摩诃婆罗多 · 章 7.66
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.66.1
गयं चाधूर्तरजसं मृतं सृञ्जय शुश्रुम ।
ये वै वर्षशत राजा हुतशिष्टाशनोऽभवत् ॥ ७.६६.१ ॥
萨涅耶啊,我们听说国王伽耶,罪尘未除而已死去,曾靠祭祀剩余之物活了一百年。
7.66.2
तस्मै ह्यग्निर्वरं प्रादात्ततो वव्रे वरं गयः ।
तपसा ब्रह्मचर्येण व्रतेन नियमेन च ॥ ७.६६.२ ॥
火神赐予他一个恩惠,于是伽耶凭借苦行、梵行、誓愿和戒律,选择了一个恩惠。
7.66.3
गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम् ।
स्वधर्मेणाविहिंस्यान्यान्धनमिच्छामि चाक्षयम् ॥ ७.६६.३ ॥
凭着师长的恩典,我愿通晓吠陀;凭自己的法,不伤害他人,我愿得到不灭的财富。
7.66.4
विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः ।
कन्यासु च सवर्णासु सुप्रजस्त्वं च मे भवेत् ॥ ७.६६.४ ॥
愿我向婆罗门布施时常怀信心,愿我从同种姓的女子中得到善良的子嗣。
7.66.5
अन्नमोजो महो मह्यं धर्मे मे रमतां मनः ।
अविघ्नं चास्तु मे नित्यं धर्मकार्येषु पावक ॥ ७.६६.५ ॥
愿我得到食物、活力与光辉;愿我的心在法中欢喜;哦,火神,愿我在法的事业中永无障碍。
7.66.6
तथा भिष्यतीत्युक्त्वा तत्रैवान्तरधीयत ।
गयो ह्यवाप्य तत्सर्वं धर्मेणाराधयञ्जगत् ॥ ७.६६.६ ॥
说了一句'就这样吧',他便在那里消失了;伽耶获得了这一切,以法使世界欢喜。
7.66.7
स दर्शपूर्णमासाभ्यां कालेष्वाग्रयणेन च ।
चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः ॥ ७.६६.७ ॥
他以新月满月祭、按时的首果祭、四月祭以及施予丰厚酬金的各种祭祀来祭祀。
7.66.8
अयजच्छ्रद्धया राजा परिसंवत्सराञ्शतम् ।
गवां शतसहस्राणि शतमश्वशतानि च ॥ ७.६६.८ ॥
国王怀着虔诚,在整整一年中举行了百次祭祀,并布施了十万头乘百的牛和数百匹马。
7.66.9
शतं निष्कसहस्राणि गवां चाप्ययुतानि षट् ।
उत्थायोत्थाय सम्प्रादात्परिसंवत्सराञ्शतम् ॥ ७.६६.९ ॥
十万尼什迦金币,还有六阿于特头牛;他一次又一次起身,在整整一年的百次祭祀中施舍。
7.66.10
नक्षत्रेषु च सर्वेषु ददन्नक्षत्रदक्षिणाः ।
ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरा यथा ॥ ७.६६.१० ॥
他在所有星宿时都布施星宿酬金,举行各种祭祀,正如苏摩和安吉罗斯所做的那样。
7.66.11
सौवर्णां पृथिवीं कृत्वा य इमां प्रमिशर्कराम् ।
विप्रेभ्यः प्राददद्राजा सोऽश्वमेधे महामखे ॥ ७.६६.११ ॥
那位把这大地(连同沙石)化为黄金并施予婆罗门的国王,便是在伟大的马祭中。
7.66.12
जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः ।
गयस्यासन्समृद्धास्तु सर्वभूतमनोहराः ॥ ७.६६.१२ ॥
所有祭柱都是贤浮那金所制,饰以宝石;在伽耶的祭祀中,它们光辉灿烂,令一切众生心醉神迷。
7.66.13
सर्वकामसमृद्धं च प्रादादन्नं गयस्तदा ।
ब्राह्ममेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च ॥ ७.६६.१३ ॥
于是伽耶向欢喜的婆罗门和一切众生施予充满一切所欲的食物。
7.66.14
ससमुद्रवनद्वीपनदीनदवनेषु च ।
नगरेषु च राष्ट्रेषु दिवि व्योम्नि च येऽवसन् ॥ ७.६६.१४ ॥
居住于海洋、森林、岛屿、河流与溪涧、城市与国家、天界与虚空之中的众生——
7.66.15
भूतग्रामाश्च विविधाः सन्तृप्ता यज्ञसम्पदा ।
गयस्य सदृशो यज्ञो नास्त्यन्य इति तेऽब्रुवन् ॥ ७.६६.१५ ॥
众多生灵因祭祀的丰盛而完全满足,他们说:“没有任何祭祀可与伽耶的相比。”
7.66.16
षट्त्रिंशद्योजनायामा त्रिंशद्योजनमायता ।
पश्चात्पुरश्चतुर्विंशद्वेदी ह्यासीद्धिरण्मयी ॥ ७.६६.१६ ॥
那座金祭坛长三十六由旬,宽三十由旬;前后各为二十四由旬。
7.66.17
गयस्य यजमानस्य मुक्तावज्रमणिस्तृता ।
प्रादात्स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च ॥ ७.६६.१७ ॥
施主伽耶的祭坛上铺满了珍珠、金刚石与宝石。随后他向婆罗门布施衣物与饰品。
7.66.18
यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः ।
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥ ७.६६.१८ ॥
大施主伽耶依规定向婆罗门施予了达克希那及其他布施;宴席剩余的食物在那里堆成了二十五座山。
7.66.19
कुल्याश्च क्षीरवाहिन्यो रसानां चापभवंस्तदा ।
वस्त्राभरणगन्धानां शारयश्च पृथग्विधाः ॥ ७.६६.१९ ॥
当时有输送牛奶的水渠,也有各种汁液的河流,还有各式各样的衣物、饰品和香料堆积如山。
7.66.20
यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः ।
वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत् ॥ ७.६६.२० ॥
凭借其威力,伽耶在三界享有盛名;还有那棵赐予不灭功德的榕树,以及那座圣洁的梵湖。
7.66.21
स चेन्ममार स़ञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६६.२१ ॥
桑闍耶,即使他已死去,因你之故,他也比先前幸福四倍;对你而言,这比有个儿子更具功德。不要为你的儿子悲伤。关于那不祭祀、不布施的人,曾这样宣说。