Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.73

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.73.1

त्वयि याते महाबाहो संशप्तकबलं प्रति ।
प्रयत्नमकरोत्तीव्रमाचार्यो प्रहणे मम ॥ ७.७३.१ ॥

大臂者啊,当你前往对抗三誓者军队时,师尊德罗纳在与我的战斗中作出了猛烈的努力。

7.73.2

व्यूढानीकं ततो द्रोणं यतमानं महामृधे ।
प्रतिव्यूह्य सहानीकाः प्रत्यरुध्म वयं बलात् ॥ ७.७३.२ ॥

于是,我们布阵排兵,与众军一起以对阵之阵,强力抵挡在大战中奋力作战的德罗纳。

7.73.3

स वार्यमाणो रथिभिर्मयि चापि सुरक्षिते ।
अस्मानभिजगामाशु पीडयन्निशितैः शरैः ॥ ७.७३.३ ॥

尽管被车兵所阻,我也已做好防护,他仍迅速向我们逼来,以利箭折磨我们。

7.73.4

ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः ।
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु ॥ ७.७३.४ ॥

我们受德罗纳所苦,在战场上连正视德罗纳的军队都做不到,更谈不上冲破它。

7.73.5

ततस्तमप्रतिरथमहं सौभद्रमब्रवम् ।
द्रोणानीकमिदं भिन्द्धि द्वारं सञ्जनयस्व नः ॥ ७.७३.५ ॥

于是我对那位无与伦比的车战者、苏跋陀罗之子说:‘冲破德罗纳的这支军队,为我们开出一道门。’

7.73.6

स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् ।
असह्यमपि तं भारं वोढुमेवोपचक्रमे ॥ ७.७३.६ ॥

在我们这样催促之下,他如良马般勇武,开始承担那无法承受的重担。

7.73.7

स तवास्त्रोपदेशेन वीर्येण च समन्वितः ।
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् ॥ ७.७३.७ ॥

这位具备武艺教导与勇力的少年,进入那支军队,如金翅鸟进入大海。

7.73.8

तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे ।
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् ॥ ७.७३.८ ॥

我们在战斗中追随那位英雄,即萨特瓦蒂之子,想要沿着他进入军队的同一条路进入。

7.73.9

ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः ।
वरदानेन रुद्रस्य सर्वान्नः समवारयत् ॥ ७.७३.९ ॥

那时,信度国王、卑劣的胜车,亲爱的,凭借楼陀罗的恩赐,阻挡了我们所有人。

7.73.10

ततो द्रोणः कृपः कर्णो द्रौणिः कौसल्य एव च ।
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् ॥ ७.७३.१० ॥

于是德罗纳、克利巴、迦尔纳、德罗纳之子、考萨利耶与克里塔瓦尔曼,这六位车战勇士包围了苏跋陀罗之子。

7.73.11

परिवार्य तु तैः सर्वैर्युधि बालो महारथैः ।
यतमानः परं शक्त्या बहुभिर्विरथीकृतः ॥ ७.७३.११ ॥

在战斗中被所有那些大车战士包围,这少年竭尽全力抵抗,却被众多敌人夺去了战车。

7.73.12

ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् ।
संशयं परमं प्राप्तं पदातिनमवस्थितम्।
गदाहस्तोऽभ्ययात्तूर्णं जिघांसुरपराजितम् ॥ ७.७३.१२ ॥

于是难降之子想要杀死那位不败的少年。少年已被他们夺去战车,在极大的危险中徒步而立,难降之子手持棍棒,迅速向他冲去。

7.73.13

गदिनं त्वथ तं दृष्ट्वा वासवस्यात्मजात्मजः ।
स जग्राह गदां वीरो गदायुद्धविशारदः ॥ ७.७३.१३ ॥

看见他手持鎚棒,因陀罗之孙的儿子那位英雄也拿起了鎚棒;他精通鎚棒之战。

7.73.14

गदामण्डलमार्गस्थौ सर्वक्षत्रस्य पश्यतः ।
तौ सम्प्रजग्मतुर्वीरावन्योन्यस्यान्तरैषणौ ॥ ७.७३.१४ ॥

