Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.85

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.85.1

श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः ।
अभिमन्यौ हते तत्र कैर्वाऽयुध्यन्त पाण्डवाः ॥ ७.८५.१ ॥

次日,充满悲伤与忧愁的般度之子们,在阿比曼尤被杀之后做了什么?他们与谁交战?

7.85.2

जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः ।
कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः ॥ ७.८५.२ ॥

他们明知其所为,库鲁人与萨维亚萨钦(阿周那)犯下那罪行之后,如何能无所畏惧?告诉我,我的人们。

7.85.3

पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् ।
आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे ॥ ७.८५.३ ॥

那因丧子之痛而煎熬、愤怒地前来、如死神与终结者一般的人中之虎(阿周那),他们在战场上是如何看待的?

7.85.4

कपिराजध्वनं सङ्ख्ये विधुन्वानं महद्धनुः ।
दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वत मामकाः ॥ ७.८५.४ ॥

在战场上看到他——带着猴王(哈奴曼)旗帜、挥动大弓、因丧子而憔悴——我的人们做了什么?

7.85.5

किन्तु सञ्जय सङ्ग्रमे वृत्तं दुर्योधनं प्रति ।
परिदेवो महानद्य श्रूयते हि गृहेगृहे ॥ ७.८५.५ ॥

然而,桑惹耶,战场上关于难敌所发生的事——今天家家户户都能听到巨大的哀号。

7.85.6

भूयाञ्शब्दानतीत्यान्याञ्शब्दः सैन्धववेश्मनि ।
पौराणिकानां तूर्याणां शङ्खदुन्दुभिघोषवान् ॥ ७.८५.६ ॥

在信度的宫殿里,有一种声音超过所有其他声音——古老乐器的声音,伴随着海螺与战鼓的轰鸣。

7.85.7

सूतमागधबन्दीनां नर्तकानां च निःस्वनः ।
सोऽद्य न श्रूयते शब्दः सूत पुत्र यथा पुरा ॥ ७.८५.७ ॥

御者、颂诗者、赞歌者与舞者的喧声,今日已不可闻,御者之子啊,如往昔一般。

7.85.8

शब्दो नानाविधोऽभीष्टमभवद्यत्र मे श्रुतः ।
दीनानामद्य तं शब्दं न शृणोमि समीरितम् ॥ ७.८५.८ ॥

我曾在此处听到种种悦耳之声,今日却听不见那些不幸者所发出的声音。

7.85.9

निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय ।
आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् ॥ ७.८५.९ ॥

桑闍耶啊,我昔日坐在萨谛耶狄里与苏摩达多的府邸中,亲爱的,曾听到极妙的声音。

7.85.10

तदद्य पुण्यहीनोऽहमार्तस्वरनिनादितम् ।
निवेशनं गतोत्साहं विकृतं तात लक्षये ॥ ७.८५.१० ॥

今日我失去功德,亲爱的,看见那府邸回荡着哀号之声,失去了生气,已然面目全非。

7.85.11

विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः ।
अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः ॥ ७.८५.११ ॥

毗毗珊提、杜尔穆卡、奇多塞那与毗迦尔那,以及我其他诸子的声音,也不再这样听见。

7.85.12

ब्राह्मणआः क्षत्रिया वैश्या यं शिष्याः पर्युपासते ।
द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् ॥ ७.८५.१२ ॥

德罗纳之子,伟大的弓箭手,婆罗门、刹帝利与吠舍以弟子身份侍奉他,是我诸子的依靠。

7.85.13

वितण्डालापसंलापैर्द्रुतवादित्रवादितैः ।
गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् ॥ ७.८५.१३ ॥

日夜沉醉于争辩的言谈、急促的乐器演奏和各种悦耳歌曲之中的人。

7.85.14

उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः ।
श्लक्ष्णस्तस्य गृहे शब्दो नाद्य द्रौणेर्यथा पुरा ॥ ७.८५.१४ ॥

