Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.80

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.80.1

धार्तराष्ट्रस्य तं मन्त्रं स्मरन्नेव धनञ्जयः ।
प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः ॥ ७.८०.१ ॥

回想起持国之子的那番谋划,他守护着自己的誓言,然而不可思议之勇的财主却陷入了迷惑。

7.80.2

तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम् ।
आससाद महातेजा ध्यायन्तं गरुडध्वजः ॥ ७.८०.२ ॥

那位被忧愁折磨、在梦中沉思的、旗上有猴中之王的人,那位大光辉的迦楼罗旗者(克里希纳)来到了他身边。

7.80.3

प्रत्युत्थानं च कृष्णस्य सर्वावस्थासु फल्गुनः ।
न लोपयति धर्मात्मा भक्त्या प्रेम्णा च सर्वदा ॥ ७.८०.३ ॥

在一切情况下,正法之心的法尔古纳从不忘记因虔诚与爱戴而起身向克里希纳致敬,始终如此。

7.80.4

प्रत्युत्थाय च गोविन्दं स्वं तस्मै चासनं ददौ ।
न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा ॥ ७.८०.४ ॥

他起身将自己的座位让给了戈文达;而毗跋蹉并未决意自己坐到座位上。

7.80.5

ततः कृष्णो महातेजा जानँल्लोकस्य निश्चयम् ।
कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥ ७.८०.५ ॥

于是大光辉的克里希纳,知晓世界的定数,坐着对站立的昆蒂之子说了这些话。

7.80.6

मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः ।
कालः सर्वाणि भूतानि नियच्छति भवाभवे ॥ ७.८०.६ ॥

普利塔之子啊,不要让你的心陷入绝望;时间确实不可战胜。时间支配着一切众生的生与灭。

7.80.7

किमर्थं च विषादस्ते तद्ब्रूहि द्विपदां वर ।
न शोच्यं विदुषां श्रेष्ठ शोकः कार्यविनाशनः ॥ ७.८०.७ ॥

你为何如此沮丧?请说明,人中之最。智者之最,不应悲伤;悲伤会毁坏事业。

7.80.8

यत्तु कार्यं भवेत्कार्यं कर्मणा तत्समाचर ।
हीनचेष्टस्य यः शोकः स हि शत्रुर्धनञ्जय ॥ ७.८०.८ ॥

凡是应当做的事,就以行动好好去做。财富征服者啊,怠惰之人所生的悲伤,才真正是敌人。

7.80.9

शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् ।
क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥ ७.८०.९ ॥

悲伤之人令敌人欢喜,也使亲族衰弱;人自己也会憔悴。所以你不应当悲伤。

7.80.10

इत्युक्तो वासुदेवेन बीभत्सुरपराजितः ।
आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥ ७.८०.१० ॥

婆苏提婆如此说后,不败的毗跋苏(阿周那)以智慧之心,于是说出了这些有意义的话。

7.80.11

मया प्रतिज्ञा महती जयद्रथवधे कृता ।
श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव ॥ ७.८०.११ ॥

克舍婆啊,我为杀死胜车立下大誓:明天我要杀死那个心怀恶念、杀害我儿子的人。

7.80.12

मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत ।
पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः ॥ ७.८०.१२ ॥

阿遮优多啊,为了破坏我的誓言,持国之子们必定将信度王(胜车)置于后方,由所有大战车武士护卫。

7.80.13

दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः ।
हतावशेषास्तत्रेमा हन्त माधव सङ्ख्यया ॥ ७.८०.१३ ॥

哦,克里希那,这十一个难以战胜的阿克绍西尼军,在那里被杀之后所剩的便是这些。唉,摩陀婆,数目上只剩下这些了。

7.80.14

ताभिः परिवृतः सङ्ख्ये सर्वैश्चैव महारथैः ।
कथं शक्येत सन्द्रष्टुं दुरात्मा कृष्ण सैन्धवः ॥ ७.८०.१४ ॥

哦,克里希那,被他们和所有大车勇士环绕的恶毒的信度王,在战场上如何能够被看见?

7.80.15

प्रतिज्ञापारणं चापि न भविष्यति केशव ।
प्रतिज्ञायां च हीनायां कथं जीवति मद्विधः ॥ ७.८०.१५ ॥

哦,罗婆(克里希那),我的誓言也不会得以实现。誓言未能兑现,像我这样的人如何还能活下去?

