Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.69.1

पुथुं वैन्यं च राजानं मृतं सृञ्जय शुश्रुम ।
यमब्यषिञ्चत्सम्मन्त्र्य राजसूये महर्षयः ॥ ७.६९.१ ॥

sṛñjaya啊,我们听说,韦那之子国王补禄土已死,大仙人经过商议,在王祭(拉贾苏耶)大典上为他行了灌顶礼。

7.69.2

अयं नः प्रथयिष्येत सर्वानित्यभवत्पृथुः ।
क्षतान्नस्त्रास्यते सर्वानत्येवं क्षत्रियोऽभवत् ॥ ७.६९.२ ॥

他将使我们所有人闻名,因此他被称为补禄土;他将保护所有人免受伤害,因此他成为刹帝利。

7.69.3

पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् ।
ततो राजेति नामास्य अनुरागादजायत ॥ ७.६९.३ ॥

百姓见韦那之子补禄土,便说:“我们心满意足。”于是出于爱戴,他的名字便叫“王”(罗阇)。

7.69.4

अकृष्टपच्या पृथिवी आसीद्वैन्यस्य कामधुक् ।
सर्वाः समादुघा गावः पुटकेपुटके मधु ॥ ७.६९.४ ॥

在韦那之子的时代,大地不经耕作便出产五谷,能满足人的心愿;所有的母牛都出乳,每个器皿中都有蜂蜜。

7.69.5

आसन्हिरण्मया वृक्षाः सुखस्पर्शाः सुखावहाः ।
तेषां चीर… संवीताः प्रजास्तेष्वेव शेरते ॥ ७.६९.५ ॥

那时有金色的树,触之舒适,带来快乐;人们穿着树皮衣,便在树下躺卧。

7.69.6

फलान्यमृतकल्पानि स्वादूनि च मधूनि च ।
तेषामासीत्तदाऽऽहारो निराहाराश्च नाभवन् ॥ ७.६९.६ ॥

当时有如甘露般的果实与甜美的蜂蜜,它们便是人们的食物,没有人会断食挨饿。

7.69.7

अरोगाः सर्वसिद्धार्था मनुष्या ह्यकुतोभयाः ।
न्यवसन्त यथाकामं वृक्षेषु च गुहासु च ॥ ७.६९.७ ॥

人们无病,诸愿皆成,无所畏惧;他们随心所欲地居于树上与洞穴之中。

7.69.8

प्रविभागो न राष्ट्राणां पुराणां चाभवत्तदा ।
यथासुखं यथाकामं तथैता मुदिताः प्रजाः ॥ ७.६९.८ ॥

那时国家与城邑并无划分;这些民众安乐喜悦,随心所欲而生活。

7.69.9

तस्य संस्तम्भिता ह्यापः समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ ७.६९.९ ॥

他前往大海时,水被他止住;山岭让出道路,旗帜也没有折断。

7.69.10

तं वनस्पतयः शैला देवासुरनरोरगाः ।
सप्तर्षयः पुण्यजना गन्धर्वाप्सरसोऽपि च।
पितरश्च सुखासीनमभिगम्येदमब्रुवन् ॥ ७.६९.१० ॥

树木与山岭、诸天、阿修罗、人与龙蛇、七仙、富人鬼(puṇyajana)、乾闼婆与阿卜沙罗,以及祖灵,都走近安坐的他,对他说了这些话。

7.69.11

सम्राडसि क्षत्रियोऽसि राजा गोप्ता पिताऽसि नः ।
देह्यस्मभ्यं महाराज प्रभुः सन्नीप्सितान्वरान्।
यैर्वयं शाश्वतं तृप्ता वर्तयिष्यामहे सुखम् ॥ ७.६९.११ ॥

你是君王、刹帝利、国王、保护者,也是我们的父亲。伟大的君王啊,你既为主宰,请赐予我们所求的恩惠,使我们永远满足,安乐度日。

7.69.12

विज्ञापितः प्रजाभिस्तु प्रजानां हितकाम्यया ।
धनुर्गृह्य पृषत्कांश्च वसुधामाद्रवद्बली ॥ ७.६९.१२ ॥

在众民的恳请下,为了民众的福祉,这位强大者手持弓与箭,冲向大地。

7.69.13

ततो वैन्यभयाद्राजन्गौर्भूत्वा प्राद्रवन्मही ।
तां पृथुर्धनुरादाय द्रवन्तीमन्वसारयत् ॥ ७.६९.१३ ॥

