Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.33.1

पूर्वमस्मासु भग्नेषु फल्गुगेनामितौजसा ।
द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे ॥ ७.३३.१ ॥

先前,我方军队被无量威力的法尔古那(阿周那)击溃,德罗纳的决心落空,而坚战得到了保护。

7.33.2

सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः ।
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ॥ ७.३३.२ ॥

你的战士们甲胄破碎,在战斗中败北,满身尘土,极度惊慌,四处张望十方。

7.33.3

अवहारं ततः कृत्वा भारद्वाजस्य सम्मते ।
लब्धलक्षैः शरैर्भिन्ना भृशावहसिता रणे ॥ ७.३३.३ ॥

随后,在婆罗堕阁(德罗纳)的同意下,他们撤退了,被命中目标的箭矢所刺穿,在战斗中成为了极大的嘲笑对象。

7.33.4

श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् ।
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति ॥ ७.३३.४ ॥

众生颂扬法尔古那(阿周那)无量的德行,并讲述克舍婆(黑天)对阿周那的友谊。

7.33.5

अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ।
ततः प्रभातसमये द्रोणं द्रुयोधनोऽब्रवीत् ॥ ७.३३.५ ॥

他们仿佛被诅咒一般,陷入沉思的寂静。随后在黎明时分,难敌对德罗纳说道。

7.33.6

प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः ।
शृण्वतां सर्वयोधानां संरब्धो वाक्यकोविदः ॥ ७.३३.६ ॥

难敌心中因爱、傲慢与敌意的增长而烦乱,愤怒而善于言辞,在众战士聆听之时开口说道。

7.33.7

नूनं वयं वध्यपक्षे भवतो द्विजसत्तम ।
तथाहि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ॥ ७.३३.७ ॥

最优秀的再生者啊,我们确实站在你要杀戮的一方,因为今天他靠近时你并未擒获坚战。

7.33.8

इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः ।
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ॥ ७.३३.८ ॥

战场上落入视线的敌人,即使你想要、想擒获他,也无法脱身,因为他受到般度之子与天神的守护。

7.33.9

वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि ।
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ॥ ७.३३.९ ॥

你曾欢喜地赐我一个恩典,之后却又反悔了。高尚之人绝不会以任何方式打破忠诚者的希望。

7.33.10

ततोऽप्रीतस्तथोक्तः सन्भारद्वाजोऽब्रवीन्नृपम् ।
नार्हसे मां तथा ज्ञातुं घटमानं तव प्रिये ॥ ७.३३.१० ॥

于是,德罗纳心中不悦,听闻此言后对国王说:亲爱的,你不应当这样看待我,我正为你而竭力奋斗。

7.33.11

ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः ।
नालं लोका रणे जेतुं पाल्यमानं किरीटिना ॥ ७.३३.११ ॥

即便天神、阿修罗、干闼婆、夜叉、龙蛇与罗刹所组成的诸界,也无法在战场上战胜受到持冠者(阿周那)守护之人。

7.33.12

विश्वसृग्यत्र गोविन्दः पृतनानीस्तथाऽर्जुनः ।
तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः ॥ ७.३३.१२ ॥

世界创造者哥文达(克里希那)与军队统帅阿周那所在之处,除主宰三眼者(湿婆)之外,谁的力量能够取胜?

7.33.13

सत्यं तात ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत् ।
अद्यैकं प्रवरं कञ्चित्पातयिष्ये महारथम् ॥ ७.३३.१३ ॥

亲爱的,我今日如实相告:此事绝不会有别的结果。今日我将击倒一位最杰出的大车将。

7.33.14

चक्रब्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि ।
योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम् ॥ ७.३३.१४ ॥

我将布下连诸神也无法攻破的车轮阵。大王啊,愿以某种方法将阿周那引开。

7.33.15

न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन ।
तेन ह्युपात्तं सकलं सर्वज्ञानमितस्ततः ॥ ७.३३.१५ ॥

在战斗中,对他而言没有什么是未知或不可成就的。他已从四处完整地掌握了一切知识。

7.33.16

द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः ।
आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् ॥ ७.३३.१६ ॥

德罗纳如此说罢,三兄弟(勇士)众部又在战场上挑战阿周那,四面八方向南方而去。

7.33.17

ततोऽर्जुनस्याथ परैः सार्धं समभवद्रणः ।
तादृशो यादृशो नान्यः श्रुतो दृष्टोपि वा क्वचित्। ॥ ७.३३.१७ ॥

随后阿周那与敌人之间爆发了一场前所未闻也未曾见过的战斗。

7.33.18

तत्र द्रोणेन विहितो व्यूहो राजन्व्यरोचत ।
चरन्मध्यन्दिने सूर्यः प्रतपन्निव दुर्दृशः ॥ ७.३३.१८ ॥

德罗纳所布之阵,大王啊,在那里闪耀,如同正午炽烈、令人难以直视的太阳。

7.33.19

तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत ।
बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा ॥ ७.३३.१९ ॥

婆罗多啊,依照长辈父亲的话,阿毗曼尤在战场上以多种方式攻破了那难以穿透的车轮阵。

7.33.20

स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः ।
राजपुत्रशतं हत्वा कौसल्यं च बृहद्बलम् ॥ ७.३३.२० ॥

他完成了这一艰难的壮举,杀死了成千上万的英雄、一百位王子,还有考萨利雅之子大力。

7.33.21

महारथं शल्यपुत्रं पौत्रं ते लक्ष्मणं तथा ।
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः।
सौभद्रः पृथिवीपाल जहौ प्राणान्परन्तप ॥ ७.३३.२१ ॥

