Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.54

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.54.1

विनीय दुःकमबला आत्मन्येव प्रजापतिम् ।
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता पुनः ॥ ७.५४.१ ॥

这软弱的女子将悲痛压在心中,合掌向生主再次开口,身体弯曲如藤蔓。

7.54.2

त्वया सृष्टा कथं नारी ईदृशी वदतां वर ।
क्रूरं कर्माहितं कुर्यां मूढेव परिजानती ॥ ७.५४.२ ॥

言者中最优秀者啊,您怎会创造出我这样的女子?明明知道,我难道要像愚人一样做残忍有害之事吗?

7.54.3

बिभेम्यहमधर्माद्धि प्रसीद भगवन्प्रभो ।
प्रियान्पुत्रान्वयस्यांश्च भातृन्मातॄः पितॄन्पतीन् ॥ ७.५४.३ ॥

我畏惧不法。尊贵的主啊,主啊,请您息怒。我畏惧的是我所爱的儿子、伙伴、兄弟、母亲、父亲和丈夫。

7.54.4

अपध्यास्यन्ति ये देव मृतांस्तेभ्यो बिभेम्यहम् ।
कृपणानां हि रुदतां ये पतन्त्यश्रुबिन्दवः ॥ ७.५४.४ ॥

天神啊,我畏惧那些诅咒死者的人;我也畏惧可怜人哭泣时滴落的泪珠。

7.54.5

तेभ्योऽहं भगवन्भीता शरणं त्वाऽहमागता ।
यमस्य भवनं देव गच्छेयं न सुरोत्तम ॥ ७.५४.५ ॥

因畏惧他们,尊贵的主啊,我前来投奔您求庇护。天神、诸神中最优秀者啊,愿我不要前往阎摩的住所。

7.54.6

कायेन विनयोपेता मूर्ध्नोदग्रनखेन च ।
एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह ॥ ७.५४.६ ॥

以谦恭之身,低头礼拜,指甲高举,我正是向您祈求此事,世界的祖父啊。

7.54.7

इच्छेयं त्वत्प्रसादाद्धि तपस्तप्तुं प्रजेश्वर ।
प्रदिशेमं वरं देव त्वं मह्यं भगवन्प्रभो ॥ ७.५४.७ ॥

蒙您恩典,万物之主,我愿修苦行。神啊,世尊,主啊,请赐我此恩惠。

7.54.8

त्वया ह्युक्ता गमिष्यामि धेनुकाश्रममुत्तमम् ।
तत्र तप्स्ये तपस्तीत्रं तवैवाराधने रता ॥ ७.५४.८ ॥

依您所言,我将前往殊胜的牛角仙人净修处,在那里专心敬奉您,修持严厉的苦行。

7.54.9

न हि शक्ष्यामि देवेश प्राणान्प्राणभृतां प्रियान् ।
हर्तुं विलपमानानामधर्मादभिरक्ष माम् ॥ ७.५४.९ ॥

天神之主啊,我不能夺走悲泣众生珍爱的生命。请保护我,使我不陷于非法。

7.54.10

मृत्यो सङ्कल्पिताऽसि त्वं प्रजासंहारहेतुना ।
गच्छ संहर सर्वास्त्वं प्रजा मा ते विचारणा ॥ ७.५४.१० ॥

死神啊,你正是为毁灭众生而被创造的。去吧,毁灭一切众生;你不必犹豫。

7.54.11

भविता त्वेतदेवं हि नैतज्जात्वन्यथा भवेत् ।
भव त्वनिन्दिता लोके कुरुष्व वचनं मम ॥ ७.५४.११ ॥

事情会如此;此事绝不会有别样。你在世间将无可非议。请遵从我的话。

7.54.12

एवमुक्ता भगवता प्राञ्जलिश्चाप्यवाङ्मुखी ।
संहारे नाकरोद्बुद्धिं प्रजानां हितकाम्यया ॥ ७.५४.१२ ॥

世尊如此说后,她合掌低头而立;出于利益众生的心愿,她没有将心思放在毁灭之上。

7.54.13

तूष्णीमासीत्तदा देवः प्रजानामीश्वरेश्वरः ।
प्रसादं चागमत्क्षिप्रमात्मनैव प्रजापतिः ॥ ७.५४.१३ ॥