两位英雄立于鎚棒的回旋之路上,在所有刹帝利的注视下,彼此逼近,寻找对方的空隙。

7.73.15

तावन्योन्यं गदाग्राभ्यां ताडितौ युद्धदुर्मदौ ।
इन्द्रध्वजाविवोत्सृष्टौ गतसत्वौ महींगतौ ॥ ७.७३.१५ ॥

二人因战斗的狂怒,以鎚棒之端彼此击打;如因陀罗之旗般被击倒,失去生命地倒在大地上。

7.73.16

दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः ।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥ ७.७३.१६ ॥

增益俱卢荣誉的难降之子起身,用鎚棒击打正再度起身的苏跋陀罗(阿毗曼尤)的头部。

7.73.17

गदावेगेन महता व्यायामेन च मोहितः ।
विमना न्यपतद्भूमौ सौभद्रः परवीरहा ॥ ७.७३.१७ ॥

因鎚棒的巨大冲力与用力过度而昏迷,灭除敌方英雄的苏跋陀罗心神恍惚,倒在地上。

7.73.18

स तु हत्वा सहस्राणि द्विपाश्वरथपत्तिनाम् ।
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् ॥ ७.७३.१८ ॥

他杀死了象、马、车与步卒的数千,又杀死了最杰出的一百位王子,以及许多未被看见的英雄。

7.73.19

बृहद्बलं च राजानं स्वर्गेण समयोजयत् ।
गतः सुकृतिनां लोकान्ये च स्वर्गजितां शुभाः ॥ ७.७३.१९ ॥

他也把国王广力送往天界,并前往善人及赢得天界者的吉祥世界。

7.73.20

अदीनस्त्रासयञ्छत्रून्नन्दयित्वा च बान्धवान् ।
असकृन्नाम विश्राव्य पितॄणां मातुलस्य च ॥ ७.७३.२० ॥

他无所畏惧,使敌人胆寒,使亲族欢喜,屡次使父亲们与舅舅的名声广为传扬。

7.73.21

वीरो दिष्टान्तमापन्नः शोचयन्वान्धवान्बहून् ।
ततः स्म शोकसन्तप्ता भवताऽद्य समेयुषः ॥ ७.७३.२१ ॥

这位英雄到达了命运注定的终点,使许多亲族陷入悲伤;因此今日与你相见的我们,被忧愁煎熬。

7.73.22

एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् ।
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् ॥ ७.७३.२२ ॥

我们所遭遇的只有这些,它增添了我们的悲伤;人中之虎就这样到达了天界。

7.73.23

ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् ।
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि ॥ ७.७३.२३ ॥

此时阿周那听了法王所说的话,叹息道:“唉,儿啊!”悲痛之中倒在了地上。

7.73.24

विषण्णवदनाः सर्वे परिवार्य धनञ्जयम् ।
नेत्रैरनिमिषैर्दीनाः प्रत्यवैक्षन्परस्परम् ॥ ७.७३.२४ ॥

众人面容哀戚,围绕着财主(阿周那),悲伤地以不眨的眼睛彼此相望。

7.73.25

प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्च्छितः ।
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः ॥ ७.७३.२५ ॥

随后恢复知觉的婆薮(阿周那)因愤怒而昏厥,如发烧般颤抖,一次又一次地叹息。

7.73.26

पाणिं पाणौ विनिष्पिष्य दन्तान्कटकटाय्य च ।
त्रिशिखां भ्रुकुटीं कृत्वा क्रोधसंरक्तलोचनः।
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् ॥ ७.७३.२६ ॥

他双手相互紧压,咬牙切齿,皱起三道眉纹,双眼因愤怒而通红,像疯子一样四下张望,说出了这番话。

7.73.27

सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ताऽजयद्रथम् ।
न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति ॥ ७.७३.२७ ॥

我向你们真诚地发誓:明天我将杀死胜车。除非他因畏惧死亡而抛弃持国之子。

7.73.28

न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् ।
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् ॥ ७.७३.२८ ॥

