Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.81.1

ततः पार्थः प्रसन्नात्मा प्राञ्जलिर्वृषभध्वजम् ।
ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥ ७.८१.१ ॥

于是普利塔之子心境澄明,合掌而立,睁大双眼,望见了以牛为旗的那位——万般光辉的宝藏。

7.81.2

तं चोपहारं सुकृतं नैशं नैत्यकमात्मना ।
ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ॥ ७.८१.२ ॥

在三眼神(湿婆)近旁,他看见了那份精心准备的夜间供奉——那是他自己每日例行的供奉,由婆苏提婆(克里希那)奉献。

7.81.3

ततोऽभिपूज्य मनसा कृष्णं शर्वं च पाण्डवः ।
इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम् ॥ ७.८१.३ ॥

于是般度之子在心中礼敬克里希那与莎尔瓦,对商迦罗说:“我愿得到神圣的武器。”

7.81.4

ततः पार्थस्य विज्ञाय वरार्थे वचनं तदा ।
वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥ ७.८१.४ ॥

于是神明理解了普利塔之子求取恩赐的言语,微笑着对婆苏提婆与阿周那说道。

7.81.5

स्वागतं वां नरश्रेष्ठौ विज्ञातं मनसेप्सितम् ।
येन कामेन सम्प्राप्तौ भवद्ध्यां तं ददाम्यहम् ॥ ७.८१.५ ॥

欢迎你们二位,人中之杰!你们所求之愿,我已心中知晓;我将赐予你们。

7.81.6

सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ ।
तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥ ७.८१.६ ॥

灭敌者啊,附近有一汪由甘露构成的神圣湖泊;很久以前,我的神弓与神箭便安放在那里。

7.81.7

येन देवारयः सर्वे मया युधि निपातिताः ।
तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ॥ ७.८१.७ ॥

我曾以之在战场上击倒所有诸神之敌;愿将那张上好的弓连同箭带给两位黑天。

7.81.8

तथेत्युक्त्वा तु तौ वीरौ सर्वपारिषदैः सह ।
प्रस्थितौ तत्सरो दिव्यं दिव्यैश्वर्यशतैर्युतम् ॥ ७.८१.८ ॥

二位英雄说道“就这样吧”,便与所有随从一同出发,前往那圣洁的湖泊,那里充满百种神圣的光辉。

7.81.9

निर्दिष्टं यद्वृषाङ्केण पुण्यं सर्वार्थसाधकम् ।
तौ जग्मतुरसम्भ्रान्तौ नरनारायणावृषी ॥ ७.८१.९ ॥

二位仙人那罗与那罗延毫不慌乱地前往那圣湖,那是持牛旗者所指示的、能成就一切目的的圣地。

7.81.10

ततस्तौ तत्सरो गत्वा सूर्यमण्डलसन्निभम् ।
नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ ॥ ७.८१.१० ॥

于是二人来到那湖边,在水中看见一条如日轮般光辉的可怖大蛇——阿周那与阿out它看见了它。

7.81.11

द्वितीयं चापरं नागं सहस्रशिरसं वरम् ।
वमन्तं विपुला ज्वाला ददृशातेऽग्निवर्चसम् ॥ ७.८१.११ ॥

他们又看见第二条卓越的大蛇,有千头,喷吐巨大的火焰,其色如火。

7.81.12

ततः कृष्णश्च पार्थश्च संस्पृश्याम्भः कृताञ्जली ।
तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥ ७.८१.१२ ॥

于是黑天与普利塔之子触水,合掌,礼敬持牛旗者,走近那两条大蛇。

7.81.13

गृणन्तौ वेदविद्वांसौ तद्ब्रह्म शतरुद्रियम् ।
अप्रमेयप्रमाणं तौ गत्वा सर्वात्मना भवम् ॥ ७.८१.१३ ॥

两位精通吠陀者诵念那具无量权威的百楼陀罗颂,全心全意前往婆伐(湿婆)处。

7.81.14

ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ ।
धनुर्बाणश्च शत्रुघ्नं तद्द्वन्द्वं समपद्यत ॥ ७.८१.१४ ॥

于是,凭借楼陀罗的威德,那两条大蛇舍弃原形,化作了那对能摧毁敌人的弓与箭。

7.81.15

तौ तज्जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् ।
आजहूतुर्महात्मानौ ददतुश्च महात्मने ॥ ७.८१.१५ ॥

两位大德欢喜地接过那光辉的弓与箭,献上后交给了一位大德。

7.81.16

ततः पाश्वाद्वॄषाङ्कस्य ब्रह्मचारी न्यवर्तत ।
पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः। ॥ ७.८१.१६ ॥

于是,从牛旗者(湿婆)身旁,一位梵行者退去——他目呈黄褐,是苦行之所,强大,青红色。

7.81.17

स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः ।
विचकर्षाथ विधिवत्सशरं धनुरुत्तमम् ॥ ७.८१.१७ ॥

他拿起那把最好的弓,凝神立于自己的位置上,随后依仪轨,将那把至上的弓连同箭拉开。

7.81.18

तस्य मौर्वी च मुष्टिं च स्थानं चालक्ष्य पाण्डवः ।
श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः ॥ ७.८१.१८ ॥

般度之子、威力不可思议者,观察了那弓的弦、握把与站姿,又听了婆伐所说的咒语,便持起了它。

7.81.19

स सरस्येव तं बाणं मुमोचातिबलः प्रभुः ।
चिक्षेप च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ॥ ७.८१.१९ ॥

那位力大无穷的主君仿佛在湖中射出了那支箭,英雄又将那张弓投入同一湖中。

7.81.20

ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा ।
वरमारण्यके दत्तं दर्शनं शङ्करस्य च।
मनसा चिन्तयामास तन्मे सम्पद्यतां भव ॥ ७.८१.२० ॥

于是,知道婆伐(湿婆)已欢喜,记忆清晰的阿周那回想起在森林中所赐之恩和与商羯罗的相见,心中想道:愿婆伐成就我的这一心愿。

7.81.21

तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः ।
तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ॥ ७.८१.२१ ॥

婆伐知其心意,欢喜之下赐予恩典——那柄可怖的婆舍婆多神箭,作为完成誓愿之用。

7.81.22

ततः पाशुपतं दिव्यमवाप्य पुनरीश्वरात् ।
संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत ॥ ७.८१.२२ ॥

随后,阿周那再次从主神处获得神圣的婆舍婆多神箭,他因喜悦而毛发竖立,不可战胜,认为自己的使命已经完成。

7.81.23

ततोऽर्जुनहृषीकैशौ पुनः पुनररिंदमौ ।
ववन्दतुश्च संहृष्टौ शिरोभ्यां तं महेश्वरम् ॥ ७.८१.२३ ॥

于是阿周那与克里希那——两位降伏敌人者——欢喜地一再低头向那位大自在天行礼。

7.81.24

अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ ।
प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ॥ ७.८१.२४ ॥

就在那一刻,二位英雄阿周那与克里希那得到婆伐的允许,满怀至高的喜悦,回到了自己的营地。

7.81.25

तथा भवेनानुमतौ महासुरनिघातिना ।
इद्रावीष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ॥ ७.८१.२५ ॥

如此,得到摧毁大阿修罗的婆伐(湿婆)许可,二人欣喜如因陀罗与毗湿奴渴望诛杀jambha一般(阿周那与克舍那离去)。