Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.32

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.32.1

प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः ।
सोऽभ्याहनद्गुरुं षष्ट्या कर्णं च दशभिः शरैः ॥ ७.३२.१ ॥

毗摩不能忍受军队的反击。他以六十支箭射向师尊德罗纳,以十支箭射向迦尔纳。

7.32.2

तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः ।
जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह ॥ ७.३२.२ ॥

德罗纳以锋利、尖锐、直飞的箭射他,欲取其性命,迅速射中其要害。

7.32.3

आनन्तर्यमभिप्रेप्सुः षड्विंशत्या शमार्पयत् ।
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः ॥ ७.३२.३ ॥

迦尔纳依次出击,以二十六支箭、又以十二支箭射之;马嘶之子以七支箭射之。

7.32.4

षङ्भिर्दुर्योधनो राजा तत एनमथाकिरत् ।
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः ॥ ७.३२.४ ॥

随后国王难敌以六支箭将他遮蔽,而大力的毗摩森那则还击了他们所有人。

7.32.5

द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः ।
दर्योधनं द्वादशभिर्दौणिमष्टाभिराशुगैः ॥ ७.३२.५ ॥

他以五十支箭射德罗纳,以十支箭射迦尔纳,以十二支箭射难敌,以八支快箭射德罗纳之子。

7.32.6

आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे ।
तस्मिन्सन्त्यति प्रामान्मृत्युसाधारणीकृते ॥ ७.३२.६ ॥

他发出震天的呐喊,在战场上向他们冲去。在那场生命与死亡共享的战争中……

7.32.7

अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् ।
ते ययुर्भीमसेनस्य समीपममितौजसः ॥ ७.३२.७ ॥

不可胜者坚战勉励那些勇士说:“怖军是你们的庇护者。”那些威力无比的勇士便前往怖军身边。

7.32.8

युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ ।
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः ॥ ७.३२.८ ॥

游尤陀那等人,连同摩德丽的两个儿子般度族人,那些人中之牛,怀着极大的愤怒聚集在一起。

7.32.9

महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः ।
समापेतुर्महावीर्या भीमप्रभृतयो रथाः ॥ ७.३२.९ ॥

在最优秀的大弓箭手保护下,怖军等大勇士的战车想要冲破德罗纳的军阵,聚集在一起。

7.32.10

तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः ।
महारथानतिबलान्वीरान्समरयोधिनः ॥ ७.३२.१० ॥

战车武士中的最优者德罗纳也镇定自若地迎战他们——那些大战车武士、极其强大、在战斗中厮杀的英雄们。

7.32.11

बाह्यं मृत्युभयं कृत्वा तावकान्पाण्डवा ययुः ।
सादिनः सादिनोऽब्यघ्नंस्तथैव रथिनो रथान् ॥ ७.३२.११ ॥

他们从外部制造死亡的恐惧,般度族人冲向你的军队;骑兵攻击骑兵,战车武士同样攻击战车。

7.32.12

असिशक्त्यृष्टिसङ्घातैर्युद्धमासीत्परश्वथैः ।
प्रकृष्टमसियुद्धं च बभूव कटुकोदयम् ॥ ७.३२.१२ ॥

战斗在剑、矛、枪和斧的碰撞中进行;激烈的剑战爆发,其结局极其苦涩。

7.32.13

कुञ्जराणां च सम्पाते युद्धमासीत्सुदारुणम् ।
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः ॥ ७.३२.१३ ॥

象群相撞之时,爆发了极其惨烈的战斗。有人从象背坠下,有人从马上跌落,还有人头朝下倒地。

7.32.14

नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष ।
तत्रान्यस्य च सम्पर्दे पतितस्य विवर्मणः ॥ ७.३२.१४ ॥

哦,摩利沙!被箭射穿的一人从战车上坠落;在那里的厮杀中,另一位无甲而倒下的人……

7.32.15

शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः ।
अपरांश्चापरेऽमृद्रन्वारणाः पतितान्नरान् ॥ ७.३२.१५ ॥

一头象将脚踏在一人的胸膛上,压碎了他的头颅;其他象则践踏了其他倒地的人。

7.32.16

विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् ।
नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः ॥ ७.३२.१६ ॥

有的象以獠牙触地,刺穿了许多车兵;有的象獠牙上挂着人的肠子……

7.32.17

बभ्रमुः समरे नागा मृद्रन्तः शतशो नरान् ।
कार्ष्णायसतनुत्राणान्नराश्वरथकुञ्जरान् ॥ ७.३२.१७ ॥

