Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.50

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.50.1

वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः ।
निवेशायाभ्युपायामः सायाह्ने रुधिरोक्षिताः ॥ ७.५०.१ ॥

我们杀死了他们的首要勇士,被箭所伤、浑身染血,在傍晚时分朝营地返回。

7.50.2

निरीक्षमाणास्तु वयं परे चायोधनं शनैः ।
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ॥ ७.५०.२ ॥

大王啊,我们与敌人一面回望战场,一面缓缓退去,疲惫而心神迷乱。

7.50.3

ततो निशाया दिवसस्य चाशिवः ।
शिवारुतैः सन्धिरवर्तताद्भुतः।
कुशेशयापीडनिभे दिवाकरे ।
विलम्बमानेऽस्तमुपेत्य पर्वतम् ॥ ७.५०.३ ॥

此时,在昼夜交替之际,在豺狼不祥的嚎叫声中,出现了奇异的黄昏;太阳如莲花花环般低垂,走向西方的山峦。

7.50.4

वरासिशक्त्यृष्टिवरूथचर्मणां ।
विभूषणानां च समाक्षिपन्प्रभाः।
दिवं च भूमिं च समानयन्निव ।
प्रियां तनुं भानुरुपैति पावकम् ॥ ७.५०.४ ॥

散射着良剑、长矛、投枪、盾牌、皮甲与饰物的光芒,仿佛连接天地一般,太阳奔向火焰,将它所爱的身体献给了火。

7.50.5

महाभ्रकूटाचलशृङ्गसन्निभै… ।
र्गजैरनेकैरिव वज्रपातितैः।
सवैजयन्त्यङ्कुशवर्मयन्तृभि… ।
र्निपातितैर्नष्टगतिश्चिता क्षितिः ॥ ७.५०.५ ॥

许多大象如同大云山的山峰,仿佛被雷霆击倒,连同旗帜、象钩、甲胄和象夫一起倒在地上,失去动作的大地被它们覆盖。

7.50.6

हतेश्वरैश्चूर्णितचक्रकूबरै… ।
र्हताश्वसूतैर्विपताककेतुभिः।
महारथैर्भूः शुशुभे विचूर्णितैः ।
पुरैरिवामित्रहतैर्नराधिप ॥ ७.५०.६ ॥

人主啊,如同被敌人摧毁的城市,大地被摧毁的大车武士所覆盖而显得闪耀:统帅被杀,车轮与车辕破碎,马匹与御者丧命,旗帜与旌旗倒伏。

7.50.7

रथाश्वबृन्दैः सहसादिभिर्हतैः ।
प्रविद्धभाण्डाभरणैः पृथग्विधैः।
निरस्तजिह्वादशनान्त्रलोचनै… ।
र्धरा बभौ घोरविरूपदर्शना ॥ ७.५०.७ ॥

车马成群、剑士等人皆被杀,器物与各色饰物散落,舌、齿、肠、目被抛出……大地显得可怖而丑陋。

7.50.8

प्रविद्धवर्माभणाम्बरायुधा ।
विपन्नहस्त्यश्वरथानुगा नराः।
महार्हशय्यास्तरणोचितास्तदा ।
क्षितावनाथा इव शेरते हताः ॥ ७.५०.८ ॥

甲胄、饰物、衣袍与兵器抛弃于地,象、马、车及其随从毁灭;那些本应安卧于华贵床褥之人,如今被杀,如无人庇护般躺在地上。

7.50.9

अतीव हृष्टाः श्वशृगालवायसा ।
बकाः सुपर्णाश्च वृकास्तरक्षवः।
वयांस्यसृक्पान्यथ रक्षसां गणाः ।
पिशाचसङ्घाश्च सुदारुणा रणे ॥ ७.५०.९ ॥

狗、豺、乌鸦极为欢喜;鹭鸶、大鹏、狼、豺狗、饮血之鸟,以及罗刹群、极为可怖的毕舍遮群,在战场上皆欢喜。

7.50.10

त्वचो विनिर्भिद्य पिबन्वसामसृक् ।
तथैव मज्जाः पिशितानि चाश्नुवन्।
वपां विलुम्पन्ति हसन्ति गान्ति च ।
प्रकर्षमाणाः कुणपान्यनेकशः ॥ ७.५०.१० ॥

撕开皮肤,饮脂与血,同样吞食骨髓与血肉,扯出内脏,又笑又唱,拖曳着无数尸体。

7.50.11

शरीरसङ्घाटवहा ह्यसृग्जला ।
रथोडुपा कुञ्जरशैलसङ्कटा।
मनुष्यशीर्षोपलमांसकर्दमा ।
प्रविद्धनानाविधशस्त्रमालिनी ॥ ७.५०.११ ॥

载着堆积的尸体,水是血水,战车如船,充满象山,人头为石、血肉为泥,佩戴着各式投掷兵器组成的花环的河流。

7.50.12

भयावहा वैतरणीव दुस्तरा ।
प्रवर्तिता योधवरैस्तदा नदी।
उवाह मध्येन रणाजिरे भृशं ।
भयावहा दीनमृतप्रवाहिनी ॥ ७.५०.१२ ॥

如同吠多罗尼河般可怖难渡,那时由众多上等勇士所导引的河流,在战场中央汹涌奔流,令人恐惧,载着凄惨的死者。

7.50.13

पिबन्ति च स्नान्ति च यत्र दुर्दृशाः ।
पिशाचसङ्घास्तु नदन्ति भैरवाः।
सुनन्दिताः प्रणभृतां क्षयंकराः ।
समानभक्षाः श्वसृगालपक्षिणः ॥ ७.५०.१३ ॥

那里,面目可怖的毕舍遮群饮水沐浴,恐怖地呼啸;他们是众生的毁灭者,极度欢喜,与狗、豺和鸟共享同一食物。

7.50.14

तथा तदायोधनमुग्रदर्शनं ।
निशामुखे पितृपतिराष्ट्रवर्धनम्।
निरीक्षमाणः शनकैर्जहुर्नराः ।
समुत्थिता नृत्तकबन्धसङ्कुलम् ॥ ७.५०.१४ ॥

那战场如此可怖,入夜时增益阎摩之国;人们缓缓地看着它离去,那里满是站立起来、舞动的无头躯干。

7.50.15

अपेतविध्वस्तमहार्हभूषणं ।
निपातितं शक्रसमं महाबलम्।
रणेऽभिमन्युं ददृशुस्तदा जना ।
व्यपोढहव्यं सदसीव पावकम् ॥ ७.५०.१५ ॥

珍贵的饰物脱落散乱,与因陀罗相等的大力阿毗摩奴在战场中倒下,那时人们看见了他,如同集会中被取走供品的火。