如果他不向我们、向最优的人克里希那,或向您,伟大的君王寻求庇护,明天我将杀死胜车。

7.73.29

धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् ।
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् ॥ ७.७३.२९ ॥

胜车,他讨好持国之子,忘记了对我的友情,是杀害少年的罪恶根源——明天我将杀死他。

7.73.30

रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन ।
अपि द्रोणकृपौ राजञ्छादयिष्यामि ताञ्छरैः ॥ ७.७३.३० ॥

凡在战中护卫他而与我交战的人——即使是德罗纳和克里帕,王啊——我也要用箭把他们遮盖。

7.73.31

यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः ।
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसम्मतान् ॥ ७.७३.३१ ॥

诸位人中雄牛啊,若我在战场上不这样做,愿我得不到英雄所赞许的有福德者之世界。

7.73.32

ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् ।
गुरुदारगतानां ये पिशुनानां च ये सदा ॥ ७.७३.३२ ॥

弑母者之世界,弑父者之世界,亲近师母者之世界,以及常常进谗者之世界,

7.73.33

साधूनसूयतां ये च ये चापि परिवादिनाम् ।
ये च निक्षेपहन्तॄणां ये च विश्वासघातिनाम् ॥ ७.७३.३३ ॥

嫉妒善人者之世界,诽谤者之世界,毁坏寄存者之世界,以及背信者之世界,

7.73.34

भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् ।
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि ॥ ७.७३.३४ ॥

先行享用妇人者之世界,诽谤与说恶言者之世界,杀婆罗门者之世界,以及杀牛者之世界,

7.73.35

पायसं वा यवान्नं वा शाकं कृसरमेव वा ।
संयावापूपमांसानि ये च लोका वृथाश्नताम्।
तानन्हायाधिगच्छेयं न चेद्धन्यां जयद्रथम् ॥ ७.७३.३५ ॥

徒然食用乳糜饭、大麦食、菜肴、粥饭、甜面、饼与肉者之世界,若我不杀胜车,愿我得到那些世界。

7.73.36

वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् ।
अवमन्यमानो यान्याति वृद्धान्साधून्गुरूंस्तथा ॥ ७.७३.३६ ॥

轻视诵习吠陀者或极为精敏的上等再生者,同样轻视长者、善人与师长者所往之世界,

7.73.37

स्पृशतो ब्राह्मणं गां च पादेनाग्निं च या भवेत् ।
याऽप्सु श्लेष्म पुरीषं च मूत्रं वा मुञ्चतां गतिः।
तां गच्छेयं गतिं कष्टां न चेद्धन्यां जयद्रथम् ॥ ७.७३.३७ ॥

若我不杀死胜车,愿我堕入那些以脚触碰婆罗门、牛或火、又在水中吐痰、排泄粪便或小便之人所遭的那种苦难之道。

7.73.38

नग्नस्य स्नायमानस्य या च वन्ध्याऽतिथेर्गतिः ।
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः ॥ ७.७३.३८ ॥

赤身沐浴者、对客人毫无助益者,以及受贿者、说谎者和欺诈者所遭之道。

7.73.39

आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् ।
भृत्यैः सन्दृश्यमानानां पुत्रदाराश्रितैस्तथा ॥ ७.७३.३९ ॥

窃取自身者、诬告他人者的去处,以及被仆人轻视、依赖妻儿生活者的去处,也是如此。

7.73.40

असंविभज्य क्षुद्राणां या गतिर्मिष्टमश्नताम् ।
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् ॥ ७.७३.४० ॥

若我不杀死胜车,愿我堕入那些不与人分享便独自吃甜食的卑劣之人所遭的可怖之道。

7.73.41

संश्रितं चापि यस्त्यक्त्वा साधुं तद्वचने रतम् ।
न बिभर्ति नृसंसात्मा निन्दते चोपकारिणम् ॥ ७.७३.४१ ॥

抛弃依附于己的人以及遵从其言的善人,以残忍之心不加供养,反而诽谤施恩于己的人。

7.73.42

अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च ।
अनर्हेभ्यश्च यो दद्याद्वृषलीपतये तथा ॥ ७.७३.४२ ॥

