Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.37.1

तां प्रभाग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा ।
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥ ७.३७.१ ॥

杜尔约达那见大军被无量威力的苏跋陀罗之子(阿毗曼尤)击溃,大为愤怒,亲自向苏跋陀罗之子冲去。

7.37.2

ततो राजानमावृत्तं सौभद्रं प्रति संयुगे ।
दृष्ट्वा द्रोणोऽब्रवीद्योधान्परीप्सध्वं नराधिपम् ॥ ७.३७.२ ॥

德罗纳见国王返回与苏跋陀罗之子交战,便对战士们说:“保护人主!”

7.37.3

पुराऽभिमन्युर्लक्षं नः पश्यतां हन्ति वीर्यवान् ।
तमाद्रवत माभैष्ट क्षिप्रं रक्षत कौरवम्। ॥ ७.३७.३ ॥

“我们眼看着英勇的阿毗曼尤已杀死了我们十万之众。冲上去攻击他,不要害怕,快去保护俱卢族之主!”

7.37.4

एवमुक्तास्ततस्तेन भारद्वाजेन धीमता ।
कृतज्ञानबलोत्सेधाः सुहृदो जितकाशिनः।
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥ ७.३७.४ ॥

智慧的跋罗堕阇之子(德罗纳)如此说后,那些以自己的学识和力量为傲、自认为必胜的朋友,为了从恐惧中保护您那英勇的儿子,便将他团团围住。

7.37.5

द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः ।
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥ ७.३७.५ ॥

德罗纳、德罗纳之子阿湿婆陀摩、克里帕、迦尔纳、克里达跋摩、苏跋罗之子沙恭尼、大力、摩德罗王(沙利耶)、补利、补利室罗婆和沙罗。

7.37.6

पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् ।
सौभद्रं शरवर्षेण महता समवाकिरन् ॥ ७.३७.६ ॥

补拉婆与跋湿色那也放出锐利的箭矢,以大量箭雨将苏跋陀罗之子完全遮蔽。

7.37.7

सम्मोहयित्वा तमथ दुर्योधनममोचयन् ।
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥ ७.३७.७ ॥

使其迷惑之后,他们便救出了难敌。如同从口中夺走的食物一般,阿周那之子无法忍受。

7.37.8

ताञ्शरौघेण महता साश्वसूतान्महारथान् ।
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥ ७.३७.८ ॥

他以大量箭雨使那些大车战士连同马匹与御者都退却,苏跋陀罗之子随即发出狮子般的吼声。

7.37.9

तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः ।
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥ ७.३७.९ ॥

听到他的吼声,如同寻找肉食的狮子,以德罗纳为首的车兵大怒,再也无法容忍。

7.37.10

त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ॥ ७.३७.१० ॥

主公啊,他们以一排战车将他围成圈栏,并成群地发射了多种标记的箭网。

7.37.11

तान्यन्तरिक्षे चिच्छेद पौत्रस्ते निशितैः शरैः ।
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥ ७.३७.११ ॥

你的孙子在空中以利箭斩断那些箭,又反过来射穿了他们;那情景竟如奇迹一般。

7.37.12

ततो रथपदात्योघाः कुञ्जराः सादिनश्च ह ।
कोपितास्तेन शूरेण शरैराशीविषोपमैः।
परिवब्रुर्जिघांसन्तः सौभद्रमपराजितम् ॥ ७.३७.१२ ॥

于是车兵、步卒、象兵和骑兵的大军,被那英雄如毒蛇般的箭所激怒,欲将之杀死,包围了不可战胜的苏跋陀罗之子。

7.37.13

समुद्रमिव पर्यस्तं त्वदीयं तं बलार्णवम् ।
दधारैकोऽर्जुनिर्बाणैर्वेलेवोद्वृत्तमर्णवम् ॥ ७.३७.१३ ॥

如同海水翻涌溢出,阿周那之子独自以箭矢拦住了你那浩瀚如海的军队,犹如海岸拦住奔涌的大海。

7.37.14

शूराणां युध्यमानानां निघ्नतामितरेतरम् ।
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥ ७.३७.१४ ॥

在那些互相击打、奋战的勇士中,无论是阿毗曼尤一方还是敌方,没有一人转身逃避。

7.37.15

तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे ।
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥ ७.३७.१५ ॥

在那场可怕而惊人的激战正酣之时,杜沙萨以九支箭射穿了阿毗曼尤。

7.37.16

दुःशानो द्वादशभिः कृपः शारद्वतस्त्रिभिः ।
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥ ७.३७.१६ ॥

杜闪娑那以十二支箭射他,沙罗陀婆之子克里巴以三支,德罗纳则以十七支——那些箭如同毒蛇。

7.37.17

विविंशतिस्तु सप्तत्या कृतवर्मा च सप्तभिः ।
बृहद्बलस्तथाऽष्टाभिरश्वत्थामा च सप्तभिः ॥ ७.३७.१७ ॥

毗毗湿陀以七十支箭,克利塔瓦尔曼以七支,大力以八支,马嘶与七支射中了他。

7.37.18

भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षङ्भिराशुगैः ।
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥ ७.३७.१८ ॥

薄利室罗婆斯以三支箭射他,摩德罗之主以六支疾箭,沙恭尼以两支,国王难敌以三支。

7.37.19

स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः ।
नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥ ७.३७.१९ ॥

他以笔直飞行的箭,每人三支地回击他们。大王啊,手持弓箭的这位勇士仿佛在起舞。

7.37.20

ततोऽभिमन्युः सङ्क्रुद्धस्त्रास्यमानस्तवात्मजैः ।
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥ ७.३७.२० ॥

于是阿毗曼尤大怒,被您的儿子们逼迫,开始展示他通过训练获得的极大力量。

7.37.21

गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः ।
अभ्यद्रवत तं कार्ष्णिमश्मकेन्द्रः कृतत्वरः ॥ ७.३७.२१ ॥

他的马匹疾如迦鲁达与风,听从御者之言,阿室迦之主急速冲向那位克利须那之族的儿子。

7.37.22

अश्वाश्चाश्मकमादाय त्वरमाणाऽभ्यहारयन् ।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.३७.२२ ॥

马匹急速载着阿室迦王靠近。阿毗曼尤以十支箭射中他,说道:“站住,站住!”