7.80.16

दुःखापायस्य मे वीर विकाङ्क्षा परिवर्तते ।
द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् ॥ ७.८०.१६ ॥

哦,英雄,我想摆脱悲痛的渴望在动摇,太阳正迅速西沉,因此我说这些话。

7.80.17

शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः ।
संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः ॥ ७.८०.१७ ॥

听到阿周那悲伤的原因,旗帜上有鸟的克里希那触摸了水,然后面向东方坚定地站立。

7.80.18

इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः ।
हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे कृती ॥ ७.८०.१८ ॥

光辉伟大、眼如莲花的克里希那说出了这些话,为了般度之子的利益,擅长于杀死信度王。

7.80.19

पार्थ पाशुपतं नाम परमास्त्रं सनातनम् ।
येन सर्वान्मृधे देत्याञ्जघ्ने देवो महेश्वरः ॥ ७.८०.१९ ॥

帕尔特ha啊,有一件名为帕舒帕塔的至高永恒神兵,大神用它在战斗中击杀了所有的达伊提亚。

7.80.20

यदि तद्विदितं तेऽद्य श्वो हन्ताऽसि जयद्रथम् ।
अथ ज्ञातं प्रपद्यस्य मनसा वृषभध्वजम् ॥ ७.८०.२० ॥

若你今日已知此事,明日你将杀死贾亚达拉塔;若尚未知,则应在心中皈依旗帜为牛的大神。

7.80.21

तं देवं मनसा ध्यात्वा जोषमास्स्व धनञ्जय ।
ततस्तस्य प्रसादात्त्वं भक्त्या प्राप्स्यसि तन्महत् ॥ ७.८०.२१ ॥

达那囊遮耶啊,请在心中观想那位神并静坐;然后凭借他的恩典和虔诚,你将获得那伟大的成就。

7.80.22

ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जयः ।
भूमावासीन एकाग्रो जगाम मनसा भवम् ॥ ७.८०.२२ ॥

于是,达那囊遮耶听了黑天的话,触摸了水,坐在地上,一心专注,心中前往拜见婆伐。

7.80.23

ततः प्रणिहितो ब्राह्मे मुहूर्ते शुभलक्षणे ।
आत्मानमर्जुनोऽपश्यद्गने सहकेशवम् ॥ ७.८०.२३ ॥

于是,专注的阿周那在吉祥的梵时,于火中看见自己与羯舍婆在一起。

7.80.24

पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् ।
ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् ॥ ७.८०.२४ ॥

喜马拉雅的圣足与摩尼曼特山,充满光明,为悉陀与遮罗那所侍奉。

7.80.25

वायुवेगगतिः पार्थः खं भेजे सहकेशवः ।
केशवेन गृहीतः स दक्षिणे विभुना भुजे ॥ ७.८०.२५ ॥

以风速前行的般度子(阿周那)与克沙瓦(黑天)一同升入天空。全能的克沙瓦以右臂握住了他。

7.80.26

प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् ।
उदीच्यां दिशि धर्मात्मा सोपश्यच्छ्वेतपर्वतम् ॥ ७.८०.२६ ॥

他一路观赏许多奇异的景象。这位法性之人在北方看见了白山。

7.80.27

कुबेरस्य विराहे च नलिनीं पद्मभूषिताम् ।
सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् ॥ ७.८०.२७ ॥

在俱毗罗的领域中,他观望着以莲花装点的那伽尼池,以及河流中最殊胜、水量丰沛的恒河。

7.80.28

सदा पुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् ।
सिंहव्याघ्रसमाकीर्णां नानामृगसमाकुलाम् ॥ ७.८०.२८ ॥

此山常有开花结果的树木,岩石如水晶,遍布狮子与老虎,充满各种鹿群。

7.80.29

पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् ।
मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान् ॥ ७.८०.२९ ॥

那座山拥有神圣的修行林,秀丽可爱,为美丽的飞禽所眷顾;还有曼陀罗山的各处,回响着紧那罗的歌唱。

7.80.30

हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् ।
तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान्। ॥ ७.८०.३० ॥

山峰由金银构成,因众多草药而生辉,并以盛开的曼陀罗树为装饰。

7.80.31

स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम् ।
ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि ॥ ७.८०.३१ ॥

抵达形如光滑眼膏堆的迦罗山与梵天高峰,以及其他河流和地域。

7.80.32

स तुङ्गं शतशृङ्गं च शर्यातिवनमेव च ।
पुण्यमश्वशिरस्थानं स्थानमाथर्वणस्य च ॥ ७.८०.३२ ॥

他又到达了吨加山与百峰山、夏耶提林、神圣的马首处以及阿闼婆的居所。

7.80.33

वृषदंशं च शैलेन्द्रं महामन्दरमेव च ।
अप्सरोभिः समाकीर्णं किन्नरैश्चोपशोभितम् ॥ ७.८०.३३ ॥

