摩诃婆罗多 · 章 7.64
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.64.1
नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम ।
यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत् ॥ ७.६४.१ ॥
桑闍耶啊,我们听说过已故的那伽与安跋黎沙,他一人与成千上万的国王作战。
7.64.2
जिगीषमाणाः सङ्ग्रामे समन्ताद्वैरिणोऽभ्ययुः ।
अस्त्रयुद्धविदो घोराः सृजन्तश्चाशिवा गिरः ॥ ७.६४.२ ॥
渴望取胜的敌人在战场上从四面八方向他袭来,他们精通兵器之战,凶猛可怖,口出不吉之言。
7.64.3
बललाघवशिक्षाभिस्तेषां सोऽस्त्रबलेन च ।
छत्रायुधध्वजरथांश्छित्त्वा प्रासान्गतव्यथः ॥ ७.६४.३ ॥
他凭借力量、敏捷与训练,以及兵器之力,斩断了他们的华盖、兵器、旗帜与战车,也折断了长矛,毫无困扰。
7.64.4
त एनं मुक्तसन्नाहाः प्रार्थयञ्जीवितैषिणः ।
शरण्यमीयुः शरणं तव स्म इति वादिनः ॥ ७.६४.४ ॥
他们脱去甲胄,求生存活,向他恳求,前来投奔,说道:「我们是您的,请您庇护我们,啊,保护者。」
7.64.5
स तु तान्वशगान्कृत्वा जित्वा चेमां वसुन्धराम् ।
ईजे यज्ञशतैरिष्टैर्यथा शक्रस्तथाऽनघः ॥ ७.६४.५ ॥
他既降服了他们,又征服了这片大地,像因陀罗一样无罪,举行了数百场所愿的祭祀。
7.64.6
बुभुजुः सर्वसम्पन्नमन्नमन्ये जनाः सदा ।
तस्मिन्यज्ञे तु विप्रेन्द्राः सन्तृप्ताः परमार्चिताः ॥ ७.६४.६ ॥
其他人也总是享用极其丰盛的食物;在那次祭祀中,最杰出的婆罗门都得到充分的满足,并受到极大的尊崇。
7.64.7
मोदकान्पूरिकापूपान्स्वादुपूर्णाश्च शष्कुलीः ।
करम्भान्पृथुमृद्वीका अन्नानि सुकृतानि च ॥ ७.६४.७ ॥
甜美的糯米团、油炸饼和糕点,满是甜味的卷饼,卡兰巴粥,大而柔软的葡萄,以及精心烹制的食物。
7.64.8
सूपान्मैरेयकापूपान्रागषाडवपानकान् ।
मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च ॥ ७.६४.८ ॥
汤羹,用美尔耶迦酒制作的糕点,爱饮料与帕纳卡饮品,调味精良的食物,柔软而芬芳。
7.64.9
घृतं मधु पयस्तोयं दधीनि रसवन्ति च ।
फलं मूलं सुस्वादु द्विजास्तत्रोपभुञ्जते ॥ ७.६४.९ ॥
酥油、蜂蜜、牛奶、水、美味的凝乳、果实与根茎,甚为鲜美;婆罗门们在那里享用。
7.64.10
मदनीयानि पापानि विदित्वा चात्मनः सुखम् ।
अपिबन्त यथाकामं पानपा गीतवादितैः ॥ ७.६४.१० ॥
知道那些醉人与有罪的饮料能带来自己的快乐,斟酒者伴着歌声与乐器,随心所欲地饮用。
7.64.11
तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च ।
नाभागस्तुतिसंयुक्ता ननृतुश्च सहस्रशः ॥ ७.६४.११ ॥
那里,醉意盎然而欢喜的人们歌唱、诵读伽陀,伴以对那伽的颂扬,成千上万的人跳起舞来。
7.64.12
तेषु यज्ञेष्वम्बरीषो दक्षिणामत्यकालयत् ।
राज्ञां शतसहस्राणि दशप्रयुतयाजिनाम् ॥ ७.६४.१२ ॥
在那些祭祀中,安巴利沙向数十万位完成了十个普拉尤塔祭祀的国王,慷慨地给予了过多的祭礼酬谢。
7.64.13
हिरण्यकवचान्सर्वाञ्श्वेतच्छत्रप्रकीर्णकान् ।
हिरण्यस्यन्दनारूढान्सानुयात्रपरिच्छादान् ॥ ७.६४.१३ ॥
他们全都身披金甲,头顶张开的白伞,乘坐金车,随从与仪仗俱全。
7.64.14
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ।
मूर्धाभिषिक्तांश्च नृपान्राजपुत्रशतानि च ॥ ७.६४.१४ ॥
他在盛大的祭礼中行祭,所施的酬谢极为丰厚——施予头顶受灌顶的国王,以及数百位王子。
7.64.15
स दण्डकोशनिचयान्ब्राह्मणेभ्यो ह्यमन्यत ।
नैवं पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ॥ ७.६४.१५ ॥
他认为刑杖与府库的积蓄应当施予婆罗门。古人不曾这样做,后人也不会这样做。
7.64.16
यदम्बरीषो नृपतिः करोत्यमितदक्षिणः ।
इत्येवमनुमोदन्ते प्रीता यस्य महर्षयः ॥ ७.६४.१६ ॥
国王安巴利莎施予无量的酬谢;大仙对他感到欢喜,因此如此赞许。
7.64.17
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६४.१७ ॥
若他已死,啊,sṛñjaya,对你而言那便好上四倍,比有子更有功德。不要为你的儿子悲伤。关于那不祭祀、不施酬谢的śvaitya,就是这样说的。