于是,大王,因惧怕吠陀之子,大地化为母牛奔逃。普利图拿起弓,追赶着奔逃的她。

7.69.14

सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयार्दिता ।
सा ददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम् ॥ ७.६९.१४ ॥

她前往梵天界等诸界,因惧怕吠陀之子而痛苦。她看见吠陀之子在前面,手中举起了弓。

7.69.15

ज्वलद्भिर्विशिखैर्बाणैर्दीप्ततेजःसमद्युतिम् ।
महायोगं महात्मानं दुर्धर्षममरैरपि ॥ ७.६९.१५ ॥

他以燃烧的箭矢,光辉如炽热的光芒,拥有伟大的瑜伽之力,是大德之人,连诸神也难以抵挡。

7.69.16

अलभन्ती परित्राणं वैन्यमेवाभ्यपद्यत ।
कृताञ्जलिपुटा राजन्पूज्यं लोकैस्त्रिभिस्तदा ॥ ७.६९.१६ ॥

她找不到庇护,便投奔吠陀之子本人;大王啊,她合掌走向那位为三界所敬拜的人。

7.69.17

उवाच चैनं नाधर्म्यं स्त्रीवधं कर्तुमर्हसि ।
कथं धारयिता चासि प्रजा राजन्मया विना ॥ ७.६९.१७ ॥

她对他说:“杀害女子是非法的,这不适合你。大王啊,没有我,你将如何养育百姓呢?”

7.69.18

एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ।
एकं प्राणान्बहून्वापि प्राणिनां नास्ति पातकं ॥ ७.६९.१८ ॥

为了某一个人,无论是为自己还是为他人,夺取一个生命或许多生命的人,不犯杀害众生的罪。

7.69.19

यस्मिंस्तु निहते भद्रे बहवः सुखमेधते ।
तस्मिन्हते त्वधं नास्ति पातकं नोपभुज्यते ॥ ७.६९.१९ ॥

善良的人啊,当那使许多人得到幸福的人被杀时,便没有罪过,也不会承受其后果。

7.69.20

सोऽहं पालनिमित्तं त्वां बधिष्यामि वसुंधरे ।
यदि चेद्वचनादद्य न करिष्यसि मे प्रियम् ॥ ७.६९.२० ॥

啊,婆逊达罗,为了守护我的臣民,若你今日不依我言做我所喜爱之事,我将杀你。

7.69.21

त्वां निहत्य तु बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वाऽहं प्रजा धारयिता स्वयं ॥ ७.६९.२१ ॥

我将以箭杀死你这违背我命令的人,使我自己声名远扬,我自己将养育臣民。

7.69.22

सुखं वचनमास्थाय मम धर्मभृतां वरे ।
स़ञ्जीवय प्रजा नित्यं शक्ता ह्यसि वसुन्धरे ॥ ७.६९.२२ ॥

法之持守者中最优秀的人啊,请欣然接受我的话,常常使臣民复苏;婆逊达罗啊,你确实有此能力。

7.69.23

दुहितृत्वं च मे गच्छ एवमेतन्महाशरम् ।
नियच्छेयं त्वदर्थाय उद्यतं घोरदर्शनम् ॥ ७.६९.२३ ॥

你应当成为我的女儿;如此,这高举而可怖的大箭,我将为你而收住。

7.69.24

सर्वमेतन्महाराज विधास्यासि परन्तप ।
वत्सं त्वं पश्य राजन्वै क्षरेयं येन वत्सला ॥ ७.६९.२४ ॥

伟大的国王,灭敌者啊,这一切你都会做到;国王啊,请看那小牛,为了它,我这爱犊的母牛将流出乳汁。

7.69.25

समां तु कुरु सर्वज्ञ मां तु धर्मभृतां वर ।
यथा विष्यन्दमानं वै क्षीरं सर्वत्र भावये ॥ ७.६९.२५ ॥

哦,全知者,持法者中最优秀的人,请使我平坦,使牛奶到处流淌。

7.69.26

तत उत्सारयामास शिलाजालानि सर्वशः ।
पृथुर्वैन्यस्तदा राजा तेन शैला विवर्धिताः ॥ ७.६९.२६ ॥

于是吠那之子国王普利图下令将各处的岩石群全部移除,因此山岳得以升高。

7.69.27

न हि पूर्वनिसर्गे वै विषमे वसुधातले ।
प्रविभागः पुराणां वा ग्रामाणां वा महीपते ॥ ७.६९.२७ ॥