战场上象群四处游荡,成百地践踏身披黑铁甲的人,以及人、马、战车和象。

7.32.18

पतितान्पोथयाञ्चक्रुर्द्विपाः स्थूलनलानिव ।
गृध्रपत्राधिवासांसि शयनानि नारधिपाः ॥ ७.३२.१८ ॥

象群将倒地的人如粗芦苇般踩碎;身披秃鹫羽毛的人主们,仿佛躺在床榻之上……

7.32.19

हीमन्तः कालसम्पर्कात्सुदुःस्वान्यनुशेरते ।
हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे ॥ ७.३२.१९ ॥

因时间的触碰,那些不幸者躺卧在那里。此处父亲在战斗中驾车前来,击打他的儿子。

7.32.20

पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत ।
रथो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यों निपातितम् ॥ ७.३२.२० ॥

因迷惑,儿子也对父亲毫无节制地行事。战车被毁,旗帜被斩断,华盖被打落在地。

7.32.21

युगार्धं च्छिन्नमादाय प्रदुद्राव तथा हयः ।
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् ॥ ७.३२.२१ ॥

拖着断裂的半截轭,马狂奔而去。持剑的手臂坠落,戴着耳环的头颅被砍下。

7.32.22

गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ ।
रथिना ताडितो नागो नाराचेनापतत्क्षितौ ॥ ७.३२.२२ ॥

一头强大的象把战车掷起,在地上碾得粉碎。车手以铁箭射中大象,它便倒在地上。

7.32.23

सारोहश्चापतद्वाजी गेजेनाभ्याहतो भृशम् ।
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् ॥ ७.३२.२३ ॥

马连同骑手被象猛烈撞击而倒下。无节制的大战激烈地进行着,极为惨烈。

7.32.24

हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि ।
प्रहराहर जह्मेनं स्मितश्वेडितगर्जितैः।
इत्येवमुच्चैरत्यर्थं श्रूयन्ते विविधा गिरः ॥ ७.३२.२४ ॥

哎呀父亲!哎呀儿子!朋友,你在哪里?站住,你往哪里跑?打,打,杀了他!就这样,伴随着笑声、嘶吼与咆哮,各种呼喊声极其响亮地传来。

7.32.25

नरस्याश्वस्य नाग्स्य समसञ्जत शोणितम् ।
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् ॥ ७.३२.२५ ॥

人、马与象的血交织在一起。大地的尘土平息了,怯懦者被惊惶所笼罩。

7.32.26

चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे ।
अतीतेषुपथे काले जहार गदया सिरः ॥ ७.३२.२६ ॥

两位英雄在战场上以各自的飞轮相撞。在箭矢所及之外,适时地,他以铁杵夺下了对方的头颅。

7.32.27

असीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् ।
नखैर्दन्तैश्च सूराणामद्वीपे द्वीपमिच्छताम् ॥ ७.३२.२७ ॥

勇士们揪住彼此的头发,以拳相搏,极为惨烈;他们以指甲与牙齿相斗,在没有岛屿的地方寻找一处可以栖身的岛屿。

7.32.28

तत्राच्छिद्यत शूरस्य सखङ्गो बाहुरुद्यतः ।
सधुनश्चापरस्यापि सशरः साङ्कुशस्तथा ॥ ७.३२.२८ ॥

那里,一位英雄高举的手臂连同宝剑被斩断;另一人的手臂连同弓、箭与象钩也同样被斩落。

7.32.29

आक्रोशदन्यमन्योऽत्र तथाऽन्यो विमुखोऽद्रवत् ।
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् ॥ ७.३२.२९ ॥

这里一人向另一人大声叫阵,另一人转身逃跑;还有一人将靠近的另一人的头颅从身体上割下。

7.32.30

सशब्दमद्रवच्चान्यः शब्दादन्योऽत्रसद्भृशम् ।
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ॥ ७.३२.३० ॥

一人高声呼喊着奔逃,另一人被那声响吓得魂飞魄散;一人以利箭射倒了自己的人,另一人则射倒了敌人。

7.32.31

गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः ।
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे ॥ ७.३२.३१ ॥

此时,那头如山峰般的大象被铁箭射倒,倒在地上,犹如炎夏时河堤崩塌。

7.32.32

तथैव रथिनं नागः क्षरन्गिरिरिवारुजन् ।
अभ्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् ॥ ७.३२.३२ ॥

