Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.36.1

सौभद्रस्तद्वचः श्रुत्वा धर्मराजस्य धीमतः ।
अचोदयत यन्तारं द्रोणानीकाय भारत ॥ ७.३६.१ ॥

萨婆德罗之子听闻智慧的法王之言,便催促御者驶向德罗纳的军阵,婆罗多啊。

7.36.2

तेन सञ्चोद्यमानस्तु याहियाहीति सारथिः ।
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ॥ ७.३६.२ ॥

他连声催促「前进,前进」,御者于是对阿毗曼尤说了这番话,大王啊。

7.36.3

अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः ।
सम्प्रधार्य क्षणं बुद्ध्या ततस्त्वं योद्धुमर्हसि ॥ ७.३६.३ ॥

长寿者啊,般度之子们将这极重的担子压在你身上。你应当用智慧稍作思量,然后再去作战。

7.36.4

आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः ।
त्वं तु बालः स बलवान्सङ्ग्रामाणामकोविदः ॥ ७.३६.४ ॥

师尊德罗纳老练,在至高神兵上曾下苦功;你还年少,他力量强大,而你在战阵之事上尚无经验。

7.36.5

ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् ।
सारथे कोन्वयं द्रोणः समग्रं क्षत्रमेव वा ॥ ७.३६.५ ॥

于是阿毗曼尤笑着对御者说道:「御者啊,这德罗纳是什么人?或者说整个刹帝利阶层又算得了什么?」

7.36.6

व्यवसायो हि मे योद्धुं रणोत्सवसमुद्यतः ।
ऐरावतगतं शक्रं सहामरगणैरहम् ॥ ७.३६.६ ॥

我的决心是作战;我已准备好迎接战争的盛典。即便是骑着爱罗婆多的帝释天,与众天神一同来到,我也敢与之交战。

7.36.7

अथवा रुद्रमीशानं सर्वभूतगणार्चितम् ।
योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ॥ ७.३६.७ ॥

或者我也可在战阵前与被一切众生群所敬拜的主宰者楼陀罗交战;在刹帝利的本分中,今日对我并无惊异。

7.36.8

यच्चैतत्पश्यसे सूत सयोधाश्वरथद्विपम् ।
तन्ममाद्य द्विषत्सैन्यं कलामर्हति षोडशीम् ॥ ७.३६.८ ॥

御者啊,你所见的这支由步兵、马匹、战车和象群组成的军队,今日连我敌军的十六分之一都抵不上。

7.36.9

अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज ।
पितरं चार्जुनं युद्धे न भीर्मामुपयास्यति ॥ ७.३६.९ ॥

御者之子啊,即使我的舅父得到了征服一切的毗湿奴,父亲阿周那在战斗中前来,恐惧也不会靠近我。

7.36.10

एवमप्युच्यमानः स सारथिस्तं पुनः पुनः ।
वीर ते तेन मा युद्धमिति सौभद्रमब्रवीत् ॥ ७.३६.१० ॥

虽被这样反复劝说,那御者仍对娑部陀罗之子(阿毗曼尤)说道:英雄啊,不要与他交战。

7.36.11

अभिमन्युश्च तां वाचं कदर्थीकृत्य सारथेः ।
याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ॥ ७.३६.११ ॥

阿毗曼尤则轻视御者的这番话,对他说:前进吧,向德罗纳的军阵,不要迟延。

7.36.12

ततः सन्नोदयामास हयानाशु त्रिहायनान् ।
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ॥ ७.३६.१२ ॥

于是御者心中并不十分欢喜,迅速策动那些装饰着金饰、三岁的骏马。

7.36.13

ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः ।
द्रोणमभ्यद्रवन्राजन्महावेगा महाबलाः ॥ ७.३६.१३ ॥

那些由苏弥陀派往德罗纳军中的马匹,大王,直向德罗纳冲去——速度极快,力量极大。

7.36.14

तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः ।
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ॥ ७.३६.१४ ॥

看见他这样而来,以德罗纳为首的所有俱卢族人都转向他,般度族人也随他前行。

7.36.15

सकर्णिकारप्रवरोच्छ्रितध्वजः ।
सुवर्णवर्माऽऽर्जुनिरर्जुनाद्वरः।
युयुत्सया द्रोणमुखान्महारथान् ।
समासदत्सिंहशिशुर्यथा द्विपान् ॥ ७.३६.१५ ॥

阿周那之子,高扬的旗帜上绘有卡尼迦罗树,身披金甲,甚至胜过阿周那,渴望战斗,走向以德罗纳为首的大车勇士,如同狮子幼崽走向大象。

7.36.16

ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे ।
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधाविव ॥ ७.३६.१६ ॥

他们在二十步的阵形中坚定地展开激烈交锋;片刻之间,那情形如恒河的漩涡,如大海的漩涡。

7.36.17

शूराणां युध्यमानानां निघ्नतामितरेतरम् ।
सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ॥ ७.३६.१७ ॥

