Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 7.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

7.7.1

वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् ।
त्रैय्यम्बकमथेष्वस्त्रं शस्त्राणि विविधानि च ॥ ७.७.१ ॥

私はヴェーダとその六肢、そしてマヌの政治学を知っている。トラインバカの武器、矢の武器、そして多様な武器も知っている。

7.7.2

ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः ।
चिकीर्षुस्तानहं सर्वान्योधयिष्यामि पाण्डवान् ॥ ७.७.२ ॥

勝利を望むあなたがたが私に認めた美徳を果たしたいと思い、私はパーンダヴァたちを皆戦わせよう。

7.7.3

पार्षतं तु रणे राजन्न हनिष्ये कथञ्चन ।
स हि सृष्टो वधार्थाय ममैव पुरुषर्षभः ॥ ७.७.३ ॥

王よ、戦場でパールシャタを私は決して殺さない。あの人中の雄牛は、まさに私を滅ぼすために生み出されたのだから。

7.7.4

योधयिष्यामि सैन्यानि नाशयन्सर्वसोमकान् ।
न च मां पाण्डवा युद्धे योधयिष्यन्ति हर्षिताः ॥ ७.७.४ ॥

ソーマカの全軍を滅ぼしながら私は戦う。パーンダヴァたちは喜んでいても、戦いで私と戦うことはないだろう。

7.7.5

स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः ।
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा ॥ ७.७.५ ॥

このように許しを得て、王よ、あなたの息子はしきたりどおりの儀式を行い、ドローナを総司令官に任命した。

7.7.6

अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः ।
स्वस्तिवादरवैश्चान्यैः श्लक्ष्णैश्चान्यैर्मनोरमैः।
सैनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः ॥ ७.७.६ ॥

そこでドゥルヨーダナを筆頭とする王たちは、吉祥の祝福の声や、その他の柔らかく心地よい詠唱とともに、ドローナに灌頂を施した。昔、シャクラを筆頭とする神々がスカンダを総司令官に灌頂したように。

7.7.7

ततो वादित्रघोषेण शङ्खानां च महास्वनैः ।
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा ॥ ७.७.७ ॥

そのとき、楽器の響きと法螺貝の大音響とともに、ドローナが総司令官に任じられると、喜びが湧き起こった。

7.7.8

ततः पुण्याहघोषेण साशीर्वादस्वनेन च ।
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् ॥ ७.७.८ ॥

そのとき、吉日の宣言と祝福の声、賛歌と歌の響き、御者・讃歌歌手・伝令の声とともに。

7.7.9

जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा ।
सत्कृत्य विधिना द्रोणं मेनिरे पाण्डवाञ्जितान् ॥ ७.७.९ ॥

最上のバラモンたちの勝利の叫びと吉祥の舞のなか、規定どおりドローナを敬ったのち、彼らはパーンダヴァたちをすでに打ち破ったと思った。

7.7.10

सैनापत्यं तु संप्राप्य भारद्वाजो महारथः ।
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह ॥ ७.७.१० ॥

総司令官の地位を得た大戦車兵バーラドヴァージャ(ドローナ)は、戦意に燃えて軍勢を陣形に配し、あなたの息子たちとともに進んだ。

7.7.11

सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः ।
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः ॥ ७.७.११ ॥

シンドゥの王、カリンガの王、そしてあなたの息子ヴィカルナは、鎧を身に着けて右翼を取り、そこに立った。

7.7.12

प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः ।
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः ॥ ७.७.१२ ॥

彼らの側翼はシャクニであり、彼は優れた騎兵、ガーンダーラの兵、そして輝く槍をもつ戦士たちとともに進んだ。

7.7.13

कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः ।
दुःशासनमुखा यत्ताः सव्यं पक्षमपालयन् ॥ ७.७.१३ ॥

クリパとクリタヴァルマン、チトラセーナとヴィヴィンシャティ、ドゥフシャーサナを先頭に、備えて左翼を守っていた。

7.7.14

तेषां प्रपक्षाः काम्भोजाः सुदक्षिणपुस्सराः ।
ययुरश्चैर्महावेगैः शकाश्च यवनैः सह ॥ ७.७.१४ ॥