7.37.23

तस्याभिमन्युर्दशभिर्हयान्सूतं ध्वजं शरैः ।
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥ ७.३७.२३ ॥

阿毗曼尤微笑着,以十支箭将他的马匹、御者、旗幡、双臂、弓与头颅都射落在地。

7.37.24

ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे ।
सञ्चचाल बलं सर्वं पलायनपरायणम् ॥ ७.३७.२४ ॥

那时,阿室迦的英雄之主被苏跋陀罗之子杀死,整个军队动摇,一心想要逃跑。

7.37.25

ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट् शलः ।
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः।
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः ॥ ७.३७.२५ ॥

于是迦尔纳、克里帕、德罗纳、德罗纳之子、犍陀罗王沙罗、沙利耶、布利室罗婆、克拉坦、苏摩达多、毗毗婆提、伐栗舍犀那、苏舍那、军陀跋迪和普罗塔丹那前进。

7.37.26

बृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ।
दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ॥ ७.३७.२६ ॥

布利达拉迦、拉利特婆、普拉巴护、长眼以及愤怒的难敌以箭雨覆盖了他。

7.37.27

सोऽतिविद्धो महेष्वासैरभिमन्युरजिह्मगैः ।
शरमादत्त कर्णाय वर्मकायावभेदिनम् ॥ ७.३७.२७ ॥

被大弓手们笔直飞来的箭深深射中,阿毗曼尤取一支箭射向迦尔纳,要穿透他的甲胄与身体。

7.37.28

तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः ।
प्राविशद्धरणीं वेगाद्वल्मी कमिव पन्नगः ॥ ७.३७.२८ ॥

箭穿透他的甲胄,撕裂他的身体,迅猛地钻入大地,如同毒蛇钻入蚁穴。

7.37.29

स तेनातिप्रहारेण व्यथितो विह्वलन्निव ।
सञ्चचाल रणे कर्णः क्षितिकम्पे यथाऽचलः ॥ ७.३७.२९ ॥

迦尔纳被那猛烈的一击所伤,几乎昏乱,在战场上摇晃,如同山岳在地震中震动。

7.37.30

तथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् ।
कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥ ७.३७.३० ॥

同样,这位愤怒而强大的战士以其他利箭,各用三箭,射杀了苏舍那、长眼和军陀跋迪。

7.37.31

कर्णस्तं पञ्चविंशत्या नाराचानां समार्पयत् ।
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥ ७.३७.३१ ॥

迦尔纳以二十五支铁箭射中他,马嘶那以二十箭,迦哩多跋摩以七箭。

7.37.32

स शराचितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः ।
विचरन्ददृशे सैन्ये पाशहस्त इवान्तकः ॥ ७.३७.३२ ॥

他全身被箭覆盖,愤怒不已,这位因陀罗之子之子在军中往来,看上去如手持绳索的死神。

7.37.33

शल्यं च शरवर्षेण समीपस्थामवाकिरत् ।
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥ ७.३७.३३ ॥

这位大臂者以箭雨覆盖沙利亚及其附近之人,你的军队惊恐地大声呼叫。

7.37.34

ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः ।
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥ ७.३७.३४ ॥

于是,沙利亚被这位武艺高超者那穿透要害、笔直飞来的箭所射中,大王,他坐倒在战车底板上,昏迷过去。

7.37.35

तं हि दृष्ट्वा तथा विद्धं सौभद्रेण यशास्विना ।
सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥ ७.३७.३५ ॥

看到他被光荣的萨乌跋陀罗如此射伤,全军在德罗纳眼前四散奔逃。

7.37.36

सम्प्रेक्ष्य तं महाबाहुं रुक्मपुङ्खैः समावृतम् ।
त्वदीयाः प्रपलायन्ते मृगाः सिंहार्दिता इव ॥ ७.३७.३६ ॥

看到那大臂者被金翎箭覆盖,你的部下如被狮子追逐的鹿一般四散逃窜。

7.37.37

सौभद्रशरनिर्भग्नाः समरेऽमरविक्रमाः ।
एवं शल्यो विमृदितस्तव पौत्रेण भारत ॥ ७.३७.३७ ॥

在战场上被萨乌跋陀罗的箭射得粉碎的、勇武如天神的战士们。如此,婆罗多啊,你的孙子碾碎了沙利耶。

7.37.38

स तु रणयशसाऽभिपूज्यमानः ।
पितृसुरचारणसिद्धयक्षसङ्गैः
अवनितलगतैश्च भूतसङ्घै… ।
रतिविबभौ हुतभुग्यथाऽऽज्यसिक्तः ॥ ७.३७.३८ ॥

他因战场上赢得的荣誉而受到敬礼——受到祖先、诸神、天界乐神、成就者与夜叉的众群,以及大地上众生的群体……——他光辉闪耀,如同洒以酥油的祭火。