还有牛齿山、山王以及大曼陀罗山,满布天女,并有紧那罗装饰。

7.80.34

तस्मिञ्शैले व्रजन्पार्थः सकृष्णः समवैक्षत ।
शुभैः प्रस्रवणैर्जुष्टां हेमधातुविभूषिताम् ॥ ७.८०.३४ ॥

阿周那与克里希那行走于此山之上,环顾四周,见此山有吉祥的泉水,并以金矿装饰。

7.80.35

चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् ।
समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् ॥ ७.८०.३५ ॥

他看见大地,其身如月光般明亮,以城市为花环;又见奇妙形状、矿藏丰饶的海洋。

7.80.36

वियद्द्यां पृथिवीं चैव तथा विष्णुपदं व्रजन् ।
विस्मितः सह कृष्णेन क्षिप्तो बाण इवाभ्यगात् ॥ ७.८०.३६ ॥

他与克里希那一同惊叹,朝天空、大地与毗湿奴之境前行,犹如被射出的箭矢般疾驰而去。

7.80.37

ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् ।
अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् ॥ ७.८०.३७ ॥

那时,帕尔塔看见一物,其光明与众星、月、日、火相等,如同燃烧的山岳。

7.80.38

समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् ।
तपोनित्यं महात्मानमपश्यद्वॄषभध्वजम्। ॥ ७.८०.३८ ॥

他来到那山前,看见站在山顶的大德者,常年修苦行,旗帜上有公牛。

7.80.39

सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा ।
शूलिनं जटिलं गौरं वल्कलाजिनवाससम् ॥ ७.८०.३९ ॥

以自身光辉照耀如千日,手持三叉戟,发结成髻,肤色白皙,身穿树皮与鹿皮。

7.80.40

नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् ।
पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः ॥ ७.८०.४० ॥

千目、形体奇妙、大力的天神,与帕尔瓦蒂及光辉的众灵同在。

7.80.41

गीतवादित्रसन्नादैर्हास्यलास्यसमन्वितम् ।
वग्लितास्फोटितोत्क्रुष्टैः पुण्यैर्गन्धैश्च सेवितम् ॥ ७.८०.४१ ॥

歌声与乐器之鸣响环绕,伴随笑声与舞蹈,呼喊、拍掌与欢呼,并以清净的香气供奉。

7.80.42

स्तूयमानं स्तवैर्दिव्यैर्ऋषिभिर्ब्रह्मवादिभिः ।
गोप्तारं सर्वभूतानामीशानं वरदं शिवम् ॥ ७.८०.४२ ॥

被谈论梵的诸仙以神圣赞歌所颂扬,他是一切众生的守护者、主宰、赐予恩惠者,即湿婆。

7.80.43

वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् ।
पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् ॥ ७.८०.४३ ॥

婆苏提婆见到他,以头触地行礼;与正法的帕尔沙一起,赞颂永恒的梵。

7.80.44

लोकादिं विश्वकर्माणमजमीशानमव्ययम् ।
मनसः परमं योनिं खं वायुं ज्योतिषां निधिम् ॥ ७.८०.४४ ॥

诸界之始,宇宙的创造者,无生,主宰,不灭;心之最高源头,虚空,风,诸光之藏。

7.80.45

स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् ।
देवदानवयक्षाणां मानवानां च शासकम् ॥ ७.८०.४५ ॥

水流之创造者,大地的至上本性,诸天神、阿修罗、夜叉与人类的统治者。

7.80.46

योगानां च परं धाम दृष्टं ब्रह्मविदां निधिम् ।
चारचरस्य स्रष्टारं प्रतिहर्तारमेव च ॥ ७.८०.४६ ॥

诸瑜伽的至上之居,梵智者所见的宝藏;动与不动之物的创造者与收摄者。

7.80.47

कालकोपं महात्मानं शक्रसूर्यगुणोदयम् ।
ववन्दतुस्तदा कृष्णौ वाङ्मनोबुद्धिकर्मभिः ॥ ७.८०.४७ ॥

于是二位克里希那以言语、意念、智慧与行动,向那位大德礼拜——其怒如时间,其德如因陀罗与太阳般升起。

7.80.48

यं प्रपद्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः ।
तमजं कारमात्मानं जग्मतुः शरणं भवम् ॥ ७.८०.४८ ॥

智者寻求微妙的灵性境界时所皈依的,那位无生的创造者、自我、婆婆——二人前往皈依于他。

7.80.49

अर्जुनश्चापि तं देवं भूयो भूयोऽप्यवन्दत ।
ज्ञात्वा तं सर्वभूतादिं भूतभव्यभवोद्भवम् ॥ ७.८०.४९ ॥

