Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.6.1

कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा ।
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् ॥ ७.६.१ ॥

国王难敌听了迦尔纳的话后,便对站在军队中央的德罗纳说了这番话。

7.6.2

वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया ।
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् ॥ ७.६.२ ॥

凭借你种姓的尊贵,出身高贵的家族,学识,年龄,智慧,勇力,技艺,不可战胜,通晓事务,善于政略,以及胜利。

7.6.3

तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि ।
युक्तो भवत्सश्रो गोप्ता राज्ञामन्यो न विद्यते ॥ ७.६.३ ॥

凭你的苦行、感恩之心、年高德劭,又具备一切美德,你便是诸王的守护者;再也找不到另一人了。

7.6.4

स भवान्पातु नः सर्वान्देवानिव शतक्रतुः ।
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम ॥ ७.६.४ ॥

如百祭的因陀罗守护诸天,愿您守护我们所有人。婆罗门中最优秀者啊,我们愿以您为统帅,去战胜敌人。

7.6.5

रुद्राणामिव कापालिर्वसूनामिव पावकः ।
कुबेर इव यक्षाणां मरुतामिव वासवः ॥ ७.६.५ ॥

如楼陀罗中的迦婆利(湿婆),婆苏中的火神,夜叉中的俱毗罗,摩录多中的婆娑婆(因陀罗)。

7.6.6

वसिष्ठ इव विप्राणां तेजसामिव भास्करः ।
पितॄणामिव धर्मेन्द्रो यादसामिव चाम्बुराट् ॥ ७.६.६ ॥

如婆私吒在婆罗门中,太阳在光明者中,法王在祖灵中,水王在水族中。

7.6.7

नक्षत्राणामिव शशी दितिजानामिवोशनाः ।
सर्वेषामिव लोकानां विश्वस्य च यथा क्षयः ॥ ७.६.७ ॥

如星辰中的月亮,如达蒂亚中的乌until那斯,如一切世界与宇宙的毁灭者,您便是这样。

7.6.8

विश्वोत्पत्तिस्थितिलये श्रेष्ठो नारायणः प्रभुः ।
एवं सेनाप्रणेतॄणां मम सेनापतिर्भव ॥ ७.६.८ ॥

如至尊主那罗延在宇宙的创造、维持与毁灭中最为殊胜,愿您在诸军统帅之中成为我的大将。

7.6.9

अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ ।
ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव ॥ ७.६.९ ॥

无罪者啊,愿十一支阿克绍希尼军皆听您调遣;以此列阵对敌,如因陀罗击杀檀那婆一般将他们击杀吧。

7.6.10

प्रयातु नो भवानग्रे देवानामिव पावकिः ।
अनुयास्यामहे त्वाऽऽजौ सौरभेया इवर्षभम् ॥ ७.६.१० ॥

愿您如火之子(塞建陀)行于诸天之前,走在我们前面;我们将在战场上追随您,如苏罗跋之犊追随公牛。

7.6.11

उग्रधन्वा महेष्वासो दिव्यं विष्फारयन्धनुः ।
दृष्ट्वा भवन्तं सङ्ग्रामे नार्जुनः प्रहरिष्यति ॥ ७.६.११ ॥

勇猛的弓手、大弓箭手阿周那,拉响神弓,在战场上见到您后,不会向您射击。

7.6.12

ध्रुवं युधिष्ठिरं सङ्ख्ये सानुबन्धं सबान्धवम् ।
जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि ॥ ७.६.१२ ॥

人中虎啊!若您为统帅,我必定能在战场上战胜坚战,连同他的随从与亲族。

7.6.13

एवमुक्ते ततो द्रोणं जयेत्यूचुर्नराधिपाः ।
सिंहनादेन महता हर्षयन्तस्तवात्मजम् ॥ ७.६.१३ ॥

众王对德罗纳说完这话后高呼:“胜利!”,并以大狮吼使你的儿子欢喜。

7.6.14

सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् ।
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः।
दुर्योधनं ततो राजन्द्रोणो वचनमब्रवीत् ॥ ७.६.१४ ॥

士兵们满怀喜悦,颂扬再生者中最优秀的(德罗纳),将难敌置于前列,渴望伟大的荣耀。然后,大王,德罗纳对难敌说了这些话。