摩诃婆罗多 · 章 7.78
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.78.1
एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः ।
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता ॥ ७.७८.१ ॥
苏跋陀罗听到大德克舍婆的这些话,因丧子之痛而悲泣不已,极为哀伤。
7.78.2
हा पुत्रा मम मन्दायाः कथमेत्यासि संयुगम् ।
निधनं प्राप्तवांस्तात पितुस्तुल्यपराक्रमः ॥ ७.७८.२ ॥
唉,我的儿子,不幸者之子!你怎么就上了战场?亲爱的孩子,你的勇武与父亲相当,却已身亡。
7.78.3
कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् ।
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना ॥ ७.७८.३ ॥
孩子啊,你那如青莲般黝黑、牙齿秀美、眼睛迷人的脸庞,怎么竟被战场的尘土覆盖着?
7.78.4
नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् ।
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं नतोदरम् ॥ ७.७८.४ ॥
他们必定看到你了,英雄啊,你倒下了,却从未退缩;头颈、双臂与肩膀都那样匀称,胸膛宽阔,腹部纤细。
7.78.5
चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् ।
भूतानि त्वां निरीक्षन्ते भूमौ चन्द्रमिवोदितम् ॥ ७.७८.५ ॥
你全身匀称,形貌俊美,却布满兵刃的创伤,众生看见你卧于地上,恰如升起的明月。
7.78.6
शयनीयं पुराऽध्युष्य स्पर्ध्यास्तरणसंवृतम् ।
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः ॥ ७.७८.६ ॥
你昔日安卧于华美锦被覆盖的卧榻之上,本应享受安逸,今日却如被弃之物般躺在地上,这是为何?
7.78.7
योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः ।
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे ॥ ७.७८.७ ॥
那位曾被优秀女子侍奉的大臂英雄,今日倒在战场上,为何竟被豺狼所环绕?
7.78.8
योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः ।
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्येत ॥ ७.७८.८ ॥
昔日被欢欣的御者、摩揭陀歌者和赞颂者所颂扬的人,今日却被咆哮的可怕食肉之群所围绕。
7.78.9
पाण्डवेषु च नाथेषु वृष्णिवीरेषु वा विभो ।
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् ॥ ७.७८.९ ॥
啊,大能者!潘杜之子、韦须尼英雄和般遮罗的英雄中都有他的保护者,他却如无依无靠者一般,被何人所杀?
7.78.10
यत्र त्वं केशवे नाथे सत्यनाथो यथा हतः ।
अतृप्तदर्शना पुत्र दर्शनस्य तवानघ।
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् ॥ ७.७८.१० ॥
虽然克沙华是他的保护者,他却如同有真正保护者的人一般被杀。啊,无罪的儿子!我未能看够你,命运不济的我,今日必将前往阎摩之所。
7.78.11
विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च ।
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् ॥ ७.७८.११ ॥
啊,儿子!宽阔的眼睛、美丽的发际、温柔的言语、芬芳的气息,你那无伤的面容,我何时才能再见?
7.78.12
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।
धिग्वीर्यं वृष्णिवीराणां चाञ्चालानां च धिग्बलं ॥ ७.७८.१२ ॥
耻辱于毗摩森那之力!耻辱于弓手中最优秀的普利塔之子、帕尔特之力!耻辱于韦须尼英雄之勇,耻辱于般遮罗之力!
7.78.13
धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् ।
ये त्वां रणगतं वीरं न शेकुरभिरक्षितुम् ॥ ७.७८.१३ ॥
羞辱啊,凯迦耶人、遮底人、摩蹉人和娑琼遮人!他们竟不能保护奔赴战场的你的英雄!
7.78.14
अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् ।
अभिमन्युमपश्यन्ती शोकव्याकुललोचना ॥ ७.७८.१४ ॥
今天我看到大地空荡荡、失去光彩,我的双眼因悲痛而迷乱,再也见不到阿毗曼尤。
7.78.15
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डवीधन्वनः ।
कथं त्वाऽतिरथं वीरं द्रक्ष्याम्यद्य निपातितम् ॥ ७.७८.१५ ॥
你是婆苏提婆的外甥,持甘狄拔弓者的儿子,大车战士英雄,今日见你倒下,我如何是好?