同样,那头大象如山般淌着血,踩碎了战车武士,连同马匹和御者,以脚踏立于地上。

7.32.33

शूरान्प्रहरतो दृष्ट्वा कृताश्स्त्रान्रुधिरोक्षितान् ।
बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् ॥ ७.३२.३३ ॥

看到英雄们击杀,精通兵器,浑身浴血,许多人陷入迷惘,尤其是胆怯与心志软弱之人。

7.32.34

सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन ।
सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत ॥ ७.३२.३४ ॥

一切都陷入骚动,什么也辨认不清。被军队的尘土所遮蔽,战斗毫无节制地继续进行。

7.32.35

ततः सेनापतिः शीघ्रमयं क्राल इति ब्रुवन् ।
नित्याभित्वरितानेव त्वरयामास पाण्डवान् ॥ ७.३२.३५ ॥

于是统帅说:“这是克拉!”他催促本已急进的般度之子们更加迅速地前进。

7.32.36

कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः ।
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ॥ ७.३२.३६ ॥

般度的强臂之子遵从他的命令,如天鹅飞向湖泊一般,击打德罗纳的战车,朝它冲去。

7.32.37

गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत ।
इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ॥ ७.३२.३७ ॥

抓住,逃跑,惊恐者们,彼此砍杀!于是向不可战胜者的战车方向响起了震耳的喧嚣。

7.32.38

ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः ।
विन्दानुविन्दावावन्त्यौ शल्यश्चैतान्न्यवारयन् ॥ ७.३२.३८ ॥

于是德罗纳、克里帕、迦尔纳、德罗纳之子、国王胜车、阿萬蒂的两位王子文陀与阿努文陀,以及沙利耶阻止了他们。

7.32.39

ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः ।
शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवै सह ॥ ७.३२.३९ ॥

他们被高贵武士的责任所激励,难以阻挡,也难以接近;虽被箭矢所伤,般遮罗人仍与般度之子们一同未离开德罗纳。

7.32.40

ततो द्रोणोऽतिसंक्रुद्धो विसृजञ्शतशः शरान् ।
चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् ॥ ७.३२.४० ॥

于是德罗纳极为愤怒,成百地射出箭矢,使遮蔽、般遮罗与般度之子遭受了巨大的杀戮。

7.32.41

तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षं मारिष ।
वज्रसंह्रादसङ्काशस्त्रासयन्मानवान्बहून् ॥ ७.३२.४१ ॥

啊,尊者,他弓弦的响声传遍四方,如同霹雳轰鸣,惊吓了众多的人。

7.32.42

एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान्बहून् ।
अभ्ययात्तत्र यत्रासौ द्रोणः पाण्डून्प्रमर्दति ॥ ७.३२.४२ ॥

与此同时,胜利者阿周那击败了众多桑沙普塔卡,前往德罗纳正在碾压般度之子的地方。

7.32.43

ताञ्शरौघान्महावर्ताञ्शोणितोदान्महाहदान् ।
तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः ॥ ७.३२.४३ ॥

他穿越了那些由箭雨汇成、旋涡巨大、充满血水的大湖,杀死了三战士,法尔古那(阿周那)重新显现。

7.32.44

तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः ।
दीप्यमानमपश्याम तेजसा वानरध्वजम् ॥ ७.३२.४४ ॥

我们看见那位名声显赫、光辉如太阳的人的标志,以其自身光芒闪耀——那猴子旗帜。

7.32.45

संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः ।
स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ॥ ७.३२.४५ ॥

他以兵器的光芒使那三战士之海干涸,作为般度之子的末劫太阳,也灼烧了俱卢们。

7.32.46

प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा ।
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ॥ ७.३२.४६ ॥

阿周那以兵器的光辉焚烧了所有俱卢人,如同末劫时升起的彗星焚烧一切众生。

7.32.47

तेन बाणसहस्रौधैर्गजाश्वरथयोधिनः ।
ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाःशरार्दिताः ॥ ७.३२.४७ ॥

被他数千支箭雨击中,象兵、马兵与车兵披散着头发,被箭所折磨,纷纷倒向大地。

7.32.48

केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः ।
पार्थबाणहताः केचिन्निपेतुर्विगतासवः ॥ ७.३२.४८ ॥

有人发出痛苦的叫喊,有人再度毁灭;被普利塔之子的箭射死的人,倒地而亡。

7.32.49

तेषामुत्पतितान्कांश्चित्पतितांश्च पराङ्मुखान् ।
न जघानार्जुनो योधान्योधव्रतमनुस्मरन् ॥ ७.३२.४९ ॥

阿周那记得武士的誓言,没有击杀其中那些正在起身的、已经倒下的或已经背转身去的战士。

7.32.50

ते विकीर्णरथाश्चित्राः प्रायशश्च पराङ्मुखः ।
कुरवः कर्णकर्णेति हाहेति च विचुक्रुशुः ॥ ७.३२.५० ॥

散乱了战车的众俱卢人,大多背转身去,高呼“迦尔纳!迦尔纳!”与“唉呀!唉呀!”