彼らの側翼軍——スダクシナに率いられたカンボージャ族、そしてシャカ族とヤヴァナ族——は疾駆する馬と共に進んだ。

7.7.15

मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यमालवाः ।
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह ॥ ७.७.१५ ॥

マドラ族、トリガルタ族、サーンバシュタ族、西と北のマーラヴァ族、シビ族、シューラセーナ族、シュードラ族、そしてマラダ族と共に。

7.7.16

सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः ।
नवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः ॥ ७.७.१६ ॥

ソーヴィーラ族、キタヴァ族、東と南のすべての民族が、ナヴァの子を先頭に、御者の子の後ろに続いた。

7.7.17

हर्षयन्तः स्वसैन्यानि ययुस्तव सुतैः सह ।
प्रवरः सर्वयोधानां बलेषु बलमादधम् ॥ ७.७.१७ ॥

自軍を鼓舞しながら、あなたの息子たちと共に進んだ——すべての戦士の中で最も優れ、軍勢に力を与えて。

7.7.18

ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् ।
तस्य दीप्तो महाकायः स्वान्यनीकानिहर्षयन् ॥ ७.७.१८ ॥

ヴィカルタナの子カルナが、すべての弓兵の先頭に進んだ。その輝く大きな身体は、自軍を喜ばせた。

7.7.19

हस्तिकक्ष्यो गहाकेतुर्बभौ सूर्यसमद्युतिः ।
न भीष्मव्यसनं कश्चिदृष्ट्वा कर्णममन्यत ॥ ७.७.१९ ॥

象の革帯の印と伽哈の旗を持つカルナは、太陽に等しい輝きで輝いた。カルナを見て、誰もビーシュマの災厄を災厄とは思わなかった。

7.7.20

विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह ।
हृष्टाश्च बहवो योधास्तत्राजल्पन्त वेगतः ॥ ७.७.२० ॥

クル族と共にいた諸王はみな憂いを去り、喜んだ多くの戦士たちは熱心に大声で語り始めた。

7.7.21

न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः ।
कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् ॥ ७.७.२१ ॥

まことに、戦場でカルナを見れば、パーンドゥの子らは戦いで踏みとどまれまい。カルナは戦いにおいてヴァーサヴァと共にいる神々をも打ち破る力があるからだ。

7.7.22

किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् ।
भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना ॥ ७.७.२२ ॥

まして戦いで勇気と武勇の衰えたパーンドゥの子らは言うまでもない。戦場でプリター の子らは腕力に優れたビーシュマに守られていた。

7.7.23

तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यति संयुगे ।
एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशांपते ॥ ७.७.२३ ॥

カルナが鋭い矢で戦いにおいて彼らを滅ぼすだろう。人々の主よ、このように互いに語りながら、彼らは喜びの顔をしていた。

7.7.24

राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः ।
अस्माकं शकटव्यूहों द्रोणेन विहितोऽभवत् ॥ ७.७.२४ ॥

ラーダーの子を敬い称えながら彼らは出陣した。我らの車陣はドローナによって組まれていた。

7.7.25

परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् ।
प्रीयमाणेन विहितो धर्मराजेन भारत ॥ ७.७.२५ ॥

王よ、敵軍の陣形はクラウンチャであった。バーラタよ、喜べるダルマ王が偉大な者たちのために布陣したのだ。

7.7.26

व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ ।
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ ॥ ७.७.२६ ॥

彼らの陣の先頭に、人中の二頭の牡牛が立ち、猿の旗を掲げていた。ヴィシュヴァクセーナとダナンジャヤである。

7.7.27

ककुदं सर्वसैन्यानां धाम सर्वधनुष्मताम् ।
आदित्यपथगः केतुः पार्थस्यामिततेजसः ॥ ७.७.२७ ॥

全軍の頂、全弓手の輝き。太陽の道を進む、無限の威光を持つパールタの旗である。

7.7.28

दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः ।
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम् ॥ ७.७.२८ ॥