7.78.16
एह्येहि तृषितो वत्स स्तनौ पूर्णौ पिबाशु मे ।
अङ्कमारुह्य मन्दाया ह्यतृप्तायाश्च दर्शने ॥ ७.७८.१६ ॥
来吧,来吧,孩子,你渴了;快从我饱满的乳房中吮吸。爬上我的膝上吧,给这个不幸的、见了你仍不满足的人。
7.78.17
हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे ।
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् ॥ ७.७८.१७ ॥
哎,英雄!你刚出现便消失了,我的珍宝,你如同一场梦。唉,人生何其无常,如水泡般飘忽不定!
7.78.18
इमां ते तरुणीं भार्यां तवाधिभिरभिप्लुताम् ।
उत्तरामुत्तमां जात्या सुशीलां प्रिय भाषिणीम् ॥ ७.७८.१८ ॥
你这年轻的妻子优多罗,被心中的苦痛所淹没,出身高贵,品德良好,言语悦人。
7.78.19
शनकैः परिरभ्यैनां स्नुषां मम यशस्विनीम् ।
सुकुमारीं विशालाक्षीं पूर्णचन्द्रनिभाननाम् ॥ ७.७८.१९ ॥
轻轻拥抱我这位光荣的儿媳,她柔弱、眼睛明亮,面容如满月。
7.78.20
बालपल्लवतन्वङ्गीं मत्तमातङ्गगामिनीम् ।
बिम्बाधरोष्ठीमबलामभिमन्यो प्रहर्षय ॥ ७.७८.२० ॥
身体纤细如嫩芽,行步如醉象,唇色如红瓜果,这位柔弱的女子,阿毗曼尤啊,请让她欢喜吧。
7.78.21
त्वया विना कथं पुत्र जीर्णां पतितमानसाम् ।
इमां सन्धारयिष्यामि वृषभादिव धेनुकाम् ॥ ७.७८.२१ ॥
孩子啊,没有你,这个憔悴、心碎的女子,我该如何扶持?就像公牛护持母牛一样?
7.78.22
अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक ।
विहाय फलकाले मां सुगृद्धां तव दर्शने ॥ ७.७८.२२ ॥
唉!亲爱的孩子,你在不当的时候远行,抛下我——在收获之时,我是多么渴望见到你。
7.78.23
नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा ।
यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः ॥ ७.७८.२३ ॥
死神的道路,即使智者也极难知晓;你有克沙婆作为庇护,却在战场上如无依无靠之人般被杀。
7.78.24
यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् ।
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् ॥ ७.७८.२४ ॥
你已前往那些行祭祀、好布施、婆罗门、自制者、守梵行、在圣渡口沐浴者的世界。
7.78.25
कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि ।
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि ॥ ७.७८.२५ ॥
愿你获得感恩者、慷慨者、侍奉师长者以及施予千份布施者的归宿。
7.78.26
या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् ।
हत्वारीन्निहतानां च सङ्ग्रामे तां गति व्रज ॥ ७.७८.२६ ॥
前往那些作战的、不退缩的勇士、杀敌者以及战死沙场者的归宿。
7.78.27
गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः ।
नैवेशिकं चाभिमतं ददतां या गतिः शुभा ॥ ७.७८.२७ ॥
施予千头牛者、施予祭祀布施者,以及施予心爱居所者所得的吉祥归宿。
7.78.28
ब्राह्मणेभ्यः शरण्येभ्यो निधिं निदधतां च या ।
या चापि न्यस्तदण्डानां तां गतिं व्रज पुत्रक ॥ ७.७८.२८ ॥
孩子啊,前往那些将财宝托付给可依靠的婆罗门者,以及放下刑杖者的归宿。
7.78.29
ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः ।
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक ॥ ७.७८.२९ ॥
孩子啊,前往苦行坚定的圣者因梵行而到达的归宿,以及专一于一位丈夫的女子所到达的归宿。
7.78.30
राज्ञा सुचरितैर्या च गतिर्भवति शाश्वती ।
चरमाश्रमिणां पुण्यैः सेवितानां पुरः स्थितैः ॥ ७.७८.३० ॥
君王因善行所得的永恒归宿,以及处于人生末期者——由功德所护、立于其前者——的归宿。
7.78.31
दीनानुकम्पिनां या च सततं संविभागिनाम् ।
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक ॥ ७.७८.३१ ॥
凡怜悯贫弱、常常分享财物、远离谗言者所得的归宿,孩儿啊,你当前往那归宿。
7.78.32
व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि ।
