摩诃婆罗多 · 章 7.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.46.1
यथा वदसि मे सूत एकस्य बहुभिः सह ।
सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः ॥ ७.४६.१ ॥
正如你对我所说,御者啊,一人对众人的那场喧嚣而可怖的战斗,以及那位大德者的胜利。
7.46.2
अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् ।
किन्तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः ॥ ७.४६.२ ॥
萨乌跋陀罗的勇武令人难以置信、惊异;但对于以法为依归的人来说,它并不十分奇异。
7.46.3
दुर्योधने च विमुखे राजपुत्रशते हते ।
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः ॥ ७.४६.३ ॥
当难敌背向逃跑、百位王子被杀之时,我的人在萨乌跋陀罗面前采取了何种应对?
7.46.4
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षणाः ।
पालयनकृतोत्साहा निरुत्साहा द्विष़ज्जये ॥ ७.४६.४ ॥
口干舌燥,眼神慌乱,满身冒汗,毛发竖立,只热衷于逃跑,对战胜敌人毫无斗志。
7.46.5
हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान् ।
उत्सृज्योत्सृज्य सञ्जग्मुस्त्वरयन्तो हयद्विपान् ॥ ७.४६.५ ॥
一次又一次地抛弃被杀的兄弟、父亲、儿子、朋友、亲属和族人,他们催促着马匹与象群,匆匆逃去。
7.46.6
तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः ।
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः ॥ ७.४६.६ ॥
见他们如此溃败,德罗纳、大力的德罗尼(马嗣)、克里帕、难敌、迦尔纳、戈多跋摩与萨乌跋罗...
7.46.7
अभ्यधावन्सुसङ्क्रुद्धाः सौभद्रमपराजितम् ।
ते तु पौत्रेण ते राजन्प्रायशो विमुखीकृताः।
सौभद्रेण महाराज शक्रप्रतिमतेजसा ॥ ७.४६.७ ॥
他们极为愤怒地冲向不可战胜的苏跋陀罗之子。大王啊,他们大多被那位孙子击退,大王啊,被光辉堪比因陀罗的苏跋陀罗之子击退。
7.46.8
एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः ।
इष्वस्त्रविन्महातेजा लक्ष्मणोऽर्जुनिमभ्ययात् ॥ ७.४६.८ ॥
唯有那在安逸中长大、因年少和骄傲而无所畏惧、精通箭矢与兵器、大有威光的罗什曼那,独自向阿周那之子前进。
7.46.9
तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत ।
अनुदुर्योधनं चान्ये न्यवर्तन्त महारथाः ॥ ७.४६.९ ॥
他的父亲因挂念儿子而跟随其后,随即折返;随着杜尔约达那之后,其他大车战士也纷纷折返。
7.46.10
तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः ।
स तु तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् ॥ ७.४६.१० ॥
如同云朵用水浇灌山峰,他们用箭矢浇灌他。但他独自将他们摧毁,如同四面八方吹来的风吹散云朵。
7.46.11
पौत्रं तव च दुर्धर्षं लक्ष्मणं प्रियदर्शनम् ।
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् ॥ ७.४६.११ ॥
你的孙子罗什曼那,难以抵挡,令人赏心悦目,英勇地站在父亲身旁,举起了弓。
7.46.12
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् ।
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम्।
सिंहशाबो वने शश्वत्पुण्डरीकशिशुं यथा ॥ ७.४६.१२ ॥
他在极度安逸中长大,如同财神之子,在战场上迎战黑天之子,如同发狂的象遭遇发狂的象;如同林中的狮子幼崽总是扑向洁白如莲的小象。
7.46.13
लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा ।
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पयत् ॥ ७.४६.१३ ॥
苏跋陀罗之子、敌方英雄的杀手与罗什曼那相遇,用极其锋利的箭射穿了他的双臂和胸膛。
7.46.14
सङ्क्रुद्धौ वै महाराज दण्डाहत इवोरगः ।
पौत्रस्तव महाराज तव पौत्रमभाषत ॥ ७.४६.१४ ॥
二人愤怒如被棍棒击中的毒蛇。大王啊,你的孙子对你的孙子说道。
7.46.15
