摩诃婆罗多 · 章 7.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.57.1
अङ्गं च पौरवं वीरं मृतं सृञ्जय शुश्रुम ।
सहस्रं यः सहस्राणां श्वेतानश्वानवासृजत् ॥ ७.५७.१ ॥
萨陵阁耶啊,我们听说英雄普卢之裔盎伽已经死去,他曾布施了成千上万匹白马。
7.57.2
तस्याश्वमेधे राजर्षेर्देशाद्देशात्समीयुषाम् ।
शिक्षाक्षरविधिज्ञानां नासीत्सङ्ख्या विपश्चिताम् ॥ ७.५७.२ ॥
在那位王仙的马祭中,从各国聚来的通晓音韵与字母规则的学者数不胜数。
7.57.3
वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः ।
सुभिक्षाच्छादनगृहाः सुशय्यासनभोजनाः ॥ ७.५७.३ ॥
浸沐于吠陀学问之誓的,慷慨而容貌可喜的,拥有充足的饮食、衣着与房舍,并有良好的床榻、座位与餐食。
7.57.4
नटनर्तकगन्धर्वैः पूर्णकैर्वर्धमानकैः ।
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः ॥ ७.५७.४ ॥
在那里,他们因演员、舞者与天界乐师、说唱者与赞颂者,以及终日忙于游戏的人们而极为欢喜。
7.57.5
यज्ञे यज्ञे यथाकालं दक्षिणाः सोऽत्यकालयत् ।
द्विपान्दशसहस्राख्यानदात्काञ्चनसंवृतान् ॥ ७.५७.५ ॥
每次祭祀,他都按时给予丰厚的祭礼之施;他布施了一万头以名称呼、披饰黄金的大象。
7.57.6
यः सहस्रं सहस्राणि कन्या हेमविभूषिताः ।
धूर्युजाश्वगजारूढाः सगृहक्षेत्रगोशताः। ॥ ७.५७.६ ॥
他布施了成千上万的少女,她们饰以黄金,骑着马匹和套在车辕上的大象,并附有房屋、田地与数百头牛。
7.57.7
शतं शतसहस्राणि स्वर्णमालानथर्षभान् ।
गवां सहस्रानुचरान्दक्षिणामत्यकालयत्। ॥ ७.५७.७ ॥
他以祭祀酬金大量布施了百个十万的金项链、公牛,以及成千上万头牛的群。
7.57.8
हेमशृङ्ग्यो रौप्यखुराः सवत्साः कांस्यदोहनाः ।
दासीदासखरोष्ट्रांश्च प्रादादाजाविकं बहु। ॥ ७.५७.८ ॥
他布施了金角银蹄、带着小牛的母牛,青铜挤奶器,男女仆人,驴与骆驼,以及大量的山羊和绵羊。
7.57.9
रत्नानां विविधानां च विविधांश्चान्नपर्वतान् ।
तस्मिन्संवितते यज्ञे दक्षिणामत्यकालयत्। ॥ ७.५७.९ ॥
在那盛大的祭祀中,他大量布施了各式珍宝和各种食物堆成的山。
7.57.10
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः ।
अङ्गस्य यजमानस्य अपि विष्णुपदे वयम्। ॥ ७.५७.१० ॥
那里,通晓往世书的人们歌唱他的颂诗,也歌唱施祭者盎伽的颂诗;而我们住在毗湿奴的居所,也一同歌唱。
7.57.11
अमाद्यदिन्द्रुः सोमेन दक्षिणाभिर्द्विजातयः ।
देवमानुषगन्धर्वांश्चात्यरोचन्त दक्षिणाः ॥ ७.५७.११ ॥
因乎苏摩,因施酬金,因然因斯,因然,诸婆罗门皆喜,布施之物胜过诸天、人与乾闼婆。
7.57.12
अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः ।
गुणोत्तरास्तु क्रतवस्तस्यासन्सार्वकामिकाः ॥ ७.५७.१२ ॥
施祭者盎伽的吉祥祭祀,乃由其自身法而得;功德殊胜,其祭祀能成就一切所愿。
7.57.13
स चेन्ममार सृञ्जय चतुर्भद्रतस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.५७.१३ ॥
悉陀耶啊,若那位四种福德圆满的儿子已经死去,你还有比他更有功德的儿子;不要为他悲伤。他们说,不行祭祀、不施布施的人,将走上狗的道路。