अमोघातिथिनां या च तां गतिं व्रज पुत्रक ॥ ७.७८.३२ ॥
凡持守誓愿、本性守法、侍奉师长、从不让客人失望者所得的归宿,孩儿啊,你当前往那归宿。
7.78.33
कृच्छ्रेषु या धारयतामात्मानं व्यसनेषु च ।
गतिः शोकाग्निदग्धानां तां गतिं व्रज पुत्रक ॥ ७.७८.३३ ॥
在困苦与灾祸中坚持自持者,以及被忧愁之火焚烧者所得的归宿,孩儿啊,你当前往那归宿。
7.78.34
मातापित्रोश्च शुश्रूषां कल्पयन्तीह ये सदा ।
स्वदारनिरतानां च या गतिस्तामवाप्नुहि ॥ ७.७८.३४ ॥
凡在此常侍奉父母、专心于自己妻子者所得的归宿,你当获得那归宿。
7.78.35
ऋतुकाले स्वकां भार्यां गच्छतां या मनीषिणाम् ।
परस्त्रीभ्यो निवृत्तानां तां गतिं व्रज पुत्रक ॥ ७.७८.३५ ॥
智者在适时亲近自己妻子、远离他人妻子者所得的归宿,孩儿啊,你当前往那归宿。
7.78.36
साम्ना ये सर्वभूतानि पश्यन्ति गतमत्सराः ।
नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि ॥ ७.७८.३६ ॥
凡无嫉妒、以和善之心看待一切众生,不伤害他人而能忍耐者所得的归宿,你当获得那归宿。
7.78.37
मधुमांसान्निवृत्तानां मदाद्दृम्भात्तथाऽनृतात् ।
परोपतापादन्यायात्तां गतिं व्रज पुत्रक ॥ ७.७८.३७ ॥
获得那些远离蜜与肉、远离醉意、虚伪、谎言、伤害他人与不义之人的归宿吧,我的儿子。
7.78.38
हीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः ।
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक ॥ ७.७८.३८ ॥
那些知惭愧、通晓一切经典、以智慧满足、降伏诸根的人,以及善人所到达的归宿,你去那里吧,我的儿子。
7.78.39
एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् ।
अन्वपद्यत पाञ्चाली वैराटिसहितां तदा ॥ ७.७८.३९ ॥
于是般遮离公主与毗罗吒之女一同前往那样哀哭、悲苦、被忧愁消瘦的妙贤身边。
7.78.40
सा प्रकामं रुदित्वा च विलप्य च सुदुःखिता ।
उन्मत्तवत्तदा राजन्विसंज्ञा पतिता क्षितौ ॥ ७.७८.४० ॥
她痛哭流涕,悲叹不已,极为悲伤,然后,大王,她如同发狂一般失去知觉,倒在地上。
7.78.41
सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः ।
सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः ॥ ७.७८.४१ ॥
然而克里希那殷勤照料,自己也极为悲痛,他以水洒她,安慰这位悲伤的女子,并说了许多有益的话。
7.78.42
विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् ।
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् ॥ ७.७८.४२ ॥
对那几近失去知觉、哭泣、倒地而颤抖的妹妹,莲花眼者说了这些话。
7.78.43
सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् ।
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः ॥ ७.७८.४३ ॥
须跋陀罗啊,不要为儿子悲伤;去安慰般遮莉和乌ded罗。刹帝利中的雄牛阿毗曼尤已踏上了显赫的归途。
7.78.44
ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने ।
सर्वे न ते गतिं यान्ति याऽभिमन्योर्यशस्विनः ॥ ७.७८.४४ ॥
美面的女子啊,我族中其他的男子都不能达到光荣的阿毗曼尤所到达的归途。
7.78.45
कुर्याम तद्वयं कर्म कुर्युर्युत्सुहृदश्च नः ।
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः ॥ ७.७८.४५ ॥
我们也要做那样的事,我们的战友也会做,正如你的大车将之子今日独自所做的那样。
7.78.46
एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् ।
पार्थस्यैव महाबाहुः पार्श्वमागादरिन्दमः ॥ ७.७८.४६ ॥
如此安慰了妹妹、德罗波蒂和乌塔拉之后,臂力强大、降伏敌人的克里希纳走到了阿周那身旁。
7.78.47
ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाऽर्जुनम् ।
विवेशान्तः पुरे राजंस्ते च जग्मुः स्वमालयम् ॥ ७.७८.४७ ॥
随后,克里希纳向诸王、亲族和阿周那告别后,大王啊,进入了内宫;他们也各自回到了自己的住所。