那时,众生之主中的主神沉默不语;造物主自己很快便转为慈悲。

7.54.14

स्मयमानश्च देवेशो लोकान्सर्वानवेक्ष्य च ।
लोकास्त्वासन्यथापूर्वं दृष्टास्तेनापमन्युना ॥ ७.५४.१४ ॥

众神之主微笑着环视一切世界;那些世界便如从前一样,正如阿波曼尤所见。

7.54.15

निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते ।
सा कन्याऽपि जगामाऽथ समीपात्तस्य धीमतः ॥ ७.५४.१५ ॥

当那位世尊、不可战胜者的怒气平息后,那位少女也离开了那位智者的身边。

7.54.16

अपमृत्याप्रतिश्रुत्य प्रजासंहरणं तदा ।
त्वरमाणा च राजेन्द्र मृत्युर्धेनुकमभ्यगात् ॥ ७.५४.१६ ॥

王中之王啊!那时,非时死应允了毁灭众生,而死神急速前往了达努卡那里。

7.54.17

सा तत्र परमं तीव्रं चचार व्रतमुत्तमम् ।
सा तद ह्येकपादेन तस्थौ पद्मानि षोडश ॥ ७.५४.१७ ॥

她在那里修持至高、严苛、殊胜的誓愿;单足站立于十六朵莲花之上。

7.54.18

पञ्च चाब्दानि कारुण्यात्प्रजानां तु हितैषिणी ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सा ॥ ७.५४.१८ ॥

出于慈悲,为众生谋福,她五年间收摄诸根,远离心爱之境。

7.54.19

ततस्त्वेकेन पादेन पुनरन्यानि सप्त वै ।
तस्थौ पद्मानि षट् चैव सप्त चैकं च पार्थिवा ॥ ७.५४.१९ ॥

然后她单脚站立,接着站在另外七朵、六朵、七朵和一朵莲花上,啊,国王。

7.54.20

ततः पद्मायुतं तात मृगैः सह चचार सा ।
पुनर्गत्वा ततो नन्दां पुण्यां शीतामलोदकाम् ॥ ७.५४.२० ॥

然后,亲爱的,她与鹿在一万朵莲花之间游荡;之后她又回到神圣的难陀河,那里的水清凉明澈。

7.54.21

अप्सु वर्षसहस्राणि सप्त चैकं च साऽनयत् ।
धारयित्वा तु नियमं नन्दायां वीतकल्मषा ॥ ७.५४.२१ ॥

她在水中度过了七千零一年;在难陀河中持守誓愿,无所玷污。

7.54.22

सा पूर्वं कौशिकीं पुण्यां जगाम नियमैधिता ।
तत्र वायुजलाहारा चचार नियमं पुनः ॥ ७.५४.२२ ॥

她因誓愿而坚定,先前往神圣的考希基河;在那里以风和水为食,再次持守誓愿。

7.54.23

सप्तगङ्गासु सा पुण्या कन्या वेतसकेषु च ।
तपोविशेषैर्बहुभिः कर्षयद्देहमात्मनः ॥ ७.५४.२३ ॥

在七条恒河与芦苇丛中,那位神圣的少女以诸般特殊苦行消耗着自己的身体。

7.54.24

ततो गत्वा तु सा गङ्गां महामेरुं च केवलम् ।
तस्थौ चाश्मेव निश्चेष्टा प्राणायामपरायणा ॥ ७.५४.२४ ॥

之后她来到恒河与大须弥山,独自静立如石,专注于调息。

7.54.25

पुनर्हिमवतो मूर्ध्नि यत्र देवाः पुराऽयजन् ।
तत्राङ्गुष्ठेन सा तस्थौ निखर्वंल परमा शुभा ॥ ७.५४.२५ ॥

她又来到喜马拉雅之巅,昔日诸神曾在此祭祀,她以一个大脚趾站立了一尼卡尔瓦之久,极为吉祥。

7.54.26

पुष्करेष्वथ गोकर्णे नैमिषे मलये तथा ।
अकर्शयत्स्वकं देहं नियमैर्मानसप्रियैः ॥ ७.५४.२६ ॥

