摩诃婆罗多 · 章 7.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.8.1
तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् ।
व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् ॥ ७.८.१ ॥
般度之子们看到德罗纳如此击杀马匹、御者、战车与象群,心中痛苦,却没有包围他。
7.8.2
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ ।
अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् ॥ ७.८.२ ॥
于是国王坚战对猛光和财天说:“请大家从四面八方做好准备,阻止瓶生(德罗纳)。”
7.8.3
तत्रैनमर्जुनश्चैव धृष्टद्युम्नश्च पार्षतः ।
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुसैनिकाः।
प्रत्यगृह्णंस्ततस्तत्र समागच्छन्महारथाः ॥ ७.८.३ ॥
阿周那与帕利沙陀之子猛光在那里迎战他;大王啊,般度之子的其他国王和随从士兵也上前迎战;大战车勇士们在那里聚集。
7.8.4
केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः ।
युधिष्ठिरो यमौ मात्स्यो द्रुदश्चात्मजैः सह ॥ ७.८.४ ॥
凯迦雅人、毗摩先那、苏跋陀罗之子,然后是迦陀迦之子、坚战、双生子、摩差国王与德鲁帕陀,以及他们的儿子们。
7.8.5
द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः ।
चेकितानश्च सङ्क्रुद्धो युयुत्सुश्च महारथः ॥ ७.८.५ ॥
德罗波蒂之子们满心欢喜;猛军与萨提亚奇同在;愤怒的遮吉搭那与大战车勇士乔由度也在其中。
7.8.6
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः ।
कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ॥ ७.८.६ ॥
大王啊,跟随般度之子的其他国王也依照各自的家族与勇力,建立了许多功绩。
7.8.7
संभिद्यमानां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे ।
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत ॥ ७.८.७ ॥
见那军队在战场上被般度之子们冲散,婆罗堕渣之子(德罗纳)怒从心起,转动双眼,四下环顾。
7.8.8
स तीव्रं कोपमास्थाय रथे समरदुर्जयः ।
व्यधमत्पाण्डवानीकं महाभ्राणीव मारुतः ॥ ७.८.८ ॥
他怀着猛烈的愤怒,在战场上无人能敌,站在战车上冲散了般度之子的军队,如同风吹散大片的云。
7.8.9
रथानश्वान्नरान्नागानभिधावन्नितस्ततः ।
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ॥ ७.८.९ ॥
德罗纳在战车、马匹、士兵和象群之间东奔西突,如同疯狂;他虽年老,却如同少年。
7.8.10
तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः ।
आजानेया हया राजन्नविश्रान्ताः सुखं ययुः ॥ ७.८.१० ॥
大王啊,他那身上沾满血迹、赤红色、疾如风的良种骏马,毫不疲倦,轻快地奔驰而去。
7.8.11
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् ।
दृष्ट्वा सम्प्राद्रवन्योधाः पाण्डवस्य ततस्ततः ॥ ७.८.११ ॥
众般度军的战士见他如死神般怒气冲冲地扑来,立誓坚定,于是四散奔逃。
7.8.12
तेषां प्राद्रवतां भीमः पुनरावर्ततामपि ।
पश्यतां तिष्ठतां चासीच्छब्दः परमदारुणः ॥ ७.८.१२ ॥
逃跑的、又转身回来的、观望的和站立的人们,发出了极其可怖的喧嚣。
7.8.13
शूराणां हर्षजननो भीरूणां भयवर्धनः ।
द्यावापृथिव्योर्विवरं पूरयामास सर्वतः ॥ ७.८.१३ ॥
它使勇士欢欣,使怯懦者恐惧增长,从四面八方充满了天地之间的空隙。
7.8.14
ततः पुनरपि द्रोणो नाम विश्रावयन्युधि ।
अकरोद्रौद्रमात्मानं किरञ्छरशतैः परान् ॥ ७.८.१४ ॥
于是德罗纳在战场上再次高声宣告自己的名号,使自己变得可怕,并以数百支箭驱散了敌人。
7.8.15
स तथा तेष्वनीकेषु पाण्डुपुत्रस्य मारिष ।
कालवद्व्यचरद्द्रोणो युवेव स्थविरो बली ॥ ७.८.१५ ॥
尊者啊,德罗纳就这样在般度之子的那些军队中如时间本身般穿行——虽年迈,却如青年般强健。
7.8.16
उत्कृत्य च शिरांस्युग्रो बाहूनपि सुभूषणान् ।
कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारवान् ॥ ७.८.१६ ॥
凶猛的德罗纳砍下了头颅,也砍下了饰以华美饰品的臂膀,使战车的座位空无一人;它们发出巨大的哀号。
7.8.17
तस्य हर्षप्रणादेन बाणवर्षेण च प्रभो ।
प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ॥ ७.८.१७ ॥
主啊,因他欢欣的吼声和箭雨,战场上的战士们颤抖起来,如同受寒冷折磨的牛群。
7.8.18
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च ।
धनुःशब्देन चाकाशे शब्दः समभवन्महान् ॥ ७.८.१८ ॥
德罗纳战车的隆隆声、弓弦的嗡鸣与弓的响声,使天空中升起了巨大的声响。
7.8.19
अथास्य धनुषो बाणा निस्सरन्तः सहस्रशः ।
व्याप्य सर्वा दिशः पेतुर्नागाश्वरथपत्तिषु। ॥ ७.८.१९ ॥