不以祭供奉给应得的邻人,却奉献给不配之人,又奉献给首陀罗女子的丈夫。

7.73.43

मद्यपो भिन्नमर्यादः कृतघ्नो भर्तृनिन्दकः ।
तेषां गतिमियां क्षिप्रं न चेद्धान्यां जयद्रथम् ॥ ७.७३.४३ ॥

嗜酒者、逾越礼法者、忘恩者、诽谤其主者——若我不杀胜车,我将迅速使他们走向那样的归宿。

7.73.44

भुञ्जानानां तु सव्येन उत्सङ्गे चापि खादताम् ।
पालाशमासनं चैव तिन्दुकैर्दन्तधावनम् ॥ ७.७३.४४ ॥

用左手、把食物放在膝上进食者,边嚼边吃者;坐在palāśa木座上者,以tinduka木枝刷牙者。

7.73.45

ये चावर्जयतां लोकाः स्वपतां च तथोषसि ।
शीतभीताश्च ये विप्रा रणभीताश्च क्षत्रियाः ॥ ७.७३.४५ ॥

那些背弃者与黎明时仍睡觉者所至之界;畏寒的婆罗门与畏战的刹帝利所至之界。

7.73.46

एककूपोदकग्रामे वेदध्वनिविवर्जिते ।
षण्मासं तत्र वसतां तथा शास्त्रं विनिन्दताम् ॥ ७.७३.४६ ॥

在只有一口井、没有吠陀诵声的村庄里住满六个月者,以及诽谤经典者所至之界。

7.73.47

दिवामैथुनिनां चापि दिवसेषु च शेरते ।
अगारदाहिनां चैव गरदानां च ये मताः ॥ ७.७३.४७ ॥

白日行房及白日睡眠者;被视为焚烧房舍和投毒者的人。

7.73.48

अग्न्यातिथ्यविहीनाश्च गोपानेषु च विघ्नदाः ।
रजस्वलां सेवयन्तः कन्यां शुल्केन दायिनः ॥ ७.७३.४८ ॥

缺少火祭与待客之礼、阻挠牧人者;与经期女子交合、为聘礼而嫁女者。

7.73.49

या च वै बहुयाजिनां ब्राह्मणानां श्ववृत्तिनाम् ।
आस्यमैथुनिकानां च ये दिवामैथुने रताः ॥ ७.७३.४९ ॥

无论那些行多次祭祀的婆罗门、过狗一般生活的婆罗门、行口交之事的人,以及白天沉迷于交合的人,将得何等归宿——

7.73.50

ब्राह्मणस्य प्रतिश्रुत्य यो वै लोभाद्ददाति न ।
तेषां गतिं गमिष्यामि श्वो न हन्यां जयद्रथम् ॥ ७.७३.५० ॥

那许诺给婆罗门却因贪婪而不予的人所走的道路,若明日我不杀死胜车,我便将走上那条路。

7.73.51

धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः ।
ये चानुकीर्तितास्तेषां गतिं क्षिप्रमवाप्नुयाम् ॥ ७.७३.५१ ॥

其他背离法道的人,我在此未曾提及者,以及已提及者——愿我迅速获得他们的归宿。

7.73.52

यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् ।
इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत ॥ ७.७३.५२ ॥

若此夜过去,明日我不杀死胜车,请再听听我的另一誓言。

7.73.53

यद्यस्मिन्न हत्ते पापे सूर्योऽस्तमुपयास्यति ।
इहैव सम्प्रवेष्टाऽहं ज्वलितं जातवेदसम् ॥ ७.७३.५३ ॥

若在这罪人被杀之前太阳落山,我便将在此处投入熊熊烈火之中。

7.73.54

असुरसुरमनुष्याः पक्षिणो वोरगा वा ।
पितृरजनिचरा वा ब्रह्मदेवर्षयो वा।
चरमचरमपीदं यत्परं चापि तस्मा… ।
त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः ॥ ७.७३.५४ ॥

