摩诃婆罗多 · 章 7.67
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.67.1
साङ्कृतिं रन्तिदेवं च मृतं सृञ्जय शुश्रुम ।
यस्य द्विशतसाहस्रा आसन्सूदा महात्मनः ॥ ७.६७.१ ॥
娑阇耶啊,我们听说过僧伽提和已故的兰提提婆,那位大德之人有二十万名厨师。
7.67.2
गृहानभ्यागतान्विप्रानतिथीन्परिवेषकाः ।
पक्वंपक्वं दिवारात्रं वरान्नममृतोपमम् ॥ ७.६७.२ ॥
来到家中的婆罗门与客人,由侍者奉上最上等的食物,日夜反复烹煮,犹如甘露。
7.67.3
न्यायेनाधिगतं वित्तं ब्राह्मणेभ्यो ह्यमन्यत ।
वेदानधीत्य धर्मेण यश्चक्रे द्विषतो वशे ॥ ७.६७.३ ॥
他认为依正道所得的财富应归婆罗门;他研读吠陀,依法使敌人臣服于己。
7.67.4
उपस्थिताश्च पशवः स्वयं यं शंसितव्रतम् ।
बहवः स्वर्गमिच्छन्तो विधिवत्सत्रयाजिनम् ॥ ७.६७.४ ॥
许多渴望天界的牲畜,自行来到那位誓愿受赞、依法行萨特拉祭的人面前。
7.67.5
नदी महानसाद्यस्य प्रवृतक्ता चर्मराशितः ।
तस्माच्चर्मण्वती नाम ख्याता पुण्या सरिद्वरा ॥ ७.६७.५ ॥
大厨房等处及皮革堆中流出一条河,因此这条圣洁的最上之河以“恰尔曼瓦蒂”之名闻名。
7.67.6
ब्राह्मणेभ्यो ददन्निष्कान्सौवर्णान्स प्रभावतः ।
तुभ्यं निष्कं तुभ्यं निष्कमिति ह स्म प्रभाषते ॥ ७.६७.६ ॥
他以其威力把金币施给婆罗门,并说:“这是给你的一尼ṣka,这是给你的一尼ṣka。”
7.67.7
तुभ्यन्तुभ्यमिति प्रादान्निष्कान्निष्कान्सहस्रशः ।
तत पुनः समाश्वास्य निष्कानेव प्रयच्छति ॥ ७.६७.७ ॥
他说“这是给你的,这是给你的”,一次次地施舍了成千上万的尼什卡;随后又安慰对方,再次施予尼什卡。
7.67.8
अल्पं दत्तं मयाऽद्येति निष्ककोटिं सहस्रशः ।
एकाह्ना ताम्यति ततः क्वाद्य विप्रा इति ब्रुवन् ॥ ७.६७.८ ॥
他想着“今天我给的太少了”,一天之内施予了数千个千万尼什卡,却因此悲恸,说:“今天那些婆罗门在哪里?”
7.67.9
द्विजपाणिवियोगेन दुःखं मे शाश्वतं महत् ।
भविष्यति न सन्देह एवं राजाऽददद्वसु ॥ ७.६७.९ ॥
“与婆罗门之手分离,我的悲痛将会是巨大而永久的,这毫无疑问。”这样想着,国王施予了财富。
7.67.10
सहस्रशश्च सौवर्णान्वृषभान्गोशतानुगान् ।
साष्टं शतं सुवर्णानां निष्कमाहुर्धनं तथा ॥ ७.६७.१० ॥
数千头金牛,后面跟随着数百头母牛,以及一百零八枚金币的尼什卡——这些被称为财富。
7.67.11
अध्यर्धमासमददद्ब्राह्मणेभ्यः शतं समाः ।
अग्निहोत्रोपकरणं यज्ञोपकरणं च यत् ॥ ७.६७.११ ॥
他连续一个半月,乃至一百年,把火祭的器具和祭祀的器具,凡所有的,都施予婆罗门。
7.67.12
ऋषिभ्यः करकान्कुम्भान्स्थालीः पिठरमेव च ।
शयनासनायानानि प्रासादांश्च गृहाणि च ॥ ७.६७.१२ ॥
他把水瓶、罐子、锅和大鼎施予仙人们;又施予床榻、座位、车辆、宫殿和房屋。
7.67.13
वृक्षांश्च विविधान्दद्यादन्नानि च धनानि च ।
सर्वं सौवर्णमेवासीद्रन्तिदेवस्य धीमतः ॥ ७.६७.१३ ॥
他施舍各种树木、食物和财物;对于智慧的兰提提婆而言,一切都是金色的。
7.67.14
तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः ।
रन्तिदेवस्य तां दृष्ट्वा समृद्धिमतिमानुषीम् ॥ ७.६७.१४ ॥
那里,通晓往世书的人们为他吟唱诗歌,因为他们看到了兰提提婆超越人间的繁荣。
7.67.15
नैतादृशं दृष्टपूर्वं कुबेरसदनेष्वपि ।
धनं च पूर्यमाणं नः किं पुनर्मनुजेष्विति ॥ ७.६७.१५ ॥
即便在俱毗罗的宅邸中,我们也从未见过如此充盈于我们身边的财富,更何况在凡人之中。
7.67.16
व्यक्तं वस्वोकसारेयमित्युचुस्तत्र विस्मिताः ।
साङ्कृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत् ॥ ७.६७.१६ ॥
“这必定是财富的居所。”他们在那里惊叹地说,那一夜,一位客人留宿于桑克里蒂之子兰提提婆处。
7.67.17
आलभ्यन्त तदा गावः सहस्राण्येकविंशतिः ।
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः ॥ ७.६७.१७ ॥
那时,二十一千头牛被宰杀;那里身戴擦亮的宝石耳环的厨师们大声呼喊。
7.67.18
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ।
रन्तिदेवस्य यत्किञ्चित्सौवर्णमभवत्तदा ॥ ७.६७.१८ ॥
“今天要多喝汤,不要像从前那样吃肉。”那时,兰提提婆所拥有的一切都变成了黄金。
7.67.19
तत्सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत ।
प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः ॥ ७.६७.१९ ॥
他认为这一切都在盛大的祭祀中献给了婆罗门。诸神明显地接受他的供品。
7.67.20
कव्यानि पितरः काले सर्वकामान्द्विजोत्तमाः ।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ॥ ७.६७.२० ॥
二生者中最优秀的人啊,祖先按时接受迦婆耶供品与一切所愿。srñjaya啊,若他死时比你幸运四倍……
7.67.21
पुत्रात्पुण्डतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६७.२१ ॥
不要为比你的儿子更有福的人悲伤。对于不行祭祀、不施布施之人,有言称其为“śvaitya”。