その軍勢を、偉大なパーンダヴァの軍として照らし出した。ユガの終わりに燃え盛る太陽が大地を照らすように。

7.7.29

दीप्यन्दृश्येत हि तथा केतुः सर्वत्र धीमतः ।
योधानामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् ॥ ७.७.२९ ॥

同様に、賢者の旗はあらゆる所で輝いて見えた。アルジュナは戦士の中で最も優れ、ガーンディーヴァは弓の中で最も優れている。

7.7.30

वासुदेवश्च भूतानां चक्राणां च सुदर्शनम् ।
चत्वार्येतानि तेजाञ्सि वहञ्श्वेतहयो रथः ॥ ७.७.३० ॥

ヴァースデーヴァは生きものの中で最も優れ、スダルシャナは円盤の中で最も優れる。この四つの威光を白馬の戦車が運んでいた。

7.7.31

परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् ।
एवं तौ सुमहात्मानौ बलसेनाग्रगावुभौ ॥ ७.७.३१ ॥

彼は敵の前に立った、掲げられた時輪のように。こうして偉大な二人は軍勢の先頭を進んだ。

7.7.32

तावकानां मुखे कर्णः परेषां च धनंजयः ।
ततो जयाभिसंरब्धौ परस्परवधैषिणौ ॥ ७.७.३२ ॥

あなた方の側の先頭はカルナ、敵側はダナンジャヤ。そして勝利を求めて怒り、互いの死を求めた二人。

7.7.33

अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ ।
ततः प्रयाते सहसा भारद्वाजे महारथे ॥ ७.७.३३ ॥

戦いの中で、カルナとパーンダヴァは互いを見つめた。その時、大戦車手バーラドヴァージャ(ドローナ)が突如前進した。

7.7.34

सिंहनादेन घोरेण वसुधा समकम्पत ।
ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् ॥ ७.७.३४ ॥

恐ろしい獅子の咆哮に大地は震えた。そして騒がしい空は太陽もろとも全てを覆った。

7.7.35

वातोद्भूतं रजस्तीव्रं कौशेयनिकरोपमम् ।
ववर्ष द्यौरनभ्राऽपि मांसास्थिरुधिराण्युत ॥ ७.७.३५ ॥

風に舞い上がった激しい砂塵は絹の山のようだった。雲もないのに空は肉と骨と血を降らせた。

7.7.36

गृध्राः श्येना बकाः कङ्का वायसाश्च सहस्रशः ।
उपर्युपरि सेनां ते तदा पर्यपतन्नृप ॥ ७.७.३६ ॥

王よ!そのとき、ハゲワシ、タカ、サギ、ツル、カラスが何千羽となって軍勢の上空を舞い、急降下した。

7.7.37

गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् ।
अकार्षुरपसव्यं च बहुशः पृतनां तव ॥ ७.७.३७ ॥

ジャッカルは恐ろしく身の毛もよだつ叫びを上げ、幾度も左回りにあなたの軍を取り巻いた。不吉な前兆であった。

7.7.38

चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् ।
अपतद्दीप्यमाना च सनिर्घाता सकम्पना ॥ ७.७.३८ ॥

肉を食らい血を飲みたいと望み、それらは舞い回った。燃える流星が雷鳴と震動を伴って落ちた。

7.7.39

उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः ।
परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् ॥ ७.७.३९ ॥

戦場で燃える流星がその尾であたり一面を取り囲み、大きな暈も雷と稲妻を伴って現れた。

7.7.40

भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ ।
एते चान्ये च बहवः प्रादुरासन्सुदारुणाः।
उत्पाता युधि वीराणां जीवितक्षयकारिणः ॥ ७.७.४० ॥

王よ、軍の指揮官が出発したとき、太陽に異変が起きた。これらやほかの非常に恐ろしい凶兆が現れ、戦場で勇士たちの命を奪うものであった。

7.7.41

ततः प्रववृते युद्धं परस्परवधैषिणाम् ।
कुरुपाण्डवसैन्यानां शब्देनापूरयज्जगत् ॥ ७.७.४१ ॥

そのとき、互いの死を望むクル族とパーンドゥ族の軍勢の間で戦いが始まり、その響きは世界を満たした。

7.7.42

ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह ।
अभ्यघ्नन्निशितैः शस्त्रैर्जयगृद्धाः प्रहारिणः ॥ ७.७.४२ ॥

