摩诃婆罗多 · 章 7.90
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.90.1
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना ।
केतु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम् ॥ ७.९०.१ ॥
当那支军队的前锋被戴冠者(阿朱那)击溃并杀戮时,那场战斗中的英雄们向持财者(阿朱那)迎上前去。
7.90.2
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः ।
द्रोणमाश्रित्य तिष्ठन्ति प्राकारमकुतोभयाः ॥ ७.९०.२ ॥
或者他们已进入车阵,决心落空,依靠德罗纳,如城墙般无畏地站立着?
7.90.3
तथाऽर्जुनेन सम्भग्ने तस्मिंस्तव बलेऽनघ ।
हतवीरे हतोत्साहे पलायनकृतक्षणे ॥ ७.९०.३ ॥
无罪者啊!当你的军队被阿朱那如此击溃,英雄被杀、士气丧尽之时,逃跑的时刻已经到来。
7.90.4
पाकशासनिनाऽभीक्ष्णं वध्यमाने शरोत्तमैः ।
न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम् ॥ ७.९०.४ ॥
当因陀罗之子(阿朱那)以上乘之箭不断射击时,那场战斗中无人能够直视阿朱那。
7.90.5
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् ।
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्यगात् ॥ ७.९०.५ ॥
于是,大王!你的儿子难降见到军队如此状况,极度愤怒,为战而向阿朱那迎去。
7.90.6
सकाञ्चनविचित्रेण कवचेन समावृतः ।
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥ ७.९०.६ ॥
身披镶金彩饰的铠甲,头戴阎浮檀金的头盔,那位勇士有着猛烈的武勇。
7.90.7
नागानीकेन महता ग्रसन्निव महीमिमाम् ।
दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥ ७.९०.७ ॥
大王啊,难降以巨大的象军,仿佛要吞噬这大地,包围了善用双手的右手弓箭手(阿周那)。
7.90.8
हादेन गजघण्टानां शङ्खानां निनदेन च ।
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥ ७.९०.८ ॥
象铃的轰鸣、海螺的声响、弓弦的嗡鸣,以及象的吼叫声。
7.90.9
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् ।
युवराजो बलश्लाघी पिङ्गलः प्रियदर्शनः।
स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥ ७.९०.९ ॥
大地、四方与天空都被那声音充满。以力量自豪的太子,黄褐色的面容、令人喜悦的形貌,在片刻间变得可怕而凶猛。
7.90.10
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् ।
व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥ ७.९०.१० ॥
他看见那些被象钩迅速驱使而冲来的、长着如蛇般鼻子的愤怒的象群,宛如长翼的山峦。
7.90.11
सिंहनादेन महता नरसिंहो धनञ्जयः ।
तदाचलघनप्रख्यं पताकाशतसङ्कुलम्।
गजानीकममित्राणामभितो व्यधमच्छरैः ॥ ७.९०.११ ॥
于是人中雄狮财富征服者(阿周那)发出巨大的狮吼,以箭从四面击溃敌人的象军——那象军宛如云中山峦,布满数百面旗帜。
7.90.12
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् ।
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥ ७.९०.१२ ॥
犹如大海被狂风掀起巨浪,冠冕者(阿周那)冲入那象军,恰如海中巨兽摩竭鱼闯入。
7.90.13
खमाश्रित इवादित्यः प्रतपन्स युगक्षये ।
ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जनः ॥ ७.९०.१३ ॥
如同在劫末立于天空、炽烈燃烧的太阳,摧毁敌城的般度之子(阿周那)出现在所有方向。
7.90.14
खुरशब्देन चाश्वानां नेमिघोषेण तेन च ।
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ॥ ७.९०.१४ ॥
马蹄的声音、车轮的轰鸣、那高声的喊叫,以及那弓弦的嗡鸣声。
7.90.15
नानावादित्रशब्देन पाञ्चजन्यस्वनेन च ।
देवदत्तस्य घोषेण गाण्डीवनिनदेन च।
मन्दवेगा नरा नागा बभूवुस्ते विचेतसः ॥ ७.९०.१५ ॥
在各种乐器的声音、般遮若尼亚螺号的鸣响、天授的呼声以及甘狄瓦弓的吼声中,人与象都行动迟缓,神志昏乱。
7.90.16
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ।
ते गजाः समसीदन्त मग्नाः पङ्कार्णवेष्विव ॥ ७.९०.१६ ॥
那些象被萨维亚萨钦(阿周那)的箭射中,箭的触感如毒蛇一般,它们像陷入泥海之中一样倒下沉没。
7.90.17
युगपच्च समाविष्टैः शरैर्गाण्डीवधन्वनः ।
अनेकशतसाहस्रैर्द्रुमा मधुकरैरिव।
पुङ्खावशिष्टैर्बहुभिः शोणितोत्पीडवाहिभिः ॥ ७.९०.१७ ॥
许多象身上只剩下数十万支箭的羽尾露在外面,血流不止,就像树木被蜜蜂覆盖一般,都被持甘狄瓦弓者同时射入的箭所贯穿。
7.90.18
आरावं परमं कृत्वा वध्यमानाः किरीटिना ।
