Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.47.1

तथा प्रविष्टं तरुणं सौभद्रमपराजितम् ।
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपराजितम् ॥ ७.४७.१ ॥

如此进入的年轻而不败的萨无跋陀罗(阿毗曼尤),行事合乎其家族,在战斗中不败。

7.47.2

आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः ।
प्लवमानमिवाकाशे के शूराः समवारयन् ॥ ७.४७.२ ॥

那些英雄阻挡了他——他驾驭着良种强壮的三岁马,如在空中跳跃一般前行?

7.47.3

अभिमन्युः प्रविश्यैतांस्तावकान्निशितैः शरैः ।
अकरोत्पार्थिवान्सर्वान्विमुखान्पाण्डुनन्दनः ॥ ७.४७.३ ॥

般度之子阿毗曼尤闯入你们的这些人之中,以利箭使所有国王都转身败退。

7.47.4

तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः ।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् ॥ ७.४७.४ ॥

然而,德罗纳、克利帕、迦尔纳、德罗纳之子(马嘶曼)、率大军的克里达瓦尔曼,以及希尔迪基亚,这六位车战勇士包围了他。

7.47.5

दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् ।
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् ॥ ७.४७.५ ॥

大王啊,见到信度王(胜车)身上被加上了过重的责任,你的军队便向坚战冲去。

7.47.6

सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः ।
तालमात्राणि चापानि विकर्षन्तो महाबलाः ॥ ७.४७.६ ॥

其他大力勇士拉开如棕榈树般长的弓,向那位英雄萨无跋陀罗倾泻箭雨。

7.47.7

तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् ।
व्यदृष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा ॥ ७.४७.७ ॥

苏跋陀罗之子,敌方英雄的杀手,在战场上以箭使所有精通诸般武艺的大弓箭手心生恐惧。

7.47.8

द्रोणं पञ्चाशताविध्यद्विंशत्या च बृहद्बलम् ।
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः ॥ ७.४७.८ ॥

他以五十支箭射中德罗纳,以二十支射中大军,以八十支射中坚塔瓦尔曼,以六十支射中克里帕。

7.47.9

रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः ।
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः ॥ ७.४७.९ ॥

阿周那之子以十支迅疾的金羽箭射中了马嘶,箭弦拉至耳边射出。

7.47.10

कर्णं च कर्णिना कर्णे पीतेन च शितेन च ।
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा ॥ ७.४७.१० ॥

在敌人之中,阿周那之子以拉至耳边的倒钩箭,以及黄色锐利的至上箭射中了迦尔纳。

7.47.11

पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी ।
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ ७.४७.११ ॥

击倒克里帕的马匹和他两侧的两名御者之后,他又以十支箭射中了他的胸膛正中。

7.47.12

ततो बृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् ।
पुत्राणां तव वीराणां पश्यतामवधीद्बली ॥ ७.४७.१२ ॥

于是这位强者在你那些英勇之子的注视下,杀死了那位受敬重的英雄,那位增添俱卢族荣耀的人。

7.47.13

तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
वरंवरममित्राणामारुजन्तमभीतवत् ॥ ७.४७.१३ ॥

德罗纳之子以二十五支小箭向他倾泻,那是敌人中最优秀者,他无畏地冲杀。

7.47.14

स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष ।
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः ॥ ७.४७.१४ ॥

然而他迅速以锐利的箭回击,尊贵的人啊,在持国之子们注视下,射向阿湿婆塘摩,那位阿周那之子。

7.47.15

षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः ।
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् ॥ ७.४७.१५ ॥

德罗纳之子以六十支锋利、磨得精良的猛箭射穿了他,但他如摩奈迦山一样纹丝不动。

7.47.16

स तु द्रौणिं त्रिसप्तत्या हेमपुङ्घैरजिह्मगैः ।
प्रत्यविध्यन्महातेजा बलवानपकारिणम् ॥ ७.४७.१६ ॥

而他,光辉伟大、力量强大,以七十三支金羽、直飞的箭回击那作恶的德罗纳之子。

7.47.17

तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् ।
अश्वत्थामा तथाऽष्टौ च परीप्सन्पितरं रणे ॥ ७.४७.१७ ॥

德罗纳渴望保护儿子,向他射出一百支箭;阿湿婆塘摩也想在战场上保护父亲,同样射出了八支。

7.47.18

कर्णो द्वाविंशतिं भल्लान्कृतवर्मा च विंशतिम् ।
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश ॥ ७.४७.१८ ॥

迦尔纳射出二十二支带倒钩的箭,克利塔瓦尔曼二十支,大力五十支,沙罗陀婆多之子克里帕十支。

7.47.19

तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः ।
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः ॥ ७.४७.१९ ॥

他以每人十箭回击了他们所有人;被他们从四面八方射来的利箭所困扰,妙贤之子(如此行事)。

7.47.20

तं कोसलानामधिपः कर्णिनाऽताडयद्धृदि ।
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ ॥ ७.४७.२० ॥

科萨拉之主用一支带倒钩的箭射中了他的胸口;他(阿比曼尤)则把对方的马、旗帜、弓和御者都击倒在地。

7.47.21

अथ कोसलराजस्तु विरथः खङ्ग्रचर्मधृत् ।
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् ॥ ७.४७.२१ ॥

此时科萨拉王失去战车,手持剑与盾,想从法尔古尼之子(阿比曼尤)的身上割下连着耳环的头颅。

7.47.22

स कोसलानामधिपं राजपुत्रं बृहद्बलम् ।
हृदि विव्याध वाणेन स भिन्नहृदयोऽपतत् ॥ ७.४७.२२ ॥

他用箭射穿了科萨拉之主、王子布利哈德巴拉的胸膛;心脏被刺穿,他倒下了。

7.47.23

बभञ्ज च सहस्राणि दश राज्ञां महात्मनाम् ।
सृजतामशिवा वाचः खङ्गकार्मुकधारिणाम् ॥ ७.४७.२३ ॥

他还击溃了一万名高尚的国王,他们口出不祥之言,手持刀剑与弓。

7.47.24

तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे ।
व्यष्टम्भयन्महेष्वासो योधांस्तव शराम्बुभिः ॥ ७.४७.२४ ॥

妙贤之子就这样杀死布利哈德巴拉,在战场上驰骋;这位大弓箭手以箭如雨阻挡你的战士。