摩诃婆罗多 · 章 7.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.60.1
भगीरथं च राजानं मृतं सृञ्जय शुश्रुम ।
परित्राणाय पूर्वेषां येन गङ्गाऽवतारिता ॥ ७.६०.१ ॥
桑迦耶啊,我们听说过已故的国王婆吉罗他,为了拯救他的祖先,恒河是由他引下凡间的。
7.60.2
यस्येन्द्रो बाहुवीर्येण प्रीतो राज्ञो महात्मनः ।
सोऽश्वमेधशतैरीजे समाप्तवरदक्षिणैः ॥ ७.६०.२ ॥
那位伟大的国王,因其臂力令因陀罗欢喜,以圆满而丰厚的布施举行了一百次马祭。
7.60.3
हविर्मन्त्रान्नसम्पन्नैर्देवानामादधौ मुदम् ।
येन भागीरथी गङ्गा चयनैः काञ्चनैश्चिता ॥ ७.६०.३ ॥
他以富有祭品、咒语与食物的祭祀使诸神欢喜;以金色祭坛堆满了婆吉罗提河(恒河)。
7.60.4
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ।
राज्ञश्च राजपुत्रांश्च ब्राह्मणेभ्यो ह्यमन्यत ॥ ७.६०.४ ॥
他将饰以黄金的千千万万少女,以及国王与王子,都布施给了婆罗门。
7.60.5
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः ।
रथेरथे शतं नागाः सर्वे वै हेममालिनः ॥ ७.६०.५ ॥
所有少女都乘坐在车上,所有车子都驾着四匹马;每辆车旁有一百头大象,都戴着金项圈。
7.60.6
सहस्रमश्वाश्चैकैकं गजानां पृष्ठतोऽन्वयुः ।
अश्वेअश्वे शतं गावो गवां पश्चादजाविकम् ॥ ७.६०.६ ॥
每头象之后随行一千匹马;每匹马旁有一百头牛,牛之后则有山羊和绵羊。
7.60.7
तेनाक्रान्ता जनौघेन दक्षिणा भूयसीर्ददत् ।
उपह्वरेऽतिव्यथिता तस्याङ्के निषसाद ह ॥ ७.६०.७ ॥
她被那群人围拥,布施大量的达克辛那,在僻静处极为悲痛,坐在他的膝上。
7.60.8
तथा मागीरथी गङ्गा ह्यूर्ध्वगा ह्यभवत्पुरा ।
दुहितृत्वं गता राज्ञः पुत्रत्वमगमत्तदा ॥ ७.६०.८ ॥
同样,摩揭罗提之恒河从前是向上流的;那时她成为国王之女,又获得了儿子的身份。
7.60.9
तां तु गाथा जगुः प्रीता गन्धर्वाः सूर्यवर्चसः ।
पितृदेवमनुष्याणां शृण्वतां वल्गुवादिनः ॥ ७.६०.९ ॥
如太阳般光辉、言辞柔美的乾闼婆们欢喜地吟唱那首伽陀,祖先、诸神与人类都在倾听。
7.60.10
भगीरथं यजमानमैक्ष्वाकुं भूरिदक्षिणम् ।
गङ्गा समुद्रगा देवी वव्रे पितरमीश्वरम् ॥ ७.६०.१० ॥
正在祭祀、布施大量达克辛那的伊克瓦库后裔婆吉罗他,被流向大海的女神恒河选为如主宰般的父亲。
7.60.11
तस्य सेन्द्रैः सुरगणैर्देवैर्यज्ञः स्वलङ्कृतः ।
सम्यक्परिगृहीतश्च शान्तविघ्नो निरामयः ॥ ७.६०.११ ॥
他的祭祀由因陀罗及诸神之众妆点得庄严,被如法接受,障碍平息,且无瑕疵。
7.60.12
यो य इच्छेत विप्रो वै यत्रयत्रात्मनः प्रियम् ।
भगीरथस्तदा प्रीतस्तत्रतत्राददद्वशी ॥ ७.६०.१२ ॥
凡婆罗门在任何地方想要自己所爱之物,那时欢喜而自制的婆吉罗他就在那里那里给予。
7.60.13
नादेयं ब्राह्मणस्यासीद्यस्य यत्स्यात्प्रियं धनम् ।
सोऽपि विप्रप्रसादेन ब्रह्मलोकं गतो नृपः ॥ ७.६०.१३ ॥
那位拥有可施予婆罗门的心爱财富的国王,也因婆罗门的恩典而往生梵天界。
7.60.14
येन यातौ मखमुखौ दिशाशाविह पादपाः ।
तेनावस्थातुमिच्छन्ति तं गत्वा राजमीश्वरम् ॥ ७.६०.१४ ॥
在祭祀之初,因他之故,此处四方的两端与树木都离去了;它们想要前往那位主宰之王处而留住。
7.60.15
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६०.१५ ॥
桑加耶,若他已死,对你而言便是四倍的幸运;你比有子更有功德。不要为你的儿子悲伤。有言道:不祭祀、不布施者,让他走向死亡。