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥ ७.९०.१८ ॥
在戴冠者(阿周那)的击杀下,它们发出巨大的哀嚎,不断地倒在地上,像被斩断翅膀的山峰。
7.90.19
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च ।
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥ ७.९०.१९ ॥
其他的象,在象牙套、额角与颞腺上中箭,像鹤一样一次又一次地哀鸣。
7.90.20
गजस्कन्धगतानां च पुरुषाणां किरीटिना ।
छिद्यन्ते चोत्तमाङ्गानि भुल्लैः सन्नतपर्वभिः ॥ ७.९०.२० ॥
坐在象肩上的人,其头颅正被戴冠者以弯曲节的月牙箭斩落。
7.90.21
सकुण्डलानां पततां शिरसां धरणीतले ।
पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम् ॥ ७.९०.२१ ॥
带着耳环的头颅如莲花堆般落在大地上,阿周那仿佛献上了一份供物。
7.90.22
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः ।
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥ ७.९०.२२ ॥
在战场上象群奔突之际,被缚于装具上、无甲、受伤、满身血污的人们悬挂着。
7.90.23
केचिदेकेन बाणेन सुयुक्तेन सुपत्रिणा ।
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥ ७.९०.२३ ॥
有人被一支装配精良、羽毛齐整的箭射穿,有人两三人同时被射穿,都倒在了地上。
7.90.24
अपरे मदसंरब्धा मातङ्गाः पर्वतोपमाः ।
सारोहा न्यपतन्भूमौ द्रुमवन्त इवाचलाः ॥ ७.९०.२४ ॥
其他被发情激怒的象,如山一般,连同骑手一起倒在地上,如同带着树木的山崩倒。
7.90.25
मौर्वी ध्वजं धनुश्चैव युगमीषां तथैव च ।
रथिनां कुट्टयामास भल्लैः सन्नतपर्वभिः ॥ ७.९०.२५ ॥
他以关节弯曲的薄刃箭摧毁了弓弦、旗帜、弓、车轭、车辕,以及战车手的车身部件。
7.90.26
न सन्दधन्न चाकर्षन्न विमुञ्चन्न चोद्वहन् ।
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥ ७.९०.२६ ॥
他既不搭箭,也不拉弦,不放箭,也不举起,只是持弓绕圈,如舞蹈一般,丕尔塔清晰可见。
7.90.27
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः ।
मुहूर्तान्न्यपतन्नन्ये वारणा वसुधातले ॥ ७.९०.२७ ॥
其余的象被铁箭射穿,口中吐血,片刻之间便倒在地上。
7.90.28
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ॥ ७.९०.२८ ॥
大王,在那极其混乱的战场上,四面八方可见无数无头的躯体挺立起来。
7.90.29
सचापाः साङ्गुलित्राणाः सखङ्गाः साङ्गदा रणे ।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥ ७.९०.२९ ॥
战场上可见被砍断的手臂,仍持弓、戴指套、握剑、佩臂钏,并饰有金饰。
7.90.30
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
चक्रैर्विमथितैरक्षैर्भग्नैश्च बहुधा युगैः ॥ ७.९०.३० ॥
战车散落一地,车身与底座、车辕与弯曲的杆件、碾碎的车轮与车轴、以及多处断裂的车轭,狼藉不堪。
7.90.31
चर्मचापधरैश्चैव व्यवकीर्णैस्ततस्ततः ।
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥ ७.९०.३१ ॥
持盾执弓的战士散落各处;大地上铺满了花环、饰物、衣物和倒下的大旗。
7.90.32
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः ।
अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥ ७.९०.३२ ॥
那里的大地呈现出可怖的景象,满是被杀的象马与倒下的刹帝利。
7.90.33
एवं दुःशासनबलं वध्यमानं किरीटिना ।
सम्प्राद्रवन्महाराज व्यथितं सहनायकम् ॥ ७.९०.३३ ॥
如此,杜奢娑那的军队被戴冠者(阿周那)所杀,大王啊,惊恐地与其将领一同四散奔逃。
7.90.34
एवं बले द्रुते याते राजपुत्रं महारथम् ।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.९०.३४ ॥
军队如此溃逃之后,他以十箭射中大车战士、王子,并说道:“站住,站住!”
7.90.35
जीवितेन कथं गन्ता दुरुक्तं यावदद्य ते ।
तद्वाक्यसदृशं कर्म कुरु त्वं यदि मन्यसे ॥ ७.९०.३५ ॥
“你至今说了那些狠话,如今如何能活着离去?若你认为可以,就做与那些话相称的事吧。”
7.90.36
एवमुक्त्वा ततो राजा पार्थः पार्थिवमर्दनः ।
भृशं क्रुद्धो महाराज अविध्यत्तनयं तव ॥ ७.९०.३६ ॥
说完这话,摧毁诸王的普利塔之子(阿周那)极为愤怒,大王啊,射中了你的儿子。
7.90.37
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः ।
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥ ७.९०.३७ ॥
于是杜舍萨那心生恐惧,被箭所伤,率领军队,希望以德罗纳为保护者,前往车阵。