摩诃婆罗多 · 章 7.79
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.79.1
ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः ।
स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे।
सन्तस्तार शुभां शय्यां दर्भैर्वैदूर्यसन्निभैः ॥ ७.७९.१ ॥
随后,这位大能的莲花眼者进入阿周那无与伦比的住所,触水之后,在标记吉祥之相的圣地上,用如琉璃般闪耀的吉祥草铺设了一张美好的床。
7.79.2
ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः ।
अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः ॥ ७.७९.२ ॥
随后,依照仪轨,他用花环、炒米和最吉祥的香料装饰那张床,并在四周摆放上好的兵器。
7.79.3
ततः स्पृष्टोदकं पार्थं विनीतपरिचारकम् ।
नैत्यकं दर्शयाञ्चक्रे नैशं त्रैयम्बकं बलिम् ॥ ७.७९.३ ॥
随后,他触水后,向拥有恭顺侍从的普利塔之子展示了每日夜间献给三眼神(湿婆)的供物。
7.79.4
ततः प्रीतमनाः पार्थो गन्धमाल्यैश्च माधवम् ।
अलङ्कृत्योपहारं तं नैशं तस्मै न्यवेदयत् ॥ ७.७९.४ ॥
随后,心意欢喜的普利塔之子用香料和花环装饰摩陀婆(克里希那),并将那份夜间供物献给了他。
7.79.5
साधुसाध्विति गोविन्दः फल्गुनं प्रत्यभाषत ॥ ७.७९.५ ॥
"善哉,善哉",俱卢王室的守护者(戈文达)回应法尔古那说道。
7.79.6
सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् ।
स्थापयित्वा ततो द्वास्थान्गोप्तॄंश्चात्तायुधान्नरान् ॥ ७.७९.६ ॥
"普利塔之子啊,愿你吉祥,现在睡吧;我为了你的福祉而去。"随后,他安排了守门人和持械的护卫,
7.79.7
दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् ।
शिश्ये च शयने शुभ्रे बहुकृत्य विचिन्तयन् ॥ ७.७९.७ ॥
达鲁迦陪伴着这位光辉者进入自己的营帐,躺在洁白的床上,思量着许多事务。
7.79.8
पार्थाय सर्वं भगवाञ्शोकदुःखापहं विधिम् ।
व्यदधात्पुण्डरीकाक्षस्तेजोद्युतिविवर्धनम् ॥ ७.७९.८ ॥
莲花眼的世尊为般度之子安排了一切能驱除忧愁痛苦、增长光辉与神采的方法。
7.79.9
योगमास्थाय युक्तात्मा सर्वेषामीश्वरेश्वरः ।
श्रेयस्कामः पृथुयशा विष्णुर्जिष्णुप्रियङ्करः ॥ ७.७९.९ ॥
修习瑜伽、自制其心、为万主之主、欲求福祉、名声广大的毗湿奴,为胜利者(阿周那)做了令他欢喜的事。
7.79.10
न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् ।
प्रजागरः सर्वजनं ह्याविवेश विशाम्पते ॥ ७.७९.१० ॥
般度之子营中那一夜无人入睡,众人皆陷于彻夜不眠之中。
7.79.11
पुत्रशोकाभितप्तेन प्रतिज्ञातो महात्मना ।
श्वः सिन्धुराजस्य वधः कार्यो गाण्डीवधन्वना ॥ ७.७९.११ ॥
这位大德因失子之痛而备受煎熬,发愿道:“明日,信度王必须由持甘狄拔弓者诛杀。”
7.79.12
तत्कथं नु महाबाहुर्वासविः परवीरहा ।
प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् ॥ ७.७९.१२ ॥
“那么,这位大臂、杀敌英雄的婆薮之子,要如何使他的誓言成真呢?”——众人都如此思量。
7.79.13
कष्टं हीदं व्यवसितं पाण्डवेन महात्मना ।
पुत्रशोकाभिभूतेन प्रतिज्ञा महती कृता ॥ ७.७९.१३ ॥
大度的般度之子所下的这一决心确实艰难;他为丧子之痛所压倒,立下了宏大的誓愿。
7.79.14
भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च ।
धृतराष्ट्रस्य पुत्रेण सर्वतः सन्निवेशिताः ॥ ७.७९.१४ ॥
兄弟们也都勇猛,而德里多罗湿陀罗之子已在四面布置了众多的军队。
7.79.15
स हत्वा सैन्धवं सङ्ख्ये पुनरेतु जयी सुखी ।
हत्वा रिपुगणं सर्वं पारयित्वा महाव्रतम् ॥ ७.७९.१५ ॥
愿他在战中杀死信度王,消灭所有敌众,完成他的大誓,胜利而快乐地归来。
7.79.16
यद्यस्ति सुकृतं किञ्चिदस्माकं हन्तु सैन्धवम् ।