灭敌者啊,护地之王啊!苏跋陀罗之子被六位英雄包围,落入难降之子的掌控,杀死了大车士沙利耶之子以及你的孙子拉克什曼,然后舍弃了生命。

7.33.22

वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः ।
सौभद्रे निहते राजन्नवहारमकुर्महि ॥ ७.३३.२२ ॥

国王啊,苏跋陀罗之子被杀后,我们般度之子原本极为欢欣,却因悲痛而憔悴,于是撤退了。

7.33.23

समरोद्युक्तकर्माणः कर्मभिर्व्यञ्जितश्रमाः ।
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः ॥ ७.३३.२३ ॥

与克里希那同在的五位般度之子,行动已为战斗而准备,以其所为显露疲惫,即便诸神也难以接近。

7.33.24

शश्वत्कर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया ।
न भूतो भविता वापि कृष्णस्य सदृशः पुमान् ॥ ७.३३.२४ ॥

凭借不断的业绩、智慧、本性、名望与荣光,从来没有、将来也不会有人能与克里希那相比。

7.33.25

सत्यधर्मतपोदानैर्द्विजपूजादिभिर्गुणैः ।
सदेहस्त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः ॥ ७.३३.२५ ॥

凭借真实、法、苦行、布施以及敬奉婆罗门等德行,国王坚战确实以肉身升入天界。

7.33.26

युगान्ते चान्तकश्चैव जामदग्न्यश्च कीर्तिमान् ।
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः ॥ ७.३३.२६ ॥

在劫末,死神(阎摩)、名声远扬的甘陀耶之子(持斧罗摩)以及立于战场的毗摩森——这三者被称为与他相等。

7.33.27

प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः ।
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ ॥ ७.३३.२७ ॥

对于在誓言与行动上都很精湛、在战场上执持甘狄拔神弓的贝塔(阿周那),我在大地上找不到相称的比喻。

7.33.28

गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः ।
नकुले त्वाभिरूप्यं च शौर्यं च नियतानि षट् ॥ ७.३३.२८ ॥

对师长的深切敬爱、谦逊、温和、谦卑与克己——这六种德性确定地存在于那古拉身上,还有容貌之美与勇武。

7.33.29

श्रुतमाधुर्यगाम्भीर्यसत्त्वरूपपराक्रमैः ।
सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः ॥ ७.३३.२९ ॥

以博学、温润、沉毅、刚健、容貌与勇力而论,英雄偕天确实与两位阿濕婆天神相等。

7.33.30

ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः ।
अभिमन्यौ किलैकस्था दृश्यन्ते ते गुणाः शुभाः ॥ ७.३३.३० ॥

克里希纳身上充盈的那些德性,以及般度五子身上的德性——这些吉祥的德性,确实都集中见于阿毗曼纽一人之身。

7.33.31

युधिष्ठिरस्य शौर्येण कृष्णस्य चरितेन च ।
कर्मणा भीमसेनस्य सदृशं भीमकर्मणः ॥ ७.३३.३१ ॥

他如同坚战的勇武、黑天的品行与怖军的作为,与行可怖之事者相似。

7.33.32

धनञ्जयस्य रूपेण विक्रमेण शुभेन च ।
विनये सहदेवस्य सदृशं नकुलस्य च ॥ ७.३३.३२ ॥

他的容貌与吉祥的勇武如财胜(阿周那),谦逊则如偕天与无种。

7.33.33

अभिमन्युं द्विजश्रेष्ठ सौभद्रमपराजितम् ।
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः ॥ ७.३३.३३ ॥

再生族中最优秀者啊!我愿完整听闻,那不可战胜的苏跋陀罗之子阿毗曼纽是如何在战场上被杀的。

7.33.34

अभिमन्युं हतं श्रुत्वा धृतराष्ट्रो जनाधिपः ।
विस्तरेण महाराज पर्यपृच्छत्स सञ्जयम् ॥ ७.३३.३४ ॥

闻阿毗曼纽被杀,人主持国王(般度)……大王啊,他详细地询问了全知者(桑耶)。

7.33.35

पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम् ।
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ॥ ७.३३.३५ ॥

桑耶啊!人中雄狮之子,尚未成年,便在战场上被杀。闻此,我的心剧烈撕裂。

7.33.36

दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः ।
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन् ॥ ७.३३.३६ ॥

这刹帝利之法何其残酷,乃持法者所定。那些觊觎王国的勇士,竟将兵器加于一个少年身上。

7.33.37

बालमत्यन्तसुखिनं विचरन्तमभीतवत् ।
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम् ॥ ७.३३.३७ ॥

噫,伽瓦尔伽尼,那位极其快乐、无所畏惧地游走的少年,被众多精通武艺者如何杀害?请告诉我。

7.33.38

बिबित्सता रथानीकं सौभद्रेणामितौजसा ।
विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय ॥ ७.३३.३८ ॥

噫,桑遮耶,请告诉我,那位力量无量的苏跋陀罗之子,欲冲入战车军阵,在战场上如何嬉戏。

7.33.39

यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् ।
तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः ॥ ७.३३.३९ ॥

王中之王啊,关于苏跋陀罗之子被杀之事,你所问的,我将完整地告诉你。大王,请专心聆听。

7.33.40

विक्रीडितं कुमारेण यथानीकं बिभित्सता ।
आरुग्णाश्च यथा वीरा दुःसाध्याश्चापि विप्लुवे ॥ ७.३३.४० ॥

那位少年如何在欲冲入军阵时嬉戏,以及难以战胜的英雄们即便在那场溃败中也如何受伤。

7.33.41

दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे ।
वनौकसामिवारण्ये त्वदीयानामभूद्भयम् ॥ ७.३३.४१ ॥

犹如森林中的居民被林火包围,在灌木、草丛与树木密集之处心生恐惧,你的人马也陷入了恐惧。