7.32.51

तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् ।
मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ॥ ७.३२.५१ ॥

听懂了那些求庇护者的哭喊,许诺“不要害怕”,阿提罗陀之子便迎面朝阿周那而去。

7.32.52

स भारतरथश्रेष्ठः सर्वभारतहर्षणः ।
प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वारः ॥ ७.३२.५२ ॥

他是婆罗多族中最好的车战勇士,令一切婆罗多人欢喜,是精通兵器者中的第一人,于是他施放出那火焰神兵。

7.32.53

तस्य दीप्तशरौघस्य दीप्तचापधरस्य च ।
वारुणेन तदस्त्रेण विधूयाथ धनञ्जयः।
शरौघाञ्शरजालेन विदुधाव धनञ्जयः ॥ ७.३२.५३ ॥

用伐楼那神兵驱散了他那燃烧的箭流与持着燃烧弓者,然后,财主(阿周那)以箭网冲散了箭的洪流。

7.32.54

तथैवाधिरथिस्तस्य बाणाज्ज्वलिततेजसः ।
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ॥ ७.३२.५४ ॥

同样,阿提罗陀之子以兵器挡住了他那光焰炽烈的箭,一边放箭一边怒吼。

7.32.55

धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः ।
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ॥ ७.३२.५५ ॥

德里施塔德युम्न、毗摩和萨提奇这些大车战士走近迦尔纳,各以三支直飞的箭射中了他。

7.32.56

अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः ।
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः ॥ ७.३२.५६ ॥

罗陀之子迦尔纳以箭雨挡住了阿周那的神箭,并以三支箭斩断了那三人的弓。

7.32.57

ते निकृत्तायुघाः शूरा निर्विषा भुजगा इव ।
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ॥ ७.३२.५७ ॥

武器被斩断后,这些英雄如同无毒的蛇,高举战车长枪,像狮子一样大声咆哮。

7.32.58

ता भुजाग्रैर्महावेगा निसृष्टा भुजगोपमाः ।
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ॥ ७.३२.५८ ॥

那些从臂端投出的大矛,迅疾如蛇、闪闪发光,射向御者之子迦尔纳。

7.32.59

ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः ।
ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् ॥ ७.३२.५९ ॥

迦尔纳以箭群将它们斩断,每支以三箭直射,强大的迦尔纳怒吼着向般度子阿周那发射箭矢。

7.32.60

अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः ।
कर्णादवरजं बाणैर्जघान निशितैः शरैः ॥ ७.३२.६० ॥

阿周那也以七支迅疾的箭射中罗陀之子,并以锐利的箭射杀了迦尔纳的幼弟。

7.32.61

ततः शत्रुंजयं हत्वा पार्थः षङ्भिरजिह्मगैः ।
जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ॥ ७.३२.६१ ॥

随后,般度之子(阿周那)以六支直箭杀死了胜敌,又立即以一支月牙箭从车上斩下了毗波塔的头颅。

7.32.62

पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना ।
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः ॥ ७.३२.६२ ॥

在持国之子们的注视下,唯有戴冠者(阿周那)一人,就在御者之子(迦尔纳)面前杀死了他的三位同母兄弟。

7.32.63

ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् ।
वरासिना कर्णपक्षाञ्जधान दश पञ्च च ॥ ७.३२.६३ ॥

于是,毗摩如迦鲁达般从车上跃起,以一柄良剑杀死了迦尔纳一方的十五人。

7.32.64

पुनस्तु रथमास्थाय धनुरादाय चापरम् ।
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ॥ ७.३२.६४ ॥

他再次登上战车,另取一弓,以十箭射中迦尔纳,以五箭射中御者与马匹。

7.32.65

धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् ।
जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम् ॥ ७.३२.६५ ॥

法首也取了一柄良剑与一面闪亮的盾牌,杀死了月甲与尼沙陀王子广刹。

7.32.66

ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् ।
आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे ॥ ७.३२.६६ ॥

于是般遮罗人登上自己的战车,另取一弓,在战场上怒吼,以七十三支箭射中了迦尔纳。

7.32.67

शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः ।
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ॥ ७.३२.६७ ॥

