Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.68

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.68.1

दौष्यन्ति भरतं चापि मृतं सृञ्जय शुश्रुम ।
कर्माण्यसुकराण्यन्यैः कृतवान्यः शिशुर्वने ॥ ७.६८.१ ॥

萨陵阇耶啊,我们听说,杜什扬塔之子婆罗多,如今已死,年幼时在森林中曾完成他人难以做到的事迹。

7.68.2

हिमावदातान्यः सिंहान्नखदंष्ट्रायुधान्बली ।
निर्वीर्यांस्तरसा कृत्वा विचकर्ष बबन्ध च ॥ ७.६८.२ ॥

那强壮者将雪白、以爪牙为武器的狮子以力量使其失去威力,拖拽并将它们捆绑。

7.68.3

क्रूरांश्चोग्रतरान्व्याघ्रान्दमित्वा चाकरोद्वशे ।
मनःशिला इव शिलाः संयुक्ता जतुराशिभिः ॥ ७.६८.३ ॥

他又驯服了凶残至极的老虎,使其归于掌控;它们看起来像与胶漆堆相连的雄黄岩石。

7.68.4

त्रायलादींश्चातिबलवान्सुप्रतीकान्गजानपि ।
दंष्ट्रासु गृह्य विमुखाञ्शुष्कास्यानकरोद्वशे ॥ ७.६८.४ ॥

那极其强壮者又以獠牙抓住象群中的 Trāyalāda 等及 Supratīka,使其转过脸去、口干舌燥,并将其驯服于掌控之下。

7.68.5

महिषानप्यतिबलो बलिनो विचकर्ष ह ।
सिंहानां च सुदृप्तानां शतान्याकर्षयद्बलात् ॥ ७.६८.५ ॥

那极其强壮者也拖拽强壮的水牛,并以力量拉拽数百只极其骄傲的狮子。

7.68.6

बलिनः सृमरान्खङ्गान्नानासत्त्वानि चाप्युत ।
कृच्छ्रप्राणान्वने बद्ध्वा दमयित्वाप्यवासृजत् ॥ ७.६८.६ ॥

那强者在森林中捆绑了 sṛmara 鹿、犀牛及其他各种生命——它们性命垂危,驯服之后又将其释放。

7.68.7

तं सर्वदमनेत्याहुर्द्विजास्तेनास्य कर्मणा ।
तं प्रत्यषेधज्जननी मा सत्वानि व्यनीनशः ॥ ७.६८.७ ॥

婆罗门因他的这一行为称他为「降服一切者」。但他的母亲阻止他说:「不要毁灭众生。」

7.68.8

सोऽश्वमेधशतेनेजे यमुनामनु वीर्यवान् ।
त्रिशतैश्च सरस्वत्यां गङ्गामनु चतुःशतैः ॥ ७.६८.८ ॥

这位英勇的国王沿着闍牟那河举行了一百次马祭,在萨罗私伐底河举行三百次,沿恒河举行四百次。

7.68.9

सौऽश्वमेधसहस्रेण राजसूयशतेन च ।
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः ॥ ७.६८.९ ॥

他又举行了一千次马祭和一百次王祭,这些大祭的丰厚祭礼皆已圆满。

7.68.10

अग्निष्टोमातिरात्राणामुक्थ्यविश्वजितां च सः ।
वाजपेयसहस्रामां सहस्रैश्च सुसंवृतैः ॥ ७.६८.१० ॥

他圆满完成了火祭、夜祭、颂祭和遍胜祭,以及一千次白力祭,成千上万次皆圆满举行。

7.68.11

इष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः ।
सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ।
जाम्बूनदस्य शुद्धस्य कनकस्य महायशाः ॥ ७.६८.११ ॥

沙恭多罗之子国王举行祭祀,以财富使再生者满足。在那里,伟大的婆罗多将一千朵纯金江河金莲花赠予迦婆。

7.68.12

यस्य यूपाः सतव्यामाः परिणाहेन काञ्चनाः ।
समागम्य द्विजैः सार्धे सेन्द्रैर्देवैः समुच्छ्रिताः ॥ ७.६८.१२ ॥

其祭柱周长一「塔维亚玛」,皆为金制,与再生者及以因陀罗为首的诸神一同聚集竖立。

7.68.13

अलङ्कृतान्राजमानान्सर्वरत्नैर्मनोहरैः ।
हैरण्यान्द्विरदानश्वान्रथानुष्ट्रानजाविकान् ॥ ७.६८.१३ ॥

装饰着各种珍宝、光彩照人的金制大象、马匹、战车、骆驼、山羊和绵羊。

7.68.14

दासी दासं धनं धान्यं गाः सवत्साः पयस्विनीः ।
ग्रामान्गृहांश्च क्षेत्राणि विविधांश्च परिच्छदान् ॥ ७.६८.१४ ॥

女仆、男仆、财富、谷物、带着牛犊的奶牛、村庄、房屋、田地以及各种器物。

7.68.15

कोटीशतायुतांश्चैव ब्राह्मणेभ्यो ह्यमन्यत ।
चक्रवर्ती ह्यदीनात्मा जितारिर्ह्यजितः परैः ॥ ७.६८.१५ ॥

他向婆罗门布施了千万乃至数十万之多;他是转轮王,心胸宽厚,战胜敌人,为他人所不能战胜。

7.68.16

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६८.१६ ॥

嘶羅ṇjaya啊,若他已死,他比你幸运四倍,对你而言比儿子更有功德。因此你不要为你的儿子悲伤。关于不祭祀、不施舍的人,施维提亚如是说。