英雄们相互搏杀、彼此击打,大王,这场战斗爆发了,喧嚣而极其可怖。

7.36.18

प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे ।
द्रोणस्य मिषतो व्यूहं भित्त्वा व्यचरदार्जुनिः ॥ ७.३६.१८ ॥

在那场极其可怖的战斗进行之时,德罗纳看着,阿周那之子破开阵形,四处冲杀。

7.36.19

तदभेद्यमनाधृष्यं द्रोणानीकं सुदुर्जयम् ।
भित्त्वार्जुनिरसम्भ्रान्तो विवेशाचिन्त्यविक्रमः ॥ ७.३६.१९ ॥

阿周那之子无所畏惧地刺穿了德罗纳那不可攻破、不可侵犯、极难战胜的军阵,以不可思议的勇武闯入其中。

7.36.20

तं प्रविष्टं विनिघ्नन्तं शत्रुसङ्घान्महाबलम् ।
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ॥ ७.३६.२० ॥

他冲入敌群之中并加以杀戮,那位大力者被象、马、车和步兵的大队高举兵器团团围住。

7.36.21

नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः ।
हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निःस्वनैः ॥ ७.३६.२१ ॥

伴着各色乐器的轰鸣,嘶吼、呼喊与咆哮,战吼与狮吼,还有“站住,站住!”的叫喊声。

7.36.22

घोरैर्हलहलाशब्दैर्मागास्तिष्ठैहि मामिति ।
असावहममित्रेति प्रवदन्तो मुहुर्मुहुः ॥ ७.३६.२२ ॥

以可怕的“哈拉哈拉”呼喊声,一次又一次地喊道:“不要逃离我,站住!”“我在这里,敌人!”

7.36.23

बृंहितैः शिञ्जितैर्हासैः करनेमिस्वनैरपि ।
सन्नादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ॥ ७.३६.२३ ॥

以马嘶、弓弦之声、笑声和车轮的轰响震动大地,他们向阿周那之子猛扑过去。

7.36.24

तेषामापततां वीरः शीघ्रयोधी महाबलः ।
क्षिप्रास्त्रो न्यवधीद्राजन्मर्मज्ञो मर्मभेदिभिः ॥ ७.३६.२४ ॥

当他们扑向他时,王啊,那位英雄——善战、大力、武器迅捷、通晓要害之人——以刺入要害的箭矢将他们射杀。

7.36.25

ते हन्यमाना विवशा नानालिङ्गैः शितैः शरैः ।
अभिपेतुः सुबहुशः शलभा इव पावकम् ॥ ७.३६.२५ ॥

他们被各种标记的利箭射中,无力抵抗,多次向他扑去,如同飞蛾扑火。

7.36.26

ततस्तेषां शरीरैश्च शरीरावयवैश्च सः ।
सन्तंस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ॥ ७.३६.२६ ॥

随后,他以他们的身体和肢体迅速覆盖了大地,如同祭祀时用吉祥草铺满祭坛。

7.36.27

बद्धगोधाङ्गुलित्राणान्सशरासनसायकान् ।
सासिचर्माङ्कुशाभीषून्सतोमरपरश्वथान् ॥ ७.३६.२७ ॥

手指上绑着皮制护指的人,持弓箭的,持剑、盾、象钩和缰绳的,持矛和战斧的(战士)。

7.36.28

सगदायोगुडप्रासान्सर्ष्टितोमरपट्टसान् ।
सभिण्डिपालपरिघान्यशक्तिवरकम्पनान् ॥ ७.३६.२८ ॥

持狼牙棒、铁杵、标枪和长矛,持枪、剑、投枪、投石索、铁棒、长矛和精良的颤动兵器的(战士)。

7.36.29

सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् ।
समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ॥ ७.३६.२९ ॥

持刺棒和大螺号,持长矛,持抓发的,持铁锤和投掷器,持绳套、铁杵和石块的(战士)。

7.36.30

सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् ।
स़ञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः ॥ ७.३६.३० ॥

阿周那斩断了你方战士的成千上万条手臂,那些手臂戴着臂钏和腕环,涂着芬芳的香膏。

7.36.31

तैः स्फुरद्भिर्महाराज शुशुभे भूः सुलोहितैः ।
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ॥ ७.३६.३१ ॥

大王啊,那些颤抖的深红色躯体使大地闪耀,如同被迦楼罗斩断的五头蛇。

7.36.32

सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः ।
सन्दष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ॥ ७.३६.३२ ॥

鼻子、面容和发梢俱美,面容无伤,耳环华美,因愤怒而咬紧嘴唇,大量流血。

7.36.33

सचारुमुकुटोष्णीषैर्मणिरत्नविभूषितैः ।
विनालनलिनाकारैर्दिवाकरशशिप्रभैः ॥ ७.३६.३३ ॥

戴着华美的王冠与头巾,饰以宝石珍珠,形如从茎上坠落的莲花,光辉如日月。

7.36.34

हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः ।
द्विषच्छिरोभिः पृथिवीं स वै तस्तार फाल्गुनिः ॥ ७.३६.३४ ॥

