如盛开的莲花;尼罗以箭射穿了他。
7.31.23
तेनापि विद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः ।
धनुर्ध्वजं च च्छत्रं च द्विषतः सन्न्यकृन्तत ॥ ७.३१.२३ ॥
德罗纳之子忽然被他以三支锐利的婆罗箭射中,随即将敌人的弓、旗和伞盖全部斩断。
7.31.24
स प्लुतः स्यन्दनात्तस्मान्नीलश्चर्मवरासिभृत् ।
द्रौणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्त्रिवत् ॥ ७.३१.२४ ॥
尼罗从战车上跃下,手持良盾与利剑,想要像飞鸟一样将德罗纳之子的头从身上夺下。
7.31.25
तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् ।
भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ ॥ ७.३१.२५ ॥
德罗纳之子以婆罗箭从身体上斩下了那持剑高举者的头颅,鼻梁秀美,戴着耳环,仿佛在微笑,无罪者啊。
7.31.26
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः ।
प्रांशुरुत्पलपत्राभो निहतो न्यपतद्भुवि ॥ ७.३१.२६ ॥
面如满月,目如莲瓣,身材高大,有青莲花瓣的光泽,被杀后倒在地上。
7.31.27
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला ।
आचार्यपुत्रेण हते नीले ज्वलिततेजसि ॥ ७.३१.२७ ॥
那时,般度之军深感痛苦,极为惶乱,因为师尊之子杀死了光耀闪亮的尼罗。
7.31.28
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः ।
कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष ॥ ७.३१.२८ ॥
般度之子的诸大车士都想:‘婆薮之子将如何使我们免于敌人?’尊者啊。
7.31.29
दक्षिणेन तु सेनायाः कुरुते कदनं बली ।
संशप्तकावशेषस्य नारायणबलस्य च ॥ ७.३१.२९ ॥
在军队的右侧,那位强大的人(阿周那)在残余的三誓者和那罗衍那的军队中大肆屠杀。