此后,在普什卡拉、戈迦尔纳、奈米沙以及马拉耶,她以合乎心意的戒律使自己的身体消瘦。

7.54.27

अनन्यदेवता नित्यं दृढभक्ता पितामहे ।
तस्थौ पितामहं चैव तोषयामास धर्मतः ॥ ७.५४.२७ ॥

她不奉其他神祇,始终坚定地虔信祖父梵天,站立不动,依法使祖父欢喜。

7.54.28

ततस्तामब्रवीत्प्रीतो लोकानां प्रभवोऽव्ययः ।
सौम्येन मनसा राजन्प्रीतः प्रीतमनास्तदा ॥ ७.५४.२८ ॥

于是,世界的本源、不灭者欣然对她说道;王啊,此时他以温和而欢喜的心意而感到喜悦。

7.54.29

मृत्यो किमिदमत्यन्तं तपांसि चरसीति ह ।
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् ॥ ७.५४.२९ ॥

“死亡啊,你为何如此过度地苦修?”于是死亡又对尊贵的祖父说道。

7.54.30

नाऽहं हन्यां प्रजा देव स्वस्थाश्चाक्रोशतीस्तथा ।
एतदिच्छामि सर्वेश त्वत्तो वरमहं प्रभो ॥ ७.५४.३० ॥

“神啊,愿我不杀健康的众生,也不杀哀哭的众生;这是我所愿,主宰一切的主啊,请从您那里赐我此恩典。”

7.54.31

अधर्मभयभीताऽस्मि ततोऽहं तप आस्थिता ।
भीतायास्तु महाभाग प्रयच्छाभयमव्यय ॥ ७.५४.३१ ॥

我因惧怕非法而心生恐惧,故修习苦行。大福德者啊,请赐予恐惧者以无畏,不朽者啊。

7.54.32

आर्ता चानागसी नारी याचामि भव मे गतिः ।
तामब्रवीत्ततो देवो भूतभव्यभविष्यवित् ॥ ७.५४.३२ ॥

我是一个受苦且无辜的女子,恳请您做我的依靠。于是,通晓过去、现在与未来的神对她说道:

7.54.33

अधर्मो नास्ति ते मृत्यो संहरन्त्या इमाः प्रजाः ।
मया चोक्तं मृषा भद्रे भविता न कथञ्चन ॥ ७.५४.३३ ॥

死神啊,你毁灭这些众生,并无非法。善良的女子啊,我所说的话绝不会是虚假的。

7.54.34

तस्मात्संहर कल्याणि प्रजाः सर्वाश्चतुर्विधाः ।
धर्मः सनातनश्च त्वां सर्वथा पावयिष्यति ॥ ७.५४.३४ ॥

因此,吉祥的女子啊,请毁灭四类一切众生;永恒的法将使你完全清净。

7.54.35

लोकपालो यमश्चैव सहाया व्याधयश्च ते ।
अहं च विबुधाश्चैव पुनर्दास्याम ते वरम् ॥ ७.५४.३५ ॥

世界守护者阎摩,你的助手诸病,我以及诸神,我们将再次赐予你恩惠。

7.54.36

यथा त्वमेनसा मुक्ता विरजाः ख्यातिमेष्यसि ।
सैवमुक्ता महाराज कृताञ्जलिरिदं विभुम्। ॥ ७.५४.३६ ॥

你将从罪过中解脱,纯净无垢,获得声名。大王啊,她听了这话,双手合十,对那位主宰说道:

7.54.37

पुनरेवाब्रवीद्वाक्यं प्रसाद्य शिरसा तदा ।
यद्येवमेतत्कर्तव्यं धर्मतो नास्त्यतो भयम् ॥ ७.५४.३७ ॥

于是他低首恳请,再次说道:若必须如此,则依法而言,此事并无可惧。

7.54.38

तवाज्ञा मूर्ध्नि मे न्यस्ता यत्ते वक्ष्यामि तच्छृणु ।
लोभः क्रोधोऽभ्यसूयेर्ष्या द्रोहो मोहश्च देहिनां ॥ ७.५४.३८ ॥