那位法尔古尼之子(阿周那)以众多敌人的头颅覆盖了大地,这些头颅散发着功德的芬芳,仿佛在适时地亲切悦耳地言语。

7.36.35

गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।
वीषामुखान्वित्रिवेणून्न्यस्तदण्डकबन्धुरान् ॥ ७.३६.३५ ॥

战车形如乾闼婆城,依法装配,轭首、车轴杆与车辕安放妥当。

7.36.36

विजङ्घाकूबरांस्तत्र विनेमींश्र व्यरानपि ।
विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ॥ ७.३६.३६ ॥

那里的战车侧板与车身破碎,轮箍脱落,辐条尽失,车轮与器械移位,配件尽皆折断。

7.36.37

समास्थितान्योधवरैर्दान्ताश्वान्साधुसारथीन् ।
विपताकाध्वजच्छत्रान्वितूणीरायुधानपि ॥ ७.३६.३७ ॥

他看见驯良的战马,由最优秀的战士骑乘,熟练的御者,旗帜、幡幢与华盖都已折断,箭袋与兵器散落四处。

7.36.38

प्रपातितोपस्तरणान्हतयोधान्सहस्रशः ।
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ॥ ७.३६.३८ ॥

在被扯落的饰物与成千上万被杀的战士之间,他以箭将之斩碎,在各个方向都可见其身影。

7.36.39

पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् ।
तूणान्वर्माण्यथो कक्ष्या ग्रैवेयांश्च सकम्बलान् ॥ ७.३६.३९ ॥

又有大象与象骑者,还有胜幢、象钩与旗帜,箭袋、铠甲、腹带、颈饰及毡毯。

7.36.40

घण्टाः शुण्डाविषाणाग्राञ्छत्रमालाः पदानुगान् ।
शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ॥ ७.३६.४० ॥

铃铛、象鼻、象牙尖、华盖串饰,以及随后的步兵——他以锐利的箭头斩断了敌方的这些。

7.36.41

वनायुजान्पार्वतीयान्काम्भोजानथ बाह्लिकान् ।
स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ॥ ७.३६.४१ ॥

来自婆那由、山地、迦until与巴赫利迦的马匹:尾、耳、目皆稳定,迅捷,善于驮载。

7.36.42

आरूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः ।
विध्वस्तचामरमुखान्विप्रविद्धप्रकीर्णकान् ॥ ७.३६.४२ ॥

由训练有素的战士骑乘,与精通矛、戟、标枪的武士同在,马面上的牦牛尾拂已折断,被抛掷四散。

7.36.43

निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्धनान् ।
हतारोहांश्छिन्नघण्टान्क्रव्यादगणमोदकान् ॥ ७.३६.४३ ॥

舌头与眼睛被挤出,肠子散落,被杀,骑手已亡,铃铛被割断,它们成了食肉群兽的美食。

7.36.44

निकृत्तचर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् ।
निपातयन्नश्ववरांस्तावकान्स व्यरोचत।
एको विष्णुरिवाचिन्त्यं कृत्वा कर्म सुदुष्करम् ॥ ७.३६.४४ ॥

他独自一人如毗湿奴般光彩夺目,斩倒你们的良马,皮革与甲胄被割裂,浸满粪尿和鲜血,完成了难以想象的艰巨功业。

7.36.45

तथा निर्माथितं तेन चतुरङ्गबलं महत् ।
यथाऽसुरबलं घोरं त्र्यम्बकेन महौजसा ॥ ७.३६.४५ ॥

他如此摧毁了庞大的四军,正如大威力的三眼神摧毁了可怖的阿修罗大军。

7.36.46

कृत्वा कर्म रणेऽसह्यं परैरार्जुनिराहवे ।
अभिनच्च पदात्योघांस्त्वदीयानेव सर्वशः ॥ ७.३६.४६ ॥

阿珠那之子在战场上完成了敌人无法忍受的功业,四面八方撕裂了你方的步兵洪流。

7.36.47

एवमेकेन तां सेनां सौभद्रेण सितैः शरैः ।
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ॥ ७.३६.४७ ॥

看到苏跋陀罗之子独自以白箭重创那支军队,犹如塞建陀击溃了阿修罗大军。

7.36.48

त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश ।
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षिणः ॥ ७.३६.४८ ॥

你的部下与儿子们望着四面八方,口干舌燥,双眼颤动,浑身是汗,汗毛倒竖。

7.36.49

पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ।
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ॥ ७.३६.४९ ॥

面对敌人的胜利而丧失斗志,急于逃跑、渴望活命,他们彼此以氏族和名字呼喊哭号。

7.36.50

हतान्पुत्रान्पितॄन्भ्रातॄन्बन्धून्सम्बन्धिनस्तथा ।
प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ॥ ७.३६.५० ॥

抛下被杀的儿子、父亲、兄弟、亲属和姻亲,他们催促马匹和象群,匆忙离去。