于是从他的弓中射出的成千上万支箭遍布四方,落在象、马、车与步兵之上。
7.8.20
तं कार्मुकमहावेगमस्त्रज्वलितपावकम् ।
द्रोणमासादयाञ्चक्रुः पाञ्चालाः पाण्डवैः सह ॥ ७.८.२० ॥
般遮罗人与般度之子一同冲向德罗纳——那位速度极快、以兵器燃烧如火的弓手。
7.8.21
सनागरथपत्त्यश्वान्प्राहिणोद्यमसादनम् ।
अचिरादकरोद्दोणो महीं शोणितकर्दमाम् ॥ ७.८.२१ ॥
德罗纳将象、车、步兵与马一并送往阎摩之所,不久便使大地变成血泥。
7.8.22
तन्वता परमास्त्राणि शरान्सततमस्यता ।
द्रोणेन विहितं दिक्षु शरजालमदृश्यत ॥ ७.८.२२ ॥
德罗纳张开至上神兵,不停地射箭,在四方布下了一张箭网,清晰可见。
7.8.23
पदातिषु रथाश्वेषु वारणेषु च सर्वशः ।
तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ॥ ७.८.२३ ॥
在步兵、战车、战马与战象之间,他的旗帜到处飘动,如云中闪电一般,清晰可见。
7.8.24
सकेकयानां प्रवरांश्च पञ्च पाञ्चालराजं च शरैः प्रमथ्य ।
युधिष्ठिरानीकमदीनसत्वो द्रोणोऽभ्ययात्कार्मुकबाणपाणिः ॥ ७.८.२४ ॥
德罗纳以箭摧毁了迦伽耶族的五位尊长和般遮罗王,他志气不屈,手持弓箭,向坚战的军队进发。
7.8.25
तं भीमसेनश्च धनञ्जयश्च शिनेश्च नप्ता द्रुपदात्मजश्च ।
शैब्यात्मजः काशिपतिः शिबिश्च दृष्ट्वा नदन्तो व्यकिरञ्छरौघैः ॥ ७.८.२५ ॥
毗摩娑那与阿周那、诗尼之孙、德鲁帕达之子、赛比耶之子、迦尸王与尸比见到他,怒吼着以箭雨覆盖了他。
7.8.26
तेषां शरा द्रोणशरैर्निकृत्ता भूमावदृश्यन्त विवर्तमानाः ।
श्रेणीकृताः संयति मोघवेगा द्वीपे नदीनामिव काशरोहाः ॥ ७.८.२६ ॥
他们的箭被德罗纳的箭射断,滚落在地上,排列在战场上,力量徒然,如同河洲上的迦莎草。
7.8.27
ते द्रोणबाणासनविप्रमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः ।
भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः ॥ ७.८.२७ ॥
那些从德罗纳弓上射出的带翼之箭,饰有金色斑纹的羽毛,穿透象与马的身体,羽毛沾满鲜血落到地上。
7.8.28
सा योधसङ्घैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च ।
प्रच्छाद्यमाना पतितैर्बभूव समावृता द्यौरिव कालमेघैः ॥ ७.८.२८ ॥
那片大地被战士群、战车、折断的箭、象与马以及倒下的尸体所覆盖,就像天空被末日的黑云所笼罩。
7.8.29
शैनेयभीमार्जुनवाहिनीशं सौभ्रद्रपाञ्चालसकाशिराजम् ।
अन्यांश्च वीरान्समरे ममर्द द्रोणः सुतानां तव भूतिकामः ॥ ७.८.२९ ॥
德罗纳为了你儿子们的利益,在战斗中碾碎了萨提亚吉、毗摩与阿周那之军的统帅、萨博德罗、般遮罗王与迦尸王,以及其他英雄。
7.8.30
एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा ।
प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन् ॥ ७.८.३० ॥
哎,库鲁之主!大士德罗纳在战场上完成了这些及其他功业,如同焚烧世界的死亡之日,从此处升往天界,王啊。
7.8.31
एवं रुक्मरथः शूरो हत्वा शतसहस्रशः ।
पाण्डवानां रणे योधान्पार्षतेन निपातितः ॥ ७.८.३१ ॥
如此,那位金车勇士在战场上杀死了成百上千的般度族战士,却被普利沙塔之子击倒。
7.8.32
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् ।
निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ॥ ७.८.३२ ॥
他杀死了一个多阿克绍希尼从不退缩的勇士,那坚定的人之后抵达了至高的归宿。
7.8.33
पाण्डवैः सहपाञ्चालैरशिवैः क्रूरकर्मभिः ।
हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ॥ ७.८.३३ ॥
哎,王啊,他被般度族与潘遮罗人这些行事残酷的不祥之人所杀,金车勇士在完成极为艰难的功业后倒下了。
7.8.34
ततो निनादो भूतानामाकाशे समजायत ।
सैन्यानां च ततो राजन्नाचार्ये निहते युधि ॥ ७.८.३४ ॥
那时,王啊,天空中响起了众生的喧嚷;而当导师在战斗中被杀时,军队中也是如此。
7.8.35
द्यां धरां खं दिशो वापि प्रदिशर्श्चानुनादयन् ।
अहो धिगिति भूतानां शब्दः समभावद्भृशम् ॥ ७.८.३५ ॥
回响于天、地、空、四方与四隅,众生的呼声大起:“哎呀!可耻!”
7.8.36
देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः ।
ददृशुर्निहतं तत्र भारद्वाजं महारथम् ॥ ७.८.३६ ॥
诸神与祖灵,以及他往昔的亲族,在那里看见了被杀的婆罗堕遮之子,那位大车战士。
7.8.37
पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे ।
सिंहनादेन महता समकम्पत मेदिनी ॥ ७.८.३७ ॥
般度之子获得胜利,发出狮子般的吼声;那巨大的狮吼使大地震动。
7.8.38
विचित्रजाम्बूनदभूषितध्वजं महारथं रुक्मरथं निपातितम्। ॥ ७.८.३८ ॥
那位旗帜以杂色金饰装饰、车为金制的大车战士被击倒。