Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.43

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.43.1

यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम् ।
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत् ॥ ७.४३.१ ॥

噢,诸王之主!你问我信度王的勇猛。请听,我将把他如何与般度之子作战的一切都告诉你。

7.43.2

तमूहुर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः ।
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपरंहसः ॥ ७.४३.२ ॥

那辆战车由听话、善于拉车的信度良马拉着;它们高大、奔腾,疾如风。

7.43.3

गन्धर्वनगराकारं विधिवत्कल्पितं रथम् ।
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान् ॥ ७.४३.३ ॥

那辆按照乾闼婆城的形状依法制作的战车,被它的旗帜装点——那是一个巨大的银制野猪徽记。

7.43.4

श्वेतश्चत्रपताकाभिश्चामरव्यजनेन च ।
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे ॥ ७.४३.४ ॥

以白色的王家标志——华盖、旌旗、牦尾拂与扇——装饰,那辆战车在天空中如月亮般光耀。

7.43.5

मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम् ।
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम् ॥ ७.४३.५ ॥

这副铁制的甲罩,以珍珠、金刚石、宝石和黄金装饰,闪耀如同布满星辰的天空。

7.43.6

स विष्फार्य महच्चापं किरन्निषुगणान्बहून ।
तत्कण्डं पूरयामास यदार्जुनिरदारयत् ॥ ७.४३.६ ॥

他拉开大弓,射出无数箭雨,填补了阿周那之子所撕开的那个缺口。

7.43.7

स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम् ।
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः ॥ ७.४३.७ ॥

他以三支箭射伤萨提亚基,以八支射伤怖军,以六十支射伤猛光,以十支射伤毗罗吒。

7.43.8

द्रुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम् ।
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ ७.४३.८ ॥

他以五支利箭射伤德鲁波陀,以七支射伤尸乾底,以二十五支射伤甘迦王子们,以每人三支射伤德罗波蒂之子们。

7.43.9

युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत् ।
इषुजालेन महता तदद्भुतमिवाभवत् ॥ ७.४३.९ ॥

他以七十支射伤坚战,随后以大箭网将其余人逼退;那情景竟如奇迹一般。

7.43.10

अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम् ।
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान् ॥ ७.४३.१० ॥

于是,威猛的法王之子笑着以利箭(婆罗)瞄准,将他的弓射断。

7.43.11

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।
विव्याध दशभिः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः ॥ ७.४३.११ ॥

瞬息之间他又取了另一张弓,以十支箭射中阿周那,以每人三支射伤其余诸人。

7.43.12

तत्तस्य लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिस्त्रिभिः ।
धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत् ॥ ७.४३.१२ ॥

怖军知其敏捷,便以各三支婆罗箭迅速将他的弓、旗与伞盖射落于地。

7.43.13

सोऽन्यदादाय बलवान्सज्जं कृत्वा च कार्मुकम् ।
भीमस्यापातयत्केतुं धनुरश्वांश्च मारिष ॥ ७.४३.१३ ॥

勇士取了另一张弓,将其张开,射倒了婆罗奢的旗帜,也射倒了弓与马,哦尊者。

7.43.14

स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात् ।
सोत्यकेराप्लुतो यानं गिर्यग्रमिव केसरी ॥ ७.४३.१४ ॥

马匹被杀、弓弦被断,他从那辆上好的战车跳下,跃上萨谛奇的战车,如狮子跃上山巅。

7.43.15

ततस्त्वदीयाः संहृष्टाः साधुसाध्विति वादिनः ।
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमद्भुतम् ॥ ७.४३.१५ ॥

那时,你的人欢喜地喊道:“善哉,善哉!”看到信度王那不可置信、奇妙的行为。

7.43.16

सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा ।
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन् ॥ ७.४३.१६ ॥

他一人以兵器的威力阻挡愤怒的般度子孙,他的这一行为,一切众生都赞叹。

7.43.17

सौभद्रेण हतैः पूर्वं सोत्तरायोधिभिर्द्विपैः ।
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः ॥ ७.४३.१७ ॥

先前萨毗陀罗之子与优多罗及勇士们杀死象群,为般度子孙开辟的道路,被信度王阻挡了。

7.43.18

यतमानास्तु ते वीरा मात्स्यपाञ्चालकेकयाः ।
पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम् ॥ ७.४३.१८ ॥

然而那些勇士——摩蹉、般遮罗、伽迦耶及般度子孙——虽然奋力,却无法冲破信度王而前进。

7.43.19

यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः ।
तत्तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत् ॥ ७.४३.१९ ॥

凡是你的敌人中企图冲破德罗纳军阵的人,都被那位已获得恩惠的信度王一一阻挡。