在他的家中,许多俱卢、般度和萨多人前来侍奉,如今却听不到从前德罗纳之子那悦耳的声音了。

7.85.15

द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये ।
अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः ॥ ७.८५.१५ ॥

那些极力侍奉伟大弓手德罗纳之子的歌者与舞者,他们的声音也听不到了。

7.85.16

विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः ।
श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु ॥ ७.८५.१६ ॥

从前傍晚在频陀与阿努频陀的营地里所听到的巨大喧声,今日不再如此;在迦叶人的家中也没有了。

7.85.17

नित्यं प्रमुदितानां च तालगीतस्वनो महान् ।
नृत्यतां श्रूयते तात गणानां सोऽद्य न स्वनः ॥ ७.८५.१७ ॥

我的孩子啊!那些常年欢乐、伴随节拍与歌声起舞的乐队的巨大声响,今日已听不到了。

7.85.18

सप्ततन्तून्वितन्वाना याजका यमुपासते ।
सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः ॥ ७.८५.१८ ॥

那些施行七线祭礼的祭司所侍奉的,是索摩达塔之子、学识的宝库,如今他们的声音也听不到了。

7.85.19

ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः ।
द्रोणस्यासीदविरतो गृहे तं न शृणोम्यहम् ॥ ७.८५.१९ ॥

在德罗纳家中,弓弦的嗡鸣、婆罗门的诵经声,以及长矛、刀剑与战车的喧声从未停息;如今我已听不见了。

7.85.20

नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः ।
वादित्रनादितानां च सोऽद्य न श्रूयते महान् ॥ ७.८५.२० ॥

来自各地歌者的歌声之巨响,以及乐器的鸣响,今日已听不到了。

7.85.21

यदाप्रभृत्युपप्लुव्याच्छान्तिमिच्छञ्जनार्दनः ।
आगतः सर्वभूतानामनुकम्पार्थमच्युतः ॥ ७.८५.२१ ॥

自从Janārdana从Upaplavya为求和平而来,那不朽者便出于对一切众生的怜悯而来。

7.85.22

ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा ।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥ ७.८५.२२ ॥

那时我温和地对难敌说:“孩子啊,借婆苏提婆之力与般度诸子讲和吧。”

7.85.23

कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः ।
संशाम्य भ्रातृभिस्तैस्तु क्षत्रियानभिपालय ॥ ७.८५.२३ ॥

我认为时机已到;难敌啊,不要越轨。与那些兄弟讲和,保护刹帝利吧。

7.85.24

शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।
हितार्थमभिजल्पन्तं न तवास्ति रणे जयः ॥ ७.८५.२४ ॥

若你拒绝那为求和平、为你的福祉而进言的羯舍婆,你在战场上便不会获胜。

7.85.25

प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् ।
अनुनेयानि जल्पन्तमनयान्नान्वपद्यत ॥ ७.८५.२५ ॥

他拒绝了达沙尔哈之牛(克里希那),即所有弓箭手中最优秀者,此人正在说着劝和之言;他因愚昧而不肯听从。

7.85.26

कर्णदुःशासनमतः सौबलस्य च दुर्मतेः ।
प्रत्याख्यातो महाबाहुःकुलान्तकरणेन वै ॥ ७.८५.२६ ॥

于是,听从迦尔纳、难降以及恶意的苏跋罗之子(沙恭尼)的意见,这位毁灭家族的大臂者拒绝了他。

7.85.27

ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः ।
अन्ववर्तत मां हित्वा कृष्टः कालेन दुर्मतिः ॥ ७.८५.२७ ॥

于是他抛弃了我,追随难降与迦尔纳二人的意见;被时间牵引的恶意者就这样一直走下去了。

7.85.28

न ह्यहं युद्धमिच्छामि विदुरो द्रोण एव वा ।
बाह्लीकः सोमदत्तो वा भीष्मो द्रौणायनिस्तथा ॥ ७.८५.२८ ॥

我不愿开战——维杜罗、德罗纳、跋利迦、索摩达塔、毗湿摩,以及德罗纳之子(阿湿婆陀马)亦然。

7.85.29

शलो भूरिश्रवाश्चैव पुरुमित्रो विविंशतिः ।
जयः कृपो वा धर्मात्मा ये चान्ये मम बान्धवाः ॥ ७.८५.२९ ॥

