摩诃婆罗多 · 章 7.42
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.42.1
बालमत्यन्तसुखिनं स्वबाहुबलदर्पितम् ।
युद्धेष्वकुशलं वीरं कुलपुत्रं तनुत्यजम् ॥ ७.४२.१ ॥
那位在安乐中极其娇养、以自己臂力为傲、不擅长战斗的少年,那位出身高贵家族的英雄,舍弃了身体。
7.42.2
गाहमानमनीकानि सदश्वैश्च त्रिहायनैः ।
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्बली ॥ ७.४२.२ ॥
那个以良马和三岁马驰入军阵的人,是否有英勇的人从坚战的军队中追赶他?
7.42.3
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ ।
धृष्टद्युम्नो विराटश्च द्रुपदश्च सङ्केकयः ॥ ७.४२.३ ॥
坚战、怖军、奇坎丁、萨谛奇、双生子、猛光、毗罗陀、德鲁帕达,以及甘迦王子。
7.42.4
धृष्टकेतुश्च संरब्धो मात्स्याश्चाभ्यपतन्रणे ।
तेनैव तु पथा यान्तः पितरो मातुलैः सह ॥ ७.४२.४ ॥
愤怒的德里斯塔刻杜和摩差人冲向战场,沿着父辈与舅舅们所走的同一道路。
7.42.5
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः ।
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाऽभवन् ॥ ७.४२.५ ॥
那些以列阵之军打击的战士,想要救护他们而冲了上去;看到那些英雄奔逃,您的部下便转身退却。
7.42.6
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् ।
जामाता तव तेजस्वी संस्तम्भयिषुराद्रवत् ॥ ७.४२.६ ॥
此时,看到您儿子的大军转身退却,您那光辉的女婿想要阻止它,便冲了上去。
7.42.7
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः ।
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ॥ ७.४२.७ ॥
桑耶说:大王,信度国王胜车,因渴望爱子,阻挡了普利塔之子及其军队。
7.42.8
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् ।
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरः ॥ ७.४२.८ ॥
勇猛的弓手、大弓手瓦尔达克沙特利(胜车)发射神圣兵器,将他们逼退,如同大象被从斜坡上推下。
7.42.9
कतिभारमहं मन्ये सैन्धवे सञ्जयाहितम् ।
यदेकः पाण्डवान्क्रुद्धान्पुप्रेप्सूनवारयत् ॥ ७.४२.९ ॥
桑耶啊,我想信度国王承担了多么沉重的负担,他独自阻挡了想要杀他的愤怒的般度之子们。
7.42.10
अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे ।
तस्य प्रब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ॥ ७.४२.१० ॥
我认为信度国王的力量与勇气极为奇妙。请告诉我这位伟大心灵者的威力与最卓越的功业。
7.42.11
किं जप्तं हुतमिष्टं वा किं सुतप्तमथो तपः ।
दमो वा ब्रह्मचर्यं वा सूत यच्चास्य सत्तम ॥ ७.४२.११ ॥
御者啊,善人中最优秀的,他念诵了什么,在火中献了什么,举行了什么祭祀,修了怎样卓越的苦行,或持守了怎样的克己与梵行?
7.42.12
देवं कतममाराध्य विष्णुमीशानमब्जजम् ।
सिन्धुराट् तनये सक्तान्क्रुद्धान्पार्थानवारयत् ॥ ७.४२.१२ ॥
他崇拜了哪位神——毗湿奴、自在天,还是莲花所生的梵天——使信度国王能阻挡那些因他儿子而怒不可遏的普利塔之子?
7.42.13
नैवं कृतं महत्कर्म भीष्मेणाज्ञासिषं तथा ।
सिन्धुराजो हि येनैकः पाण्डवान्समवारयत् ॥ ७.४२.१३ ॥
我听说毗湿摩没有做过如此伟大的事。信度王独自阻挡了般度之子们。
7.42.14
द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः ।
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ॥ ७.४२.१४ ॥
那位在德罗波蒂被劫时败于婆罗门的国王,因自尊心作祟,为求恩赐而修了极为严苛的苦行。
7.42.15
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सः ।
क्षुत्पिपासातकपसहः कृशो धमनिसन्ततः ॥ ७.४२.१५ ॥
他使诸根远离所爱的对象,忍受饥渴与炎热,身形枯瘦,血脉凸现。
7.42.16
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ।
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् ॥ ७.४२.१६ ॥
他崇拜湿婆神,赞颂永恒的梵。慈悲于虔信者的世尊便对他生出了怜悯。
7.42.17
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ।
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ॥ ७.४२.१७ ॥
即便在梦境将尽时,哈罗也对信度之主之子说:「胜车,我已欢喜。请选择一个恩赐,你想要什么?」
7.42.18
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः ।
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ॥ ७.४२.१८ ॥
胜车听罢湿婆之言,向楼陀罗顶礼,合掌,自制其心,说道:
7.42.19
पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान् ।
वारयेयं रथेनैकः समस्तानिति भारत ॥ ७.४२.१९ ॥
婆罗多之子啊,我一人乘车在战场上,便可阻挡所有那些具有可怖威力与勇力的般度之子。
7.42.20
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् ।
ददामि ते वरं सौम्य विना पार्थं धनञ्जयम्।
वारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् ॥ ७.४२.२० ॥
被如此请求后,众神之主对胜车说:“善良的人啊,我赐你一个恩惠:除了阿周那·达南闍耶,你将能在战斗中阻挡般度的四个儿子。”
7.42.21
एकाहमिति राजेन्द्र तत्रैवान्तरधीयत ।
एवमस्त्विति देवेशमुक्त्वाबुद्ध्यत पार्थिवः ॥ ७.४२.२१ ॥
说了“只有我一人”,王中之主啊,他便在那里消失了;国王对众神之主说了“就这样吧”之后,醒了过来。
7.42.22
स तेन वरदानेन दिव्येनास्त्बलेन च ।
एकः संवारयामास पाण्डवानामनीकिनीम् ॥ ७.४२.२२ ॥
凭借那份恩赐和神圣武器的力量,他一人便挡住了般度子孙的军队。
7.42.23
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् ।
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ॥ ७.४२.२३ ॥
听到他弓弦的啪啪声响,刹帝利们心中生出恐惧;而你的军中却升起了极大的喜悦。
7.42.24
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमाहितम् ।
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ॥ ७.४२.२४ ॥
王啊,看到所有重担都托付给了信度王,刹帝利们呼喊着,与诸王一同冲向坚战的军队。