摩诃婆罗多 · 章 7.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.4.1
तस्य लालप्यमानस्य कुरुवृद्धः पितामहः ।
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः ॥ ७.४.१ ॥
当他哀叹之时,库鲁族的长者祖父心怀喜悦,说出了合乎地点与时机的话语。
7.4.2
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः ।
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा ॥ ७.४.२ ॥
如江河归于大海,如光明归于太阳,如真理归于善人,如种子归于沃土。
7.4.3
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भवान् ।
बान्धवास्त्वाऽनुजीवन्तु स्वादुवृक्षमिवाण्डजाः ॥ ७.४.३ ॥
如雨云是众生的依托,你也是朋友的依靠。愿亲族依靠你生活,如鸟儿依附结甘果的树木。
7.4.4
मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः ।
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम् ॥ ७.४.४ ॥
愿你成为摧毁敌人荣誉、增进朋友欢乐的人。正如毗湿奴是诸天的依归,愿你成为俱卢族的依归。
7.4.5
स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा ।
कर्ण राजपुरं गत्वा काम्भोजा निर्जितास्त्वया ॥ ७.४.५ ॥
迦尔纳啊!你凭借自己臂膀的力量与勇武,为求持国之子的欢心,前往王城,征服了剑浮人。
7.4.6
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः ।
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया ॥ ७.४.६ ॥
前往灵山的以裸胜为首的诸王,以及安跋室陀人、毗提诃人和犍陀罗人,都被你征服了。
7.4.7
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः ।
दुर्योधनस्य वशगास्त्वया कर्ण पुरा कृताः ॥ ७.४.७ ॥
你曾使居于喜马拉雅不可攀登堡垒中、善战而凶悍的吉罗多人臣服于难敌,迦尔纳啊。
7.4.8
उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे ।
निषादाश्च त्रिगर्ताश्च बाह्लीकाश्च जितास्त्वया ॥ ७.४.८ ॥
乌特卡拉、迈卡拉、波沙罗、羯陵伽与安达罗,以及尼沙陀、三伽多与巴赫利迦,都是你在战场上所征服的。
7.4.9
तत्रतत्र च संग्रामे दुर्योधनहितैषिणा ।
बहवश्च जिताः कर्ण त्वया वीरा महौजसा ॥ ७.४.९ ॥
迦尔纳啊,你一心为难敌谋利,在各处的战斗中战胜了许多威力强大的英雄。
7.4.10
यथा दुर्योधनस्यातः सज्ञातिकुलबान्धवः ।
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव ॥ ७.४.१० ॥
正如难敌从今以后有了亲族、家门与眷属,你也应成为所有俱卢人的依靠。
7.4.11
शिवेशनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः ।
अनुशास्य कुरून्सर्वान्धत्स्व दुर्योधने जयम् ॥ ७.४.११ ॥
我以吉祥的祝福向你致意。去吧,与敌人交战;训示所有俱卢人之后,为难敌赢得胜利。
7.4.12
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा ।
तवापि धर्मतः सर्वे यथा तस्य वयं तथा ॥ ७.४.१२ ॥
你对我们而言如同孙子,正如难敌一样;依法而言,我们所有人属于你,正如属于他。
7.4.13
यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम् ।
सद्भिः सङ्गममिच्छन्ति तस्मात्प्राज्ञाः परैरपि ॥ ७.४.१३ ॥
因姻亲关系而结成的联合在世间最为殊胜;然而善人只愿与善人结合,因此智者即使与外人也愿结合。
7.4.14
स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितः ।
कुरूणां पालय बलं यथा दुर्योधनस्तथा ॥ ७.४.१४ ॥
你要守住誓言,决意此军为你所有,像难敌那样守护俱卢的军队。
7.4.15
यथा च कुरवो युद्धे योधयन्ति स्म पाण्डवान् ।
तथा कर्ण त्वया कार्यं दुर्योधनहितैषिणा ॥ ७.४.१५ ॥
正如俱卢人在战斗中与般度五子作战那样,你,迦尔纳,既然愿难敌得福,也应如此行事。
7.4.16
निशम्य वचनं तस्य चरणावभिवाद्य च ।
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति ॥ ७.४.१६ ॥
迦尔纳听了他的话,向他的足下行礼之后,毗迦尔摩之子迦尔纳迅速奔向战场。
7.4.17
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् ।
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् ॥ ७.४.१७ ॥
他看见人群聚集的那无比广大的场所,便将那军队——武器与胸甲已列成阵势——全部加强。
7.4.18
हृषिताः कुरवः सर्वे दुर्योधनपुरोगमाः ।
उपागतं महाबाहुं सर्वानीकपुरःसरम् ॥ ७.४.१८ ॥
以难敌为首的俱卢人全都欢喜,因为那位大臂者已经到来,统率着所有的军队。
7.4.19
कर्णं दृष्ट्वा महात्मानं युद्धाय समुपस्थितम् ।
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि।
धनुःशब्दैश्च विविधैः कुरवः समपूजयन् ॥ ७.४.१९ ॥
众俱卢见伟大的迦尔纳已准备好投入战斗,便以吼叫、拍臂之声、狮吼以及各种弓弦的嗡鸣向他致以盛大的敬意。