摩诃婆罗多 · 章 7.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.51.1
हते तस्मिन्महावीर्ये सौभद्रे रथयूथपे ।
विमुक्तरथसन्नाहाः सर्वे निक्षिप्तकार्मुकाः ॥ ७.५१.१ ॥
当那位大勇的苏跋陀罗之子、车群之主被杀后,众人卸下战车的甲胄,放下了弓。
7.51.2
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् ।
तदेव युद्धं ध्यायन्तः सौभद्रगतमानसाः ॥ ७.५१.२ ॥
他们围坐在国王坚战身边,心念都系在苏跋陀罗之子身上,不断思念那场战斗。
7.51.3
ततो युधिष्ठिरो राजा विललाप सुदुःखितः ।
ततो युधिष्ठिरो राजा विललाप सुदुःखितः। ॥ ७.५१.३ ॥
于是极为悲痛的国王坚战哀叹起来。于是极为悲痛的国王坚战哀叹起来。
7.51.4
अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ।
एनं जित्वा कृपं शल्यं राजानं च सुयोधनम्।
द्रोँणं द्रौणिं महेष्वासं तथैवान्यान्महारथान् ॥ ७.५१.४ ॥
英雄阿毗曼尤——我们兄弟之子、大车将——被杀之后,我们要战胜慈悲、沙利耶、国王苏约达那、德罗纳、大弓手德罗纳之子,以及其他大车将……
7.51.5
द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया ।
हत्वा शत्रुगणान्वीरानेष शेते महारथः ॥ ७.५१.५ ॥
这位大车将为了让我欢喜,毫无阻碍地冲破德罗纳的军队,杀尽敌人的勇士部众,如今长眠于此。
7.51.6
कृतास्त्रयु द्धकुशलान्महेष्वासान्महाबलान् ।
कुलशः पूणैर्युक्ताञ्छूरान्विख्यातपौरुषान् ॥ ७.५१.६ ॥
精通兵器、善战的大弓手与大力者,各族成群、连同完整的军队,那些以勇名著称的英雄……
7.51.7
द्रोणेन र्प्राहेतं व्यूहमभेद्यममरैरपि ।
अदृष्टपूर्वमस्माभिः पद्मं चक्रायुधप्रियः ॥ ७.५१.७ ॥
德罗纳所布的阵形,连天神也无法穿透,是我们从未见过的莲花阵——持轮者的爱子(阿周那)所破。
7.51.8
भित्त्वा मध्यं प्रविष्टोऽसौ गोमध्यमिव केसरी ।
विक्रीडितं रणे तेन निघ्नता वै परान्वरान् ॥ ७.५१.८ ॥
他刺穿中央,如狮子闯入牛群;在战场上杀戮敌方的精锐,仿佛嬉戏一般。
7.51.9
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे ।
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥ ७.५१.९ ॥
其英勇的大弓手们,精通武艺、沉醉于战斗,冲向敌阵,却在战中溃败而返。
7.51.10
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः ।
क्षिप्रं ह्यभिमुखः सङ्ख्ये विसंज्ञो विमुखीकृतः ॥ ७.५१.१० ॥
他以箭矢使我们的死敌难敌弟难降在战场上一照面便昏厥,被迫转身败退。
7.51.11
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् ।
प्राप्य दौःशासनिं कार्ष्णिः प्राप्तो वैवस्वतक्षयम् ॥ ७.५१.११ ॥
那位英雄渡过德罗纳军这难以逾越的大海,遇上难敌之子,便去了阎摩的居所——那位黑天之子。
7.51.12
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् ।
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ॥ ७.५१.१२ ॥
当阿布满的儿子被杀后,我怎能再见俱卢族的阿周那?又怎能再见那失去爱子、福德深厚的妙贤(苏跋陀罗)?