阿修罗、诸天与人类,飞禽或蛇,祖灵与夜叉,梵天、诸神与仙人,一切动物与植物,乃至那至上者——他们都无法保护我那个敌人。

7.73.55

यदि विशति रसातलं तदग्र्यं ।
वियदपि देवपुरं दितेः पुरं वा।
तदपि शरशतैरहं प्रभाते ।
भृशमभिमन्युरिपोः शिरोऽभिहर्ता ॥ ७.७३.५५ ॥

即使他进入地下世界、天空、诸神之城或提提之城,我也必在黎明时以百箭斩下阿毗摩宇之敌的头颅。

7.73.56

एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् ।
तस्य सर्वमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् ॥ ७.७३.५६ ॥

说罢,他以左右手挥动甘狄拔弓;那弓弦之声超越一切,触及了天空。

7.73.57

अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः ।
प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं च फल्गुनः ॥ ७.७३.५७ ॥

阿周那立誓之时,怒火中烧的遮那陀那吹响了般遮若耶贝螺,而般古那吹响了天授螺。

7.73.58

स पाञ्चजन्योऽच्युतवक्त्रवायुना ।
भृशं सुपूर्णोदरनिःसृतध्वनिः।
जगत्सपातालवियद्दिगीश्वरं ।
प्रकम्पयामास युगात्यये यथा ॥ ७.७३.५८ ॥

那贝螺由阿曲多之口的气息吹动,其声从充盈的腹中发出,使世界连同地下、天空与方位之主都剧烈震颤,如同劫末之时。

7.73.59

ततो वादित्रघोषाश्च प्रादुरासन्सहस्रशः ।
सिंहनादश्च पाण्डूनां प्रतिज्ञाते महात्मना ॥ ७.७३.५९ ॥

于是,待那大德者立誓之时,成千上万的乐器之声响起,般度之子也发出狮子般的吼声。

7.73.60

प्रानृत्यदिव गाण्डीवं शरास्तूणीगता मुदा ।
निराक्रामन्निव तदा स्वयमेव मृधैषिणः ॥ ७.७३.६० ॥

甘狄拔弓仿佛欢喜而舞,箭囊中的箭矢仿佛渴望战斗,自己便要飞出。

7.73.61

भीमसेनः सुसंहृष्टः प्रत्यभाषत भारत ।
धनञ्जयमभिप्रेक्ष्य हर्षगद्गदया गिरा ॥ ७.७३.६१ ॥

婆罗多啊!极为欢喜的毗摩森那看着檀那阇耶,以喜悦哽咽的声音回答。

7.73.62

प्रतिज्ञोद्भवशब्देन कृष्णशङ्खस्वनेन च ।
निहतो धार्तराष्ट्रोऽयं सानुबन्धः सुयोधनः ॥ ७.७३.६२ ॥

伴随着誓言所发之声与黑天的海螺声,持国之子难敌连同其随从已被杀死。

7.73.63

अथ मृदिततमाग्र्यदाममाल्यं ।
तव सुतशोकमयं च रोषजातम्।
व्यपनुदति महाप्रभावसेन… ।
न्नरवर वाक्यमिदं महार्थमिष्टम् ॥ ७.७३.६३ ॥

那时,花环被压碎的他,驱散着由你诸子之悲痛与愤怒所生的……强大军队……哦,人中之杰,这是意义重大的悦耳之言。

7.73.64

अथ शङ्ख्यैश्च भेरीभिः पणवैः सैनिकास्तथा ।
ससूतमागधा जिष्णुं स्तुतिभिः समपूजयन् ॥ ७.७३.६४ ॥

于是士兵们伴着海螺、大鼓与小鼓,与御者和赞颂者一同,以颂词充分礼敬胜利者阿周那。

7.73.65

तदा भीमं बलं सर्वे तेन नादेन मोहितम् ।
तावकं तन्महाराज विषण्णं समपद्यत ॥ ७.७३.६५ ॥

大王啊!那时,你的全军被那可怕的声音所迷惑,都变得沮丧了。