沙利耶与步利沙罗婆斯,补鲁弥多罗与毗文莎提,胜者或正法心的克利巴,以及我其他的亲族。

7.85.30

एतेषां मतमास्थाय यदि वत्स्यति पुत्रकः ।
एतेभ्यश्च मदूर्ध्वं च अभोक्ष्यद्वसुधामिमाम् ॥ ७.८५.३० ॥

若我的儿子采纳了他们的意见而如此行事,那么在我之后他也会享有这片大地。

7.85.31

श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः ।
कुलीनाः सम्मताः प्राज्ञाः सुखं जीवन्ति मानवाः। ॥ ७.८५.३१ ॥

温和甜美、在亲族中言辞悦人、出身高贵、受人尊敬且有智慧的人,过着快乐的生活。

7.85.32

धर्मापेक्षी नरो नित्यं सर्वत्र लभते सुखम् ।
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते ॥ ७.८५.३२ ॥

常常遵循法(dharma)的人,处处得到快乐;死后也获得吉祥与恩惠。

7.85.33

अर्हास्ते पृथिवीं भोक्तुं समर्थाः साधनेऽपि च ।
तेषामपि समुद्रान्ता पितृपैतामही मही ॥ ७.८५.३३ ॥

他们配得享有大地,也有能力经营;这片以海洋为界、从父祖传承下来的大地,理应属于他们。

7.85.34

न च त्वाऽभिभविष्यन्ति हित्वा धर्मं पृथात्मजाः ।
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि ॥ ७.८५.३४ ॥

普利塔之子不会舍弃法来胜过你;受命之时,般度五子将坚守法道。

7.85.35

सन्ति मे ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः ।
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः ॥ ७.८५.३५ ॥

孩子啊,我还有亲族,般度五子会听从他们的话——沙利耶、索摩达塔,以及大心的毗湿摩。

7.85.36

द्रोणस्याथ विकर्णस्य बाह्लीकस्य कृपस्य च ।
अन्येषां चैव वृद्धानां भरतानां महात्मनाम्।
त्वदर्थमब्रवं तात न जहुर्वचनानि ते ॥ ७.८५.३६ ॥

还有德罗纳、毗迦尔纳、跋利迦、克里帕,以及其他年长的大心婆罗多人的话。孩子,我是为了你而说的;他们从未违背你的言语。

7.85.37

कं वा त्वं मन्यसे तेषां यस्त्वां ब्रूयादतोऽन्यथा ।
कृष्णो न धर्मं सञ्जह्यात्सर्वे ते हि तदन्वयाः ॥ ७.८५.३७ ॥

你以为他们中谁会对你说相反的话?克里希那不会舍弃法,因为他们都出自那一族。

7.85.38

मयाऽपि चोक्तास्ते वीरा वचनं धर्मसंहितम् ।
नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः ॥ ७.८५.३८ ॥

我也曾对那些英雄说过合乎法的话;行法的般度子孙必定不会另行其事。

7.85.39

इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् ।
न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् ॥ ७.८५.३९ ॥

我如此悲叹,御者啊,多次对儿子说过,可是那愚昧的人没有听我的话。我认为这是时运的颠倒。

7.85.40

वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः ।
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ॥ ७.८५.४० ॥

在狼腹与阿周那所在之处,还有毗湿奴族英雄萨谛奇、般遮罗的乌达玛乔瑟,以及不可战胜的尤陀摩尼由。

7.85.41

धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः ।
अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः ॥ ७.८५.४१ ॥

不可侵犯的猛光,不可征服的斯坎丁;阿什迦族与凯迦耶族;刹帝利法者,还有索摩迦之子。

7.85.42

चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभूः ।
द्रौपदेया विराटश्च द्रुपदश्च महारथः ॥ ७.८५.४२ ॥

雌陀王与切基塔那,迦尸王之子无敌的阿毗菩,德劳波蒂之子们,毗罗吒,以及大车将德鲁帕陀。

7.85.43

यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः ।
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः ॥ ७.८५.४३ ॥

那两位孪生子,人中虎,以及谋臣摩图苏陀那——在这世上,谁想活命,会与他们交战呢?

