摩诃婆罗多 · 章 7.59
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.59.1
रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम ।
यं प्रजा अन्वमोदन्त पिता पुत्रमिवौरसम्।
असङ्ख्येया गुणा यस्मिन्नासन्नमिततेजसि ॥ ७.५९.१ ॥
萨阇耶啊,我们听说十车王之子罗摩也已死去。人民因他而喜悦,犹如父亲因亲生之子而欢喜;他身上有无数美德,他的光辉无可限量。
7.59.2
यश्चतुर्दशवर्षाणि निदेशात्पितुरच्युतः ।
वने वनितया सार्धमवसल्लक्ष्मणाग्रजः ॥ ७.५९.२ ॥
他遵从父命,坚定不移地在森林中与妻子同住十四年,是罗什曼那的兄长。
7.59.3
जघान च जनस्थाने राक्षसान्मनुजर्षभः ।
तपस्विनां रक्षणार्थं सहस्राणि चतुर्दश ॥ ७.५९.३ ॥
在人群中如公牛般的他,在罗那斯塔纳为保护苦行者杀死了一万四千名罗刹。
7.59.4
तत्रैव वसतस्तस्य रावणो नाम राक्षसः ।
जहार भार्यां वैदेहीं सम्मोह्यैनं सहानुजम् ॥ ७.५९.४ ॥
他在那里居住时,名叫罗婆那的罗刹迷惑了他和他的弟弟,劫走了他的妻子毗提诃。
7.59.5
रामो हृतां राक्षसेन भार्यां श्रुत्वा जटायुषः ।
आतुरः शोकसन्तप्तो रामोऽगच्छद्धरीश्वरम् ॥ ७.५९.५ ॥
罗摩从鹫王迦吒优那听说妻子被罗刹劫走,焦急悲痛,于是前往猴王之处。
7.59.6
तेन रामः सुसङ्गम्य वानरैश्च महाबलैः ।
आजगामोदधेः पारं सेतुं कृत्वा महार्णवे ॥ ७.५९.६ ॥
在他的协助下,罗摩与强大的猴众会合,在大海上架起桥梁,抵达了大海的彼岸。
7.59.7
तत्र हत्वा तु पौलस्त्यान्ससुहृद्गणबान्धवान् ।
मायाविनं महाघोरं रावणं लोककण्टकम् ॥ ७.५९.७ ॥
在那里,他杀死了补罗私底耶的后裔及其朋友、随从和亲属,也杀死了善于幻术、极其可怖、世间的荆棘罗波那。
7.59.8
सुरासुरैरवध्यं तं देवब्राह्मणकण्टकम् ।
जघान स महाबाहुः पौलस्त्यं सगणं रणे ॥ ७.५९.८ ॥
这位大臂者在战斗中杀死了补罗私底耶的后裔及其随从,那个连神与阿修罗都不能杀死、对诸天和婆罗门构成荆棘的人。
7.59.9
हत्वा तत्र रिपुं सङ्ख्ये भार्यया सह सङ्गतः ।
स च लङ्केश्वरं चक्रे धर्मात्मानं विभीषणम् ॥ ७.५९.९ ॥
他在那里于战斗中杀死了敌人,与妻子重逢,并立心地正直的毗ভীষণ为楞伽之主。
7.59.10
भार्यया सह संयुक्तस्ततो वानरसेनया ।
अयोध्यामागतो वीरः पुष्पकेण विराजता ॥ ७.५९.१० ॥
与妻子相聚之后,那位英雄与猴军一同,乘着光辉的普须帕迦飞车来到阿逾陀。
7.59.11
तत्र राजन्प्रविष्टः सन्नयोध्यायां महायशाः ।
मातॄर्वयस्यान्सचिवानृत्विजः सपुरोहितान् ॥ ७.५९.११ ॥
大王啊,他进入阿逾陀后,这位大名之人与众母、朋友、大臣、祭司以及家庭祭司同住。
7.59.12
शुश्रूषमाणः सततं मन्त्रिभिश्चाभिषेचितः ।
विसृज्य हरिराजानं हनुमन्तं सहाङ्गदम् ॥ ७.५९.१२ ॥
他不断地侍奉,被大臣们加冕,遣送了猴王哈努曼与安伽达之后,便开始治理国家。
7.59.13
भ्रातरं भरतं वीरं शत्रुघ्नं चैव लक्ष्मणम् ।
पूजयन्परया प्रीत्या वैदेह्या चाभिपूजितः ॥ ७.५९.१३ ॥
以至诚的爱敬待其兄弟婆罗多、英勇的设睹罗祇那与罗什曼那,亦受到毗提诃(悉达)的尊敬。
7.59.14
दशवर्षसहस्राणि दशवर्षशतानि च ।
चतुःसगारपर्यन्तां पृथिवीमन्वशासत ॥ ७.५९.१४ ॥
统治被四海环绕的大地,历经一万零一百年。
7.59.15
अश्वमेधशतैरीजं क्रतुभिर्भूरिदक्षिणैः ।
यश्च विप्रप्रसादेन सर्वकामानवाप्य च ॥ ७.५९.१५ ॥
他以丰厚的布施举行了数百次马祭及其他祭祀,并因婆罗门的恩典而获得一切所愿。
7.59.16
सम्प्राप्य विधिवद्राज्यं सर्वभूतानुकम्पनः ।
सर्वद्वीपानवष्टभ्य प्रजा धर्मेण पालयन् ॥ ७.५९.१६ ॥
依法获得王位,怜悯一切众生,统领所有岛屿,以法护持臣民。
7.59.17