パーンダヴァとカウラヴァは互いに激怒し、勝利を渇望して鋭い武器で打ち合った。

7.7.43

स पाण्डवानां महतीं महेष्वासो महाद्युतिः ।
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः ॥ ७.७.४३ ॥

その大弓手は大いなる輝きを放ち、パーンダヴァの大軍へ疾風のように襲いかかり、鋭い矢を百本も撒き散らした。

7.7.44

द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सहसृञ्जयैः ।
प्रत्यगृह्णंस्तदा राजञ्छरवर्षैः पृथक्पृथक् ॥ ७.७.४४ ॥

ドローナが迫るのを見て、パーンダヴァたちはスリンジャヤ族とともに、王よ、次々と矢の雨で彼に立ち向かった。

7.7.45

विक्षोभ्यमाणआ द्रोणेन भिद्यमाना महाचमूः ।
व्यशीर्यत सपाञ्चाला वातेनेव वलाहकाः ॥ ७.७.४५ ॥

ドローナに混乱させられ引き裂かれた大軍は、パーンチャーラ族とともに、風に散らされる雲のように四散した。

7.7.46

बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे ।
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् ॥ ७.७.४६ ॥

戦場で数多くの神の武器を繰り出し、ドローナは一瞬のうちにパーンダヴァとスリンジャヤ族を苦しめた。

7.7.47

ते वध्यमाना द्रोणेन वासवेनेव दानवाः ।
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः ॥ ७.७.४७ ॥

ドローナに討たれ、ドリシュタデュムナに率いられたパーンチャーラ族は、ヴァーサヴァ(インドラ)に討たれたダーナヴァのように震え上がった。

7.7.48

ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः ।
अभिनच्छरवर्षेण द्रोणानीकमनेकधा ॥ ७.७.४८ ॥

そのとき、神の武器に通じた勇士、大戦車兵ヤージュニャセーニは、矢の雨でドローナの軍を幾通りにも突き破った。

7.7.49

द्रोणस्य शरवर्षाणि शरवर्षेण पार्षतः ।
सन्निवार्य ततः सर्वान्कुरूनप्यवधीद्बली ॥ ७.७.४९ ॥

ドローナの矢の雨をパールシャタ(パーシャタ)が自らの矢の雨で防ぎ、そして力強き者はクル族の全員をも討ち倒した。

7.7.50

संयम्य तु ततो द्रोणः समवस्थाप्य चाहवे ।
स्वमनीकं महेष्वासः पार्षतं समुपाद्रवत् ॥ ७.७.५० ॥

そこでドローナは自制して戦場に自軍を布陣させ、その大弓の名手はパールシャタに向かって突進した。

7.7.51

स बाणवर्षं सुमहदसृजत्पार्षतं प्रति ।
मघवान्समभिक्रुद्धः सहसा दानवानिव ॥ ७.७.५१ ॥

彼はパールシャタに向けて非常に大きな矢の雨を浴びせた。怒り狂ったインドラが突然ダーナヴァたちに降り注ぐように。

7.7.52

ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः ।
पुनःपुनरभज्यन्त सिंहेनैवेतरे मृगाः ॥ ७.७.५२ ॥

ドローナの矢に震えたパーンダヴァとスリンジャヤは、幾度も打ち砕かれた。獅子に他の鹿が散らされるように。

7.7.53

तथा पर्यपतद्रोणः पाण्डवानां बले बली ।
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् ॥ ७.७.५३ ॥

王よ、力強きドローナはパーンダヴァの軍中をこのように旋回した。燃え木の輪のように。それは驚異的なものとなった。

7.7.54

खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्लादनं वल्गिताश्वम् ।
स्फटिकविमलकेतुं त्रासनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम् ॥ ७.७.५४ ॥

天空を行く者たちの都のように、聖典の規定に従って作られ、風にたなびく旗を持ち、喜ばしく、跳ね回る馬を備え、水晶のように澄んだ旗を掲げ、敵を恐れさせる優れた戦車に登り、彼は敵軍を退けた。