我已将您的命令置于头上;请听我要说的:在有身之众生中,会生起贪、嗔、妒、嫉、恶意与痴。

7.54.39

अहूश्चान्योन्यपरुषा देहं भिन्द्युः पृथिग्वधाः ।
तथा भविष्यते मृत्यो साधु संहर भोः प्रजाः।
अधर्मस्ते न भविता नापध्यास्याम्यहं शुभे ॥ ७.५४.३९ ॥

他们将彼此残酷,以种种不同的杀戮割裂身体;死神啊,事情就会这样。众生啊,好好地毁灭吧。善良的女子,你不会有不法;我不会诅咒你。

7.54.40

यान्यश्रुबिन्दूनि करे ममासं… ।
स्ते व्याधयः प्राणिनामात्मजाताः।
ते मारयिष्यन्ति नरान्गतासू… ।
न्नाधर्मस्ते भविता मा स्म भैषीः ॥ ७.५४.४० ॥

我手中的那些泪滴……那些由有情众生所生的疾病,将杀死气息已离的人……你不会有不法;不要害怕。

7.54.41

नाधर्मस्ते भविता प्राणिनां वै ।
त्वं वै धर्मस्त्वं हि धर्मस्य चेशा।
धर्म्या भूत्वा धर्मनित्या धरित्री ।
तस्मात्प्राणान्सर्वथेमान्नियच्छ ॥ ७.५४.४१ ॥

对于众生,你不会有不法。你本身就是法,也是法的主宰。成为有法之人,做一位永远坚守于法的大地;因此,要以一切方式约束这些生命。

7.54.42

मिथ्यावृत्तं मारयिष्यत्यधर्मः ॥ ७.५४.४२ ॥

非法(阿达尔摩)将毁灭那些生活在虚妄中的人。

7.54.43

तेनात्मानं पावयस्वात्मना त्वं ।
पापेऽऽत्मानं मज्जयिष्यन्त्यसत्यात्।
तस्मात्कामं रोषमप्यागतं त्वं ।
सन्त्यज्यान्तः संहरस्वेति जीवान् ॥ ७.५४.४३ ॥

因此,你要凭借自身净化自己;在罪恶与虚妄中,它们会使你的自我沉沦。所以,彻底舍弃内心生起的欲望与愤怒,在内心收摄众生。

7.54.44

सा वै भीमा मृत्युसंज्ञोपदेशा… ।
च्छापाद्भीता बाढमित्यब्रवीत्तम्।
सा च प्राणं प्राणिनामन्तकाले ।
कामक्रोधौ त्यज्य हरत्यसक्ता ॥ ७.५४.४४ ॥

那可怕的死亡——名为死亡的教导……——因诅咒而惊恐,她对他说:“很好。”她在众生的临终之时夺取其气息,舍弃欲望与愤怒,无所执著。

7.54.45

मृत्युस्त्वेषां व्याधयस्तत्प्रसूता ।
व्याधी रोगो रुज्यते येन जन्तुः।
सर्वेषां च प्राणिनां प्रायणान्ते ।
तस्माच्छोकं माकृथा निष्फलं त्वम् ॥ ७.५४.४५ ॥

死亡本身是这些疾病的根源;疾病由此而生。众生因病与苦而受折磨。在一切众生行程的终点,死亡降临。因此不要徒然悲伤。

7.54.46

सर्वे देवाः प्राणिभिः प्रायणान्ते ।
गत्वा वृत्ताः सन्निवृत्तास्तथैव।
एवं सर्वे प्राणिनस्तत्र गत्वा ।
वृत्ता देवा मर्त्यवद्राजसिंह ॥ ७.५४.४६ ॥

一切天神与众生,在行程终了时,去到那里,也同样返回。如此,一切众生去到那里,又返回。王中之狮啊,天神也像凡人一样如此返回。

7.54.47

वायुर्भीमो भीमनादो महौजा ।
भेत्ता देहान्प्राणिनां सर्वगोऽसौ।
नो वा वृत्तिं कदाचि… ।
त्प्राप्नोत्युग्रोऽनन्ततेजोविशिष्टः ॥ ७.५४.४७ ॥