जित्वा सर्वान्रिपून्पार्थस्त्रातु नोऽस्मान्महाभयात् ॥ ७.७९.१६ ॥
若我们有些许功德,愿般度之子杀死信度王;愿他战胜所有敌人,使我们脱离这大恐惧。
7.79.17
एवमाशंसमानास्ते केचित्तस्थुरुपश्रुतिम् ।
श्रुत्वा चेष्टं सुमनसो व्यक्तमाशंसिरे जयम् ॥ ७.७९.१७ ॥
如此怀着希望,有些人站在可听见的地方;听到吉兆之后,心中欢喜,他们公开表达了对胜利的期望。
7.79.18
भविता नु कथं कृत्यमिदमित्यब्रुवञ्जनाः ।
श्वोऽहत्वा सिन्धुराजं वै धूमकेतुं प्रवेक्ष्यति ॥ ७.७९.१८ ॥
众人说:“这件事如何成就?明天若不杀死信度王,烟旗(火)便要进入了。”
7.79.19
न शक्यमनृतां कर्तुं प्रतिज्ञां विजयेन हि ।
महद्धि साहसं पार्थः कृतवाच्छोकमोहितः ॥ ७.७९.१९ ॥
若无胜利,誓言便无法成为虚假。被悲痛迷惑的般度之子(阿周那)做出了一件大胆冒险之事。
7.79.20
धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने ।
तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः ॥ ७.७९.२० ॥
阿周那若死,法之子如何能为王?般遮族的全部胜利正系于他身上。
7.79.21
यदि नोऽस्ति कृतं किञ्चिद्यदि दत्तं हुतं यदि ।
फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् ॥ ७.७९.२१ ॥
若我们曾行功德、布施或献祭,愿以这一切的果报,使左手善射者(阿周那)战胜敌人。
7.79.22
एवं कथयतां तेषां जयमाशंसतां प्रभो ।
कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत ॥ ७.७९.२२ ॥
主上啊,当他们如此议论并期待胜利时,大王啊,那一夜是极其艰难地度过的。
7.79.23
तस्या रजन्या मध्ये तु प्रतिबुद्धो जनार्दनः ।
स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत ॥ ७.७९.२३ ॥
那一夜的中途,闍那陀那醒来,忆起般遮之子的誓言,便对达卢迦说道。
7.79.24
अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना ।
जयद्रथं वधिष्यामि श्वोभूत इति दारुक ॥ ७.७९.२४ ॥
阿周那悲痛,亲人已被杀,发誓说:『明日天亮时,我将杀死胜车』。达卢迦啊。
7.79.25
तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति ।
यथा जयद्रथं पार्थो न हन्यादिति संयुगे ॥ ७.७९.२५ ॥
难敌听闻此言,将与大臣商议,以免阿周那在战中杀死胜车。
7.79.26
अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् ।
द्रोणश्च सहपुत्रेण सर्वास्त्रविधिपारगः ॥ ७.७९.२६ ॥
所有那些十八军团都将保护胜车,而精通一切兵器之法的德罗纳与其子也将护卫。
7.79.27
एको वीरः सहस्राक्षो दैत्यदानवदर्पहा ।
सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् ॥ ७.७९.२७ ॥
即便是摧毁提迭与檀那伐之傲慢的独一英雄千眼因陀罗,也不敢在战中杀死受德罗纳护卫之人。
7.79.28
सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः ।
अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् ॥ ७.७९.२८ ॥
明日我将如俱卢妃之子阿周那所为:未至日落,他便将杀死胜车。
7.79.29
न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः ।
कश्चिदन्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् ॥ ७.७९.२९ ॥
对我而言,妻子、朋友、亲族、眷属,无一人比俱卢妃之子阿周那更为可亲。
7.79.30
अनर्जुनमिमं लोकं मुहूर्तमपि दारुक ।
उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा ॥ ७.७९.३० ॥
达鲁迦啊,没有阿周那的这个世界,我连一瞬也不忍看;也不会如此。
7.79.31
अहं विजित्य तान्सर्वान्सहसा सहयद्विपान् ।
अर्जुनार्थे हनिष्यामि सकर्णान्ससुयोधनान् ॥ ७.७९.३१ ॥
我将一举击败他们所有人连同象群,为阿周那的缘故,连同迦尔纳和苏yodhana一并杀死。
7.79.32
