Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.62

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.62.1

मान्धतारं यौवनाश्वं मृतं सृञ्जय शुश्रुम ।
यं देवावश्विनौ गर्भे पितुः पार्श्वे चकर्षतुः ॥ ७.६२.१ ॥

那罗陀说:哦,苏尼遮耶,我们听说优婆那输婆之子曼陀多(Māndhātṛ)已死;双神阿湿文二神从他父亲的胎腹一侧将他拉了出来。

7.62.2

मृगयां विचरन्राजा तृषितः क्लान्तवाहनः ।
धूमं दृष्ट्वाऽगमत्सत्रं पृषदाज्यमवाप सः ॥ ७.६२.२ ॥

国王在狩猎中漫游,口渴,坐骑也已疲惫;他看见烟,便走向祭祀集会,在那里得到了凝乳和酥油。

7.62.3

तं दृष्ट्वा युवनाश्वस्य जठरे रविसन्निभम् ।
गर्भं निरूहतुर्देवावश्विनौ भिषजां वरौ ॥ ७.६२.३ ॥

二神阿湿文二神,乃医者中之最优者,见到优婆那输婆腹中如太阳般光辉的胎儿,便将它取了出来。

7.62.4

तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम् ।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥ ७.६२.४ ॥

诸神看见他躺在父亲的膝上,光辉如神,彼此说道:“这孩子将哺育谁呢?”

7.62.5

मामेवायं धयत्वङ्ग इति ह स्माह वासवः ।
ततोङ्गुलिभ्यो हीन्द्रस्य प्रादुरासीत्पयोऽमृतम् ॥ ७.६२.५ ॥

因陀罗(Vāsava)说:“让他只吸吮我的(乳汁)。”于是从因陀罗的手指中涌出了甘露般的乳汁。

7.62.6

मां धास्यतीति कारण्याद्यदिन्द्रो ह्यन्वकम्पयत् ।
तस्मात्तु मान्धातेत्येवं नाम तस्याद्भुतं कृतम् ॥ ७.६२.६ ॥

因陀罗因“他将吸吮我的乳汁”之念而生怜悯,心意触动;因此,这个奇异的孩子被命名为曼陀多(Māndhātṛ)。

7.62.7

ततस्तु धारां पयसो घृतस्य च महात्मनः ।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥ ७.६२.७ ॥

于是,一股牛奶和酥油从因陀罗的手中流入伟大的游婆那首瓦的口中。

7.62.8

अपिबत्पाणिमिन्द्रस्य स चाप्यह्गाऽभ्यवर्धत ।
सोऽभवद्द्वादशसमो द्वादशाहेन वीर्यवान् ॥ ७.६२.८ ॥

他饮用因陀罗的手,一日之间便长大了;十二日之内,他便如十二岁的孩子般强盛。

7.62.9

इमां च पृथिवीं कृत्स्नामेकाह्ना स व्यजीजयत् ।
धर्मात्मा धृतिमान्वीरः सत्यसन्धो जितेन्द्रियः ॥ ७.६२.९ ॥

这位心怀正法、坚定不移、言而有信、克制诸根的英雄,一日之间征服了整个大地。

7.62.10

जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम् ।
असितं च नृगं चैव मान्धाता मानवोऽजयत् ॥ ७.६२.१० ॥

摩奴之后裔摩檀多利征服了逝世王、苏檀婆、伽耶、补鲁、布里哈德罗陀、阿悉多与那古。

7.62.11

उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति ।
तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ ७.६२.११ ॥

太阳升起之处至太阳落下之处,整片土地都被称为游婆那首瓦之子摩檀多利的疆域。

7.62.12

सोऽश्वमेधशतैरिष्ट्वा राजसूयशतेन च ।
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते ॥ ७.६२.१२ ॥

他举行了百次马祭与百次王祭之后,将赤鱼施予婆罗门,啊,百姓之主。

7.62.13

हैरण्यान्योजनोत्सेधानायताञ्शतयोजनम् ।
बहुप्रकारान्सुस्वादून्भक्ष्यभोज्यान्नपर्वतान् ॥ ७.६२.१३ ॥

金制的山峰,高一由旬,长百由旬,由种种美味的可食、可嚼、可饮之物堆成的食物之山。

7.62.14

अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः ॥ ७.६२.१४ ॥

在施予婆罗门之后,吃剩余之物的人会衰减。

7.62.15

भक्ष्यान्नपाननिचयाः शुशुभुस्त्वन्नपर्वताः ।
घृतहदाः सूपपङ्का दधिफेनां गुडोदकाः ॥ ७.६२.१५ ॥

食物、粮食与饮料的堆积闪耀光辉;它们是食物之山,有酥油的湖泊,汤汁的泥潭,凝乳的泡沫和糖蜜的水。

7.62.16

रुरुधुः पर्वतान्नद्यो मधुक्षीरवहाः शुभाः ।
देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः ॥ ७.६२.१६ ॥

载着蜂蜜和牛奶的吉祥河流环绕着群山;诸神、阿修罗、人类、夜叉、乾闼婆、龙蛇与飞鸟都来到那里。

7.62.17

विप्रास्तत्रागताश्चासन्वेदवेदाङ्गपारगाः ।
ब्राह्मणा ऋषयश्चापि नासंस्तत्राविपश्चितः ॥ ७.६२.१७ ॥

精通吠陀及其支分的学识婆罗门来到那里;婆罗门与仙人也都在场,没有一个无知之人。

7.62.18

समुद्रान्तां वसुमतीं वसुपूर्णां तु सर्वतः ।
स तां ब्राह्मणसात्कृत्वा जगाम स्वान्गृहान्प्रति ॥ ७.६२.१८ ॥

他把延伸至大海、四面充满财富的大地交给婆罗门,然后返回自己的家中。

7.62.19

राजाऽपि विविधैरिष्ट्वा यज्ञैर्विविधदक्षिणैः ।
गतः पुण्यकृतां लोकान्व्याप्य स्वयशसा दिशः ॥ ७.६२.१९ ॥

国王也以种种祭祀与种种布施行祭,以其名声遍满诸方,已往生于行善者之世界。

7.62.20

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६२.२० ॥

悉伽也,若彼已死,彼比你幸福四倍;对你而言,他比儿子更有福德。莫为你的儿子悲伤。未行祭祀、未施布施的人走向死亡——他如此说道。