勇猛的悉尼之子也拿起另一张弓,光辉如月,以六十四支箭射中御者之子迦尔纳,并像狮子一样吼叫。

7.32.68

भल्लाभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् ।
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ७.३२.६८ ॥

他用两支婆罗箭巧妙地斩断了迦尔纳的弓,然后又用三支箭射中迦尔纳的双臂和胸膛。

7.32.69

ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः ।
निम़ज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ॥ ७.३२.६९ ॥

于是难敌、德罗纳和国王胜车把正在被悉尼之子这片海洋吞没的罗陀之子(迦尔纳)救了出来。

7.32.70

पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे ।
कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः ॥ ७.३२.७० ॥

你方的步兵、骑兵、战车手和象兵,以及成百上千的其他人,都挥击着冲向迦尔纳本人,以保护他。

7.32.71

धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च ।
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ॥ ७.३२.७१ ॥

猛光、怖军、须跋陀罗之子、阿周那、无种和偕天在战场上保护了悉尼之子。

7.32.72

एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् ।
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ॥ ७.३२.७२ ॥

这场极其可怕的战斗,为了毁灭所有射手,你方与敌方的生命都被舍弃,于是化为一场屠杀。

7.32.73

पदातिरथनागाश्वा गजाश्वरथपत्तिभिः ।
रथिनो नागपत्त्यश्वैरथ पत्तीरथ द्विपैः ॥ ७.३२.७३ ॥

步兵、战车、象和马;与象、马、战车、步兵相杂;战车武士与象兵及步兵相战,骑兵与骑兵相战,步兵与象相战。

7.32.74

अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह ।
संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ॥ ७.३२.७४ ॥

马与马相交,象与象相杂,车兵与车兵相合,步兵亦与步兵相合而可见。

7.32.75

एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् ।
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् ॥ ७.३२.७५ ॥

如此,这场极为混乱的战斗使食肉者欢喜;由于那些无畏的大勇士,它使阎摩的国度不断扩大。

7.32.76

ततो हता नररथवाजिकुञ्जरै ।
रनेकशो द्विपरथपत्तिवाजिनः।
गजैर्गजा रथिभिरुदायुधा रथा ।
हयैर्हयाः पत्तिगणैश्च पत्तयः ॥ ७.३२.७६ ॥

于是人、车、马、象以种种方式被杀;象、车、步兵、马被杀;象被象所杀,车兵被车兵所杀,高举兵器的战车,马被马所杀,步兵群被步兵所杀,步兵亦被杀。

7.32.77

रथैर्द्विपा द्विरदवरैर्महाहया ।
हयैर्नरा वररथिभिश्च वाजिनः।
निरस्तजिह्वादशनेक्षणाः क्षितौ ।
क्षयं गताः प्रमथितवर्मभूषणाः ॥ ७.३२.७७ ॥

象被战车所杀,良象所杀大马,马所杀人,良好车兵所杀马;舌、齿、目外突,甲胄饰物被碾碎,他们倒毙于大地之上。

7.32.78

तथा परैर्बहुकरणैर्वरायुधै-
र्हता गताः प्रतिभयदर्शनाः क्षितिम्।
विपोथिता हयगजपादताडिता ।
भृशाकुला रथमुखनेमिभिः क्षताः ॥ ७.३२.७८ ॥

如此,他们被敌人以众多器械与精良兵器所杀,形貌可怖,倒卧于地;被践踏,被马与象之足所击,极度惊乱,被战车前端与车轮边缘所伤。

7.32.79

प्रमोदने श्वापदपक्षिरक्षसां ।
जनक्षये वर्तति तत्र दारुणे।
महाबलास्ते कुपिताः परस्परं ।
निषूदयन्तः प्रविचेरुरोजसा ॥ ७.३२.७९ ॥

在那可怕的人命大殁之中,猛兽、飞鸟与罗刹欢欣鼓舞,那些大力的战士怒气冲冲,相互杀戮,以力量往来奔驰。

7.32.80

ततो बले भृशलुलिते परस्परं ।
निरीक्षमाणे रुधिरौघसम्प्लुते। ॥ ७.३२.८० ॥

此时大军剧烈震荡,彼此相望,浸没在血流之中。

7.32.81

दिवाकरेऽस्तंगिरिमास्थिते शनै ।
रुभे प्रयाते शिबिराय भारत ॥ ७.३२.८१ ॥

婆罗多之子啊,太阳缓缓登上西方山峰,向营帐而去。