在原初的创造中,在不平的大地表面上,哦,大地之主,没有城市或村庄的划分。

7.69.28

न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः ।
वैन्यात्प्रभृति राजेन्दर सर्वस्यैतस्य सम्भवः ॥ ७.६९.२८ ॥

没有庄稼,没有畜牧,没有农耕,也没有商路;哦,王中之王,从吠那之子起,这一切才有了开端。

7.69.29

यत्रयत्र च साम्यं तु भूमावासीत्किलानघ ।
तत्रतत्र प्रजास्तात निवासमभिरोचयन्।
कृच्छ्रेण च महाराज इत्येवमनुशुश्रुम ॥ ७.६९.२९ ॥

哦,无罪者,凡大地上有平坦之处,哦,亲爱的,人民便乐于在那里居住;哦,大王,只是十分艰难——我们曾这样听说。

7.69.30

तथेत्युक्त्वा पुनर्वैन्यो गृहीत्वाऽऽजगवं धनुः ।
शरांश्चाप्रतिमान्घोरांश्चिन्तयित्वाऽब्रवीन्महीम् ॥ ७.६९.३० ॥

说了声“就这样吧”,吠那之子再次拿起阿闍婆鲁弓和无与伦比的可怖箭矢,沉思之后,对大地说道。

7.69.31

एह्येहि वसुधे क्षिप्रं क्षरैभ्यः काङ्क्षितं पयः ।
मच्छसनातिगां वै त्वां प्रमथिष्याम्यहं शरैः ॥ ७.६९.३१ ॥

来吧,来吧,大地!快从你的溪流中给出所求的乳汁。违背我命令的你,我将用箭将你摧毁。

7.69.32

तथोक्ता साऽत्मनः श्रेयश्चिन्तयित्वाऽब्रवीत्पृथुम् ।
वत्सं पात्राणि दोग्धॄंश्च क्षीराणि च समादिश ॥ ७.६९.३२ ॥

她听后考虑了自身的福祉,对普利图说:“请指定小牛、器皿、挤奶者和乳汁。”

7.69.33

ततो दास्याम्यहं भद्र सर्वं यस्य यथेप्सितम् ।
दुहितृत्वे च मां वीर सङ्कल्पयितुमर्हसि ॥ ७.६९.३३ ॥

那么,善者啊,我将按各人所愿给予一切。而你,英雄啊,应当决心把我视为女儿。

7.69.34

तथेत्युक्त्वा पृथुः सर्वं विधानमकरोद्वशी ।
ततो भूतनिकायास्तां वसुधां दुदुहुस्तदा ॥ ७.६९.३४ ॥

普利图自制地说:“就这样吧”,并安排了一切;于是众生的群体挤取了那大地的乳汁。

7.69.35

तां वनस्पतयः पूर्वं समुत्तस्थुर्दुधुक्षवः ।
साऽतिष्ठद्वत्सला वत्सं दोग्धृपात्राणि चेच्छती ॥ ७.६९.३५ ॥

树木首先站起,想要挤取她的乳汁。她爱护小牛,站立着,希望有小牛和挤奶的器皿。

7.69.36

वत्सोऽभूत्पुष्पितः सालः प्लक्षो दोग्धाऽभवत्तदा ।
छिन्नप्ररोहणं दुग्धं पात्रमौदुम्बरं शुभम् ॥ ७.६९.३६ ॥

于是开花的娑罗树成为了小牛,波罗树成为了挤奶者。乳汁来自被切断的嫩芽,吉祥的器皿是优昙婆罗木做的。

7.69.37

उदयः पर्वतो वत्सो मेरुर्दोग्धा महागिरिः ।
रत्नान्योषधयो दुग्धं पात्रमस्तमयं तथा ॥ ७.६९.३७ ॥

东方之山乌达耶是小牛,须弥山是挤奶者,即大山。宝石与草药是乳汁,西方之山阿斯塔迈亚是器皿,亦复如是。

7.69.38

देवानां वत्स इन्द्रोऽभूत्पात्रं दारुमयं तथा ।
दोग्धा च सविता देवो दुग्धमूर्जस्करं प्रियम् ॥ ७.६९.३८ ॥

众神的小牛是因陀罗,器皿是木制的,亦复如是。挤奶者是太阳神萨维特利,乳汁是令人喜爱、赋予力量的。

7.69.39

असुरा दुदुहुर्मायामयःपात्रे तु तां तदा ।
दोग्धा द्विमूर्धा तत्रासीद्वत्सश्चासीद्विरोचनः ॥ ७.६९.३९ ॥