7.85.44

दिव्यमस्त्रं विकुर्वाणान्प्रसहेद्वा परान्मम ।
अन्यो दुर्योधनात्कार्णाच्छकुनेश्चापि सौबलात्।
दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् ॥ ७.८५.४४ ॥

除了难敌、迦尔纳、沙恭尼,以及作为第四人的难降,我看不到第五个人能抵挡使用神兵的我的敌人。

7.85.45

येषां वचनकृत्स स्याद्विष्वक्सेनो रथे स्थितः ।
सन्नद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः ॥ ७.८५.४५ ॥

若他们的执行者——站在战车上的毗湿伐刹那(黑天)听从其言,而他们的战士是披甲的阿周那,那便没有失败。

7.85.46

तथा मम विलापानां नायं दुर्योधनः स्मरेत् ।
हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ वै ॥ ७.८५.४६ ॥

这样,难敌便不会记起我的哀叹了。你说,人中虎般的毗湿摩与德罗纳已经被杀。

7.85.47

तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शनात् ।
दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः ॥ ७.८५.४७ ॥

想起维杜罗那些有远见所说的话,看到这结果的终局,我想我的儿子们现在正在哀叹。

7.85.48

सेनां दृष्ट्वाऽभिभूतां मे शैनेयेनार्जुनेन च ।
शून्यान्दृष्ट्वा रथोपस्थान्मन्ये शोचन्ति पुत्रकाः ॥ ७.८५.४८ ॥

看到我的军队被沙伊涅耶(萨提亚基)与阿周那所压倒,看到战车的座位空空如也,我想我的儿子们正在哀叹。

7.85.49

हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् ।
अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः ॥ ७.८५.४९ ॥

如同寒冬将尽时,被风吹动的大火焚烧干燥的丛林,那位持财者(阿周那)正在焚烧我的军队。

7.85.50

आचक्ष्व मम तत्सर्वं कुशलो ह्यसि सञ्जय ।
यदोपयाताः सायाह्ने कृत्वा पार्थस्य किल्बिषं ॥ ७.८५.५० ॥

桑闍耶,你是能干的,请把一切都告诉我:他们在傍晚犯下对般度之子的过失后,是如何返回的。

7.85.51

अभिमन्यौ हते तात कथमासीन्मनो हि वः ॥ ७.८५.५१ ॥

孩子啊,阿毗摩竭陀被杀之时,你们的心意如何?

7.85.52

न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः ।
अपकृत्य महत्तात सोढुं शक्ष्यन्ति मामकाः ॥ ७.८५.५२ ॥

孩子啊,在战斗中,我的人永远无法忍受对持甘蒂婆弓者之事迹所造成的大错。

7.85.53

किन्नुः दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् ।
दुःशासनः सौबलश्च तेषामेवं गते सति ॥ ७.८५.५३ ॥

那么,难敌做了什么,迦尔纳说了什么?事情既已如此,难降与苏巴拉之子(沙恭尼)又说了什么?

7.85.54

सर्वेषां समवेतानां पुत्राणां मम सञ्जय ।
यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम् ॥ ७.८५.५४ ॥

桑闍耶,我那些聚集在战场上的儿子们遭遇了什么——孩子啊,由于那愚人的过失,这一切已经极其严重地发生了。

7.85.55

लोभानुगस्य दुर्बुद्धेः क्रोधेन विकृतात्मनः ।
राज्यकामस्य मूढस्य रागोपहतचेतसः।
दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय ॥ ७.८५.५५ ॥

桑闪耶啊,请把我那儿子的全部行为告诉我,无论是恶行还是善行。他追随贪欲,心怀恶念,灵魂因愤怒而扭曲,渴望王权,愚昧迷惑,心智被爱欲所击倒。