सुदृष्टः क्रियतां लोको ह्यमुं लोकं गमिष्यसि ।
पश्यतां बान्धवानां त्वां नयामि यमसादनम् ॥ ७.४६.१५ ॥
好好看看这个世界吧,你将前往另一个世界。在亲属注视之下,我要把你带到阎摩的居所。
7.46.16
एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा ।
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसन्निभम् ॥ ७.४६.१६ ॥
说完这些,苏跋陀罗之子、大臂的敌方英雄杀手抽出一支如脱缚之蛇的婆罗箭。
7.46.17
स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् ।
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् ॥ ७.४६.१७ ॥
那支从他臂上射出的箭,斩去了罗什曼那的头颅——容貌俊美,鼻梁挺直,眉宇清秀,发际整齐,连同耳环一起。
7.46.18
पौत्रस्तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् ।
पितुः समीपे तिष्ठन्तं प्राहिणोद्यमसादनम् ॥ ७.४६.१८ ॥
而你的孙子,将不可战胜、令人喜爱的罗什曼那,在他站在父亲身旁时,送往阎摩的居所。
7.46.19
अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् ।
लक्ष्मणां निहतं दृष्ट्वा हाहेत्युच्चुक्रुशुर्जनाः ॥ ७.४६.१९ ॥
众人见到在极度安逸中长大、如财神之子般的罗什曼那被杀,纷纷哭喊:"哎呀!哎呀!"
7.46.20
ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते ।
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः ॥ ७.४६.२० ॥
于是,因心爱的儿子被击倒而愤怒的杜尔指那,这位刹帝利中的雄牛,向刹帝利们高喊:"杀了他!"
7.46.21
ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः ।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ ७.४६.२१ ॥
于是德罗纳、克里帕、迦尔纳、德罗纳的大力之子、克利特凡尔曼和希尔迪基亚这六位车战勇士将他包围。
7.46.22
तांस्तु विद्धा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः ।
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् ॥ ७.४६.२२ ॥
阿周那之子怒火中烧,以利箭射中他们并使其败退,迅猛地扑向信度王那庞大的军队。
7.46.23
आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः ।
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान्।
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशाम्पते ॥ ७.४६.२३ ॥
羯陵伽人、尼沙陀人与勇猛的克拉陀之子,以披甲象军阻断了他的道路。诸人之主啊,那里爆发了极为持续的激战。
7.46.24
ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः ।
यथा वायुर्नित्यगतिर्जलदाञ्शतशोऽम्बरे ॥ ७.४६.२४ ॥
于是欢喜的阿周那之子冲散了那支象军,犹如常动不息的风吹散天空中成百上千的云朵。
7.46.25
ततः क्रुद्धाः शरव्रातै राजानः समवारयन् ।
अथेतरे सन्निवृत्ताः पुनर्द्रोणमुखा रथाः।
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः ॥ ७.४६.२५ ॥
于是愤怒的诸王以箭雨阻挡他。随后以德罗纳为首的其他车兵折返,挥舞至上神兵,向苏跋陀罗之子冲去。
7.46.26
तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमयोधयत् ।
शरौघेणाप्रमेयेण त्वरमाणो जिघौसया ॥ ७.४६.२६ ॥
阿周那之子阻挡了他们,以箭与克拉陀之子交战,以无量的箭流急速进攻,意欲杀之。
7.46.27
सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः ।
सच्छत्रध्वजयन्तारं रथं चाश्वान्न्यपातयत् ॥ ७.४६.२७ ॥
他击落了其带弓、箭和臂钏的双臂,带冠的头颅,带伞盖与旗帜的御者,以及战车和马匹。
7.46.28
कुलशीलश्रुतिबलैः कीर्त्या चास्त्रबलेन च ।
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाऽभवन् ॥ ७.४६.२८ ॥
当这位出身、品行、学识、力量、名望与武器之力兼备的英雄被杀后,大多数战士转身逃跑。