7.51.13
हतवत्सां यथा धेनुं तद्दृर्शनकृतोन्मुखीम् ।
किंस्विद्वक्ष्याम्यपेतार्थमक्लिष्टमसमञ्जसम्।
तावुभौ प्रतिवक्ष्यामि हृषीकेशधनञ्जयौ ॥ ७.५१.१३ ॥
如同失去小牛的母牛渴望见到它,我怎能说出无意义、混乱不通的话?那二人,希利凯莎与达南闍耶,我将作答。
7.51.14
अहमेव सुभद्रायाः केशवार्जुनयोरपि ।
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ॥ ७.५१.१४ ॥
正是我,为了善待苏跋陀罗、克沙瓦与阿周那,渴望胜利,才做了这件不快之事。
7.51.15
न लुब्धो बुध्यते दोषाँल्लोभान्मोहात्प्रवर्तते ।
मधुलिप्सुर्हि नापश्यं प्रपातमहमीदृशम् ॥ ७.५१.१५ ॥
贪婪者不察过失;因贪与迷惑而行事。我贪求蜂蜜,却未见如此的堕落。
7.51.16
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च ।
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ॥ ७.५१.१६ ॥
在饮食、车乘、卧具与饰物上,我们本应首先尊重的人,那少年却在战场上被我们推到了前面。
7.51.17
कथं हि बालस्तरुणो युद्धानामविशारदः ।
सदश्व इव सम्बाधे विषमे क्षेममर्हति ॥ ७.५१.१७ ॥
一个年少而不熟悉战斗的少年,怎能在狭窄险恶之地,像良马一样求得安全呢?
7.51.18
नो चेद्धि वयमप्येनं महीमनुशयीमहि ।
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ॥ ७.५१.१८ ॥
否则我们也会与他一同倒卧于地,被愤怒燃烧的毗跋特苏(阿周那)那可怜的目光所焚烧。
7.51.19
अलुब्धो मितमान्हीमान्क्षमावान्रूपवान्बली ।
वपुष्मान्मानकृद्वीरः प्रियः सत्यपराक्रमः ॥ ७.५१.१९ ॥
他不贪婪,有节制,知羞耻,能忍耐,容貌俊美,强健有力,身材匀称,能给人尊荣,是英雄,人所喜爱,且具有真正的勇武。
7.51.20
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः ।
निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ॥ ७.५१.२० ॥
诸神赞颂那行事强大者的功业;那位勇武者杀死了尼婆多迦婆查与迦罗刻亚。
7.51.21
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः ।
अक्ष्णोर्निमेषमात्रेण पौलोभाः सगणा हताः ॥ ७.५१.२१ ॥
那些因陀罗的敌人、金城的居民,即补罗摩及其部众,被他在眨眼之间尽数杀死。
7.51.22
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः ।
तस्यास्माभिर्न शकितस्त्रातुमप्यात्मजो बली ॥ ७.५१.२२ ॥
那位强大的主宰,即使对寻求庇护以抵御敌人的人也施予庇护;我们甚至未能保护他那位强大的儿子。
7.51.23
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रान्महाबलान् ।
पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ॥ ७.५१.२३ ॥
极大的恐惧已降临到强大的持国之子身上;因儿子被杀而愤怒的阿周那,将使俱卢族走向枯萎。
7.51.24
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयकारकः ।
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितं ॥ ७.५१.२४ ॥
杜尔奥达那卑劣,身边皆是卑劣之徒,是自己一方毁灭的根源;他清楚地看到这一切,将悲叹并舍弃性命。
7.51.25
न मे जयः प्रीतिकरो न राज्यं ।
न चामरत्वं न सुरैः सलोकता।
इमं समीक्ष्याप्रतिवीर्यपौरुषं ।
निपातितं देववरात्मजात्मजम् ॥ ७.५१.२५ ॥
胜利不能使我欢喜,王国也不能,永生也不能,与诸神同居天界也不能。看到这位勇力与男儿气概无与伦比、乃天神之长之女的儿子被击倒,(这一切都不能使我快乐)。