स निर्गलं मुख्यतममश्वमेधशतं प्रभुः ।
आजहार सुरेशस्य हविषा मुदमाहरन्।
अन्यैश्च विविधैर्यज्ञैरीजे बहुगुणैर्नृपः ॥ ७.५९.१७ ॥
这位君王毫无阻碍地举行了一百次最殊胜的马祭,以供品使天主欢喜;并以其他多种功德殊胜的祭祀崇奉。
7.59.18
क्षुत्पिपासेऽजयद्रामः सर्वरोगांश्च देहिनाम् ।
सततं गुणसम्पन्नो दीप्यमानः स्वतेजसा ॥ ७.५९.१८ ॥
罗摩克服了饥渴,并克服了一切有身众生的疾病;他常具德行,以自身的光辉照耀。
7.59.19
अतिसर्वाणि भूतानि रामो दाशरथिर्बभौ ।
ऋषीणां देवतानां च मानुषाणां च सर्वशः।
पृथिव्यां सह वासोऽभूद्रामे राज्यं प्रशासति ॥ ७.५९.१९ ॥
十车王之子罗摩超越一切众生而光耀。罗摩治理王国之时,仙人、天神与世人皆与他同居于大地之上。
7.59.20
नाहीयत तदा प्रामः प्राणिनां न तदा व्यथा ।
प्राणापानौ समावास्तां रामे राज्यं प्रशासति ॥ ७.५९.२० ॥
罗摩治理王国之时,众生不曾疲惫,也没有痛苦;上气与下气平衡调和。
7.59.21
पर्यदीप्यन्त तेजांसि तदाऽनर्थाश्च नाभवन् ।
दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा ॥ ७.५९.२१ ॥
那时诸般光辉遍处闪耀,也没有任何灾祸发生。所有百姓都享有长寿;那时年轻人不会死去。
7.59.22
वेदैश्चतुर्भिः सुप्रीताः प्राप्नुवन्ति दिवौकसः ।
हव्यं कव्यं च विविधं निष्पूर्तं हुतमेव च ॥ ७.५९.२२ ॥
以四吠陀而欢喜的天界居民,获得了供养天神的哈维亚、供养祖先的迦维亚、种种圆满的祭仪以及所献的祭品。
7.59.23
अदंशमशका देशा नष्टव्यालसरीसृपाः ।
नाप्यु प्राणभृतां मृत्युर्नाकाले ज्वलनोऽदहत् ॥ ७.५९.२३ ॥
国土之上没有蚊蝇,猛兽与爬虫皆已灭绝。众生不在非时死亡,火也不会在非时焚烧。
7.59.24
अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा ।
शिष्टेष्टप्राज्ञकर्माणः सर्वे वर्णास्तदाऽभवन् ॥ ७.५९.२४ ॥
那时没有以不法为乐的贪婪者或愚昧者。那时所有种姓都行贤者、敬者与智者之业。
7.59.25
स्वधां पूजां च रक्षोभिर्जनस्थाने प्रणाशिताम् ।
प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः ॥ ७.५९.२५ ॥
主宰者杀死罗刹后,把在Janasthāna被罗刹破坏的svadhā供奉与祭祀归还给祖灵与诸神。
7.59.26
सहस्रपुत्राः पुरुषा दशवर्षशतायुषः ।
न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धानि कुर्वते ॥ ७.५९.२६ ॥
那时人们有千子,寿命千年,然而长者不为幼者行施拜祖的śrāddha之礼。
7.59.27
श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः ।
आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः ॥ ७.५९.२७ ॥
肤色黝黑,年轻,红眼,有如发情象般的勇猛,双臂长至膝盖,臂膀俊美,肩如狮子,大力无比。
7.59.28
दशवर्षसहस्राणि दशवर्षशतानि च ।
सर्वभूतमनःकान्तो रामो राज्यमकारयत् ॥ ७.५९.२८ ॥
十千又百年间,为众生心所喜爱的罗摩治理国土。
7.59.29
रामो रामो राम इति प्रजानामभवत्कथा ।
रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ ७.५९.२९ ॥
"罗摩、罗摩、罗摩"成为民众的口头语,罗摩执政时,整个世界充满了罗摩。
7.59.30
चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः ।
आत्मेच्छया प्रतिष्ठाप्य राजवंशमिहाष्टधा ॥ ७.५९.३० ॥
罗摩将四种民众带往天界,随后出于自愿升往天界,并在此把王统分为八支加以安立。
7.59.31
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.५९.३१ ॥
悉尼啊,若他已死,他比你幸福四倍,对你而言比你自己的儿子更有功德。因此不要为儿子悲伤。这样的话只是说给那些不行祭祀、不施布施的人听的。