风神可怖,声如惊雷,大力无比。他摧破众生的身躯,无所不至。他从不……(原文缺失)……猛烈,具有无边的威光。

7.54.48

सर्वे देवा मर्त्यसंज्ञाविशिष्टा… ।
स्तस्मात्पुत्रं माशुचो राजसिंह।
स्वर्गं प्राप्तो मोदते ते तनूजो ।
नित्यं रम्यान्वीरलोकानवाप्य ॥ ७.५४.४८ ॥

诸天神皆以凡人之名而显异……(原文缺失)……因此,王中之狮,不要为儿子悲伤。你的儿子已升入天界,欢喜不已,永远获得了可爱的英雄之界。

7.54.49

त्यक्त्वा दुःखं सङ्गतः पुण्यकृद्भि… ।
रेषा मृत्युर्देवदिष्टा प्रजानाम्।
प्राप्ते काले संहरन्ती यथाव… ।
त्स्वयं कृता प्राणहरा प्रजानाम् ॥ ७.५४.४९ ॥

舍弃悲伤,与行善之人相聚……(原文缺失)……此死亡为诸神为众生所定。时候到来时,如其带走……(原文缺失)……这夺取众生性命者,乃自然而生。

7.54.50

पुत्रान्नष्टाच्छोकमाशु त्यजस्व ॥ ७.५४.५० ॥

对失去的儿子,应当迅速舍弃悲伤。

7.54.51

एतच्छ्रुत्वार्थवद्वाक्यं नारदेन प्रकाशितम् ।
उवाचाकम्पनो राजा सखायं नारदं तथा ॥ ७.५४.५१ ॥

阿嘎姆帕那王听了那纳罗陀所说的这些有意义的话,便对他的朋友纳罗陀这样说道。

7.54.52

व्यपेतशोकः प्रीतोऽस्मि भगवन्नृषिसत्तम ।
श्रुत्वेतिहासं त्वत्तस्तु कृतार्थोऽस्म्यभिवादये ॥ ७.५४.५२ ॥

尊贵的大师,诸仙中最优秀者,我的悲伤已经消散,我心欢喜。听闻您讲述这古老的历史,我已心愿圆满;向您致敬。

7.54.53

तथोक्तो नारदस्तेन राज्ञा देवर्षिसत्तमः ।
जगाम नन्दनं शीघ्रमशोकवनमात्मनः ॥ ७.५४.५३ ॥

国王如此相告之后,诸天仙中最优秀的那罗陀迅速前往难陀那园,回到自己的阿输迦林。

7.54.54

पुण्यं यशस्यं स्वर्ग्यं च धन्यमायुष्यमेव च ।
अस्येतिहासस्य सदा श्रवणं श्रावणं तथा ॥ ७.५४.५४ ॥

聆听此传说,并使人听闻,总是带来功德、名声、天界、吉祥与长寿。

7.54.55

एतदर्थपदं श्रुत्वा तदा राजा युधिष्ठिर ।
क्षत्रधर्मं च विज्ञाय शूराणां च परां गतिम्।
सम्प्राप्तोऽसौ महावीर्यः स्वर्गलोकं महारथः ॥ ७.५४.५५ ॥

国王坚战听了这些有深意的话语,于是明白了刹帝利之法与英雄的至高归宿;那位大勇猛的大车战士便得以升入天界。

7.54.56

अभिमन्युः परान्हत्वा प्रमुखे सर्वधन्विनाम् ।
युध्यमानो महेष्वासो हतः सोऽभिमुखो रणे ॥ ७.५४.५६ ॥

阿毗曼纽在所有弓箭手之前杀死众敌,这位大弓箭手在战斗中,面向敌人,力战而亡。

7.54.57

असिना गदया शक्त्या धनुषा च महारथः ।
विरजाः सोमसूनुः स पुनस्तत्र प्रलीयते ॥ ७.५४.५७ ॥

那位手持剑、杵、枪与弓的大车战士,无垢的月神之子,又在那里隐没。

7.54.58

तस्मात्परां धृतिं कृत्वा भ्रातृभिः सह पाण्डव ।
अप्रमत्तः सुसन्नद्धः शीघ्रं योद्धुमुपाक्रम ॥ ७.५४.५८ ॥

因此,般度之子啊,应当保持至高的坚定,与兄弟们一同警觉、披甲整备,迅速投入战斗。