当时阿修罗以幻术将她挤入铁器中。那里挤奶者是双头者,小牛是毗卢遮那。

7.69.40

कृषिं च सस्यं च नरा दुदुहुः पृथिवीतले ।
स्वायंभुवो मनुर्वत्सस्तेषां दोग्धाऽभवत्पृथुः ॥ ७.६९.४० ॥

人类在大地之上挤取农耕与谷物。自生者之子摩奴是小牛,他们的挤奶者成为普利图。

7.69.41

अलाबुपात्रे च तथा विषं दुग्धा वसुन्धरा ।
धृतराष्ट्रोऽभवद्दोग्धा तेषां वत्सस्तु तक्षकः ॥ ७.६९.४१ ॥

在葫芦器中,同样,大地挤出毒液。持国成为挤奶者,他们的小牛是多叉蛇。

7.69.42

सप्तर्षिभिर्ब्रह्म दुग्धा तथा चाक्लिष्टकर्मभिः ।
दोग्धा बृहस्पतिः पात्रं छन्दो वत्सश्च सोमराट् ॥ ७.६९.४२ ॥

七仙与行事无倦者同样挤取了梵。布里哈斯帕提是挤奶者,器皿是吠陀韵律,小牛是月王苏摩。

7.69.43

अन्तर्धानं चामपात्रे दुग्धा पुण्यजनैर्विराट् ।
दोग्धा वैश्रवणस्तेषां वत्सश्चासीद्वृषध्वजः ॥ ७.६९.४३ ॥

在名为安多驮那的未烧陶器中,福德人挤取了光耀的牛奶;挤奶者是毗沙罗婆那,小牛则是跋舍陀遮(湿婆)。

7.69.44

पुण्यगन्धान्पद्मपात्रे गन्धर्वाप्सरसोऽदुहन् ।
वत्सश्चित्ररथस्तेषां दोग्धा विश्वरुचिः प्रभुः ॥ ७.६९.४४ ॥

在莲花器中,乾闼婆与阿普萨拉斯挤取了功德的芬芳;他们的小牛是支陀罗陀,挤奶者是主神毗湿伐噜周。

7.69.45

स्वधां रजतपात्रेषु दुदुहुः पितरश्च ताम् ।
वत्सो वैवस्वतस्तेषां यमो दोग्धान्तकस्तदा ॥ ७.६९.४५ ॥

在银器中,祖先们挤取了斯瓦陀供物;他们的小牛是毗婆娑多,当时挤奶者是终结者阎摩。

7.69.46

एवं निकायैस्तैर्दुग्धा पयोऽभीष्टं हि सा विराट् ।
यैर्वर्तयन्ति ते ह्यद्य पात्रैर्वत्सैश्च नित्यशः ॥ ७.६९.४६ ॥

如此,这些群体挤取了那光耀之牛的所求之乳;借着这些器皿与小牛,他们至今每日仍得以维持生计。

7.69.47

यज्ञैश्च विविधैरिष्ट्वा पृथुर्वैन्यः प्रतापवान् ।
सन्तर्पयित्वा भूतानि सर्वैः कामैर्मनःप्रियैः ॥ ७.६९.४७ ॥

以种种祭祀供奉之后,威严的毗那之子普利图使一切众生满足于所有悦意之愿。

7.69.48

हैरण्यानकरोद्राजा ये केचित्पार्थिवा भुवि ।
तान्ब्राह्मणेभ्यः प्रायच्छदश्वमेधे महामखे ॥ ७.६९.४८ ॥

国王使大地上所有的君主都成为黄金之身,并在伟大的马祭中将他们布施给婆罗门。

7.69.49

स षष्टिं गोसहस्राणि षष्टिं नागशतानि च ।
सौवर्णानकरोद्राजा ब्राह्मणेभ्यश्च तान्ददौ ॥ ७.६९.४९ ॥

他令人制作六万头金牛和六百头金象,把它们布施给婆罗门。

7.69.50

इमां च पृथिवीं सर्वां मणिरत्नविभूषिताम् ।
सौवर्णीमकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ ॥ ७.६९.५० ॥

这整个大地被宝石珍珠装饰,国王将其制成黄金,布施给婆罗门。

7.69.51

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.६९.५१ ॥

Sṛñjaya啊,若他已死,他比你幸运四倍,对你而言比儿子更有功德。所以不要为儿子悲伤。据说,不祭祀、不布施的人走上狗的道路。