श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे ।
धनञ्जयार्थे समरे पराक्रान्तस्य दारुक ॥ ७.७९.३२ ॥
明日大战中,愿三界见证我的威力,我为达南阇耶而在战场上奋勇前进,大卢迦啊。
7.79.33
श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च ।
साश्वद्विपरथान्याजौ विद्रविष्यामि दारुक ॥ ७.७९.३३ ॥
明日战斗中,我将驱散数千国王与数百王子,连同马匹、象群与战车,大卢迦啊。
7.79.34
श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् ।
मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् ॥ ७.७९.३४ ॥
明日你将看见那支王师被车轮碾碎,为般度诸子,在战斗中由愤怒的我将其击倒。
7.79.35
श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः ।
ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः ॥ ७.७९.३५ ॥
明日,诸天、乾闼婆、毗舍遮、诸蛇与罗刹,以及一切世界,都将知道我是萨维亚萨钦(阿周那)的朋友。
7.79.36
यस्तं द्वेष्टि स मां द्वेष्टि यस्तं चानु स मामनु ।
इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः ॥ ७.७९.३६ ॥
憎恨他的人即是憎恨我,追随他的人即是追随我。当在心中确定:阿周那是我身体的一半。
7.79.37
यथा त्वं मे प्रभातायामस्यां निशि रथोत्तमम् ।
कल्पयित्वा यथाशास्त्रमादाय व्रज संयतः ॥ ७.७९.३७ ॥
待今夜天明之时,依照经典备好最好的战车,带着它,保持克制而前往。
7.79.38
गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् ।
आरोप्य वै रथे सूत सर्वोपकरणानि च ॥ ७.७९.३८ ॥
御者啊,将神圣的考莫达基棍棒、长矛、轮盘、弓箭以及一切器具都放上战车。
7.79.39
स्थानं च कल्पयित्वाऽथ रथोपस्थे ध्वजस्य मे ।
वैनतेयस्य वीरस्य समरे रथशोभिनः ॥ ७.७९.३९ ॥
然后在战车座位上为我的旗帜安排位置,并在那里放置украшающий战车的英雄 Vainateya(迦鲁达)之旗。
7.79.40
छत्रं जाम्बूनदैर्जालैरर्कज्वलनसप्रभैः ।
विश्वकर्मकृतैर्दिव्यैरश्वानपि विभूषय ॥ ७.७९.४० ॥
设置由毗首羯摩所造的神圣华盖,如太阳火焰般明亮,饰有金网,并装饰马匹。
7.79.41
बलाहकं मेघपुष्पं शैब्यं सुग्रीवमेव च ।
युक्त्वा वाजिवरांस्तत्र कवची तिष्ठ दारुक ॥ ७.७९.४१ ॥
套上最好的马——Balāhaka、Megha-puṣpa、Śaibya 和 Sugrīva,达卢迦啊,披甲站在那里。
7.79.42
पाञ्चजन्यस्य निर्घोषं पर्जन्यनिनदोपमम् ।
श्रुत्वा च भैरवं नादमुपेयास्त्वं जवेन माम् ॥ ७.७९.४२ ॥
听到如云雷般的般遮耶那贝壳(Pāñcajanya)的轰鸣和可怖之声,你要迅速来到我这里。
7.79.43
एकाह्नाऽहममर्षं च सर्वदुःखानि चैव ह ।
भ्रातुः पैतृष्वसेयस्य व्यपनेष्यामि दारुक ॥ ७.७९.४३ ॥
达卢迦啊,一日之内我将消除我的愤怒和一切忧愁,也将消除我兄弟——我姑母之子——的忧愁。
7.79.44
सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे ।
पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् ॥ ७.७९.४४ ॥
我将以一切方法努力,使阿周那在战场上,在持国之子们注视下,杀死胜车。
7.79.45
यस्ययस्य च बीभत्सुर्वधे यत्नं करिष्यति ।
आशंसेऽहं रणे तन्तं तत्रतत्र हनिष्यति ॥ ७.७९.४५ ॥
阿周那所要杀的任何人,我断言在战场上他就会在那里杀死他。
7.79.46
जय एव ध्रुवस्तस्य कुत एव पराजयः ।
यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् ॥ ७.७९.४६ ॥
人中之虎啊,你既为其御者,他的胜利便是确定的;他怎会失败呢?
7.79.47
एवं चैतत्करिष्यामि यथा मामनुभाषसे ।
सुप्रभातामिमां रात्रिं जयाय विजयस्य हि ॥ ७.७९.४७ ॥
我将按你对我所说的去做。愿这个夜晚迎来吉祥的黎明,为了胜利者(阿周那)的胜利。