阿周那也一再向那位神礼拜,知道他是一切众生的本源,是过去、未来与现在的生起之处。

7.80.50

शरण्यं शरणं देवमीशानं परमेश्वरम् ।
जगाम जगतां नाथमर्जुनः सजनार्दनः ॥ ७.८०.५० ॥

阿周那与生主(Janārdana)一同前往那位神——值得皈依、自身即是皈依处、伊舍那、至上主,诸世界之主。

7.80.51

ततस्तावागतौ दृष्ट्वा नरनारायणावुभौ ।
सुप्रसन्नमनाः शर्वः प्रोवाच प्रहसन्निव ॥ ७.८०.५१ ॥

于是,见那两位那罗与那罗衍那来到,心极欢喜的沙尔瓦仿佛微笑着说道。

7.80.52

स्वागतं वां नरश्चेष्ठावुत्तिष्ठेतां गतक्लमौ ।
किञ्च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् ॥ ७.८०.५२ ॥

欢迎你们二人,人中之最!请起身,解除疲劳。英雄们,你们想要什么?请快快说出心中所愿。

7.80.53

येन कार्येण सम्प्राप्तौ युवां तत्साधयामि किम् ।
व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ॥ ७.८०.५३ ॥

你们二人为何事而来,我必为你们成就。请为自己选择所求的善果,我将全部赐予你们二人。

7.80.54

ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली ।
वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती।
भक्त्यास्तवेन दिव्येन महात्मानावनिन्दितौ ॥ ७.८०.५४ ॥

于是,二位大智者——婆苏提婆与阿周那——闻其言后,起身合掌,以虔诚与神圣的赞歌赞颂沙尔瓦;这两位无瑕的大灵魂。

7.80.55

नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ ७.८०.५५ ॥

敬礼薄婆、湿婆、楼陀罗、赐予恩惠者。恒常敬礼众生之主、猛烈者、结发者。

7.80.56

महादेवाय भीमाय त्र्यम्बकाय च शान्तये ।
ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥ ७.८०.५६ ॥

敬礼大天、可畏者、三目者与寂静者。敬礼自在者、毁坏祭祀者、杀阿盘陀者。

7.80.57

कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे ।
पिनाकिने हविष्याय सत्याय विभवे सदा ॥ ७.८०.५७ ॥

敬礼你,童子之师、青颈创造者、持弓者、堪受献祭者、真实者、遍在者,恒常如此。

7.80.58

विलोहिताय ध्रूम्राय व्याधायानपराजिते ।
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥ ७.८०.५८ ॥

恒常敬礼赤色者、烟色者、猎人、不败者、青冠者、持三叉戟者、天眼者。

7.80.59

होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे ।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥ ७.८०.५९ ॥

敬礼祭请者、净化者、三目者、猎人、财富之种、不可思议者、安比迦之夫,为一切天神所赞。

7.80.60

वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥ ७.८०.६० ॥

敬礼牛旗者、剃度者、结发者、梵行者、于水中苦修者、爱婆罗门者、不可胜者。

7.80.61

विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।
नमोनमस्ते सेव्याय भूतानां प्रभवे सदा ॥ ७.८०.६१ ॥

敬礼宇宙之我,敬礼宇宙之创造者,敬礼包罗宇宙而住立者。敬礼,敬礼于您——值得侍奉者,众生恒常的本源。

7.80.62

ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च ।
नमोस्तु वाचस्पतये प्रजानां पतये नमः ॥ ७.८०.६२ ॥

敬礼以吠陀为面者,敬礼一切者,敬礼湿婆(吉祥者)与商羯罗。敬礼言语之主,敬礼众生之主。

7.80.63

अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा ।
नमोऽस्तु देवदेवाय महाभूतधराय च।
नमो विश्वस्य पतये पत्तीनां पतये नमः ॥ ७.८०.६३ ॥

敬礼常可亲近、可爱、可赞、尊贵者。敬礼神中之神,敬礼持载大元素者。敬礼宇宙之主,敬礼军队之主。

7.80.64

नमो विश्वस्य पतये महतां पतये नमः ।
नमः सहस्रशिरसे सहस्रभुजमृत्यवे
सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे। ॥ ७.८०.६४ ॥

敬礼宇宙之主,敬礼诸大者之主。敬礼千头者,敬礼作千臂之死者,敬礼千目千足者,敬礼作无量业者。

7.80.65

नमो हिरण्यवर्णाय हिरण्यकवचाय च ।
भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥ ७.८०.६५ ॥

敬礼金色者,敬礼披金甲者,常悲悯信徒者。主啊,愿我们的恩赐得以成就。

7.80.66

एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः ।
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥ ७.८०.६६ ॥

如此赞颂大神之后,婆苏提婆与阿周那一同令婆婆欢喜,以获得神圣的武器。