摩诃婆罗多 · 章 7.91
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.91.1
दुःशसनबलं हत्वा सव्यसाची महारथः ।
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् ॥ ७.९१.१ ॥
杀尽难闍那的军队之后,大车战士萨维耶萨钦(阿周那)欲护持信度王,冲向德罗纳的军阵。
7.91.2
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् ॥ ७.९१.२ ॥
他走近站在阵前的德罗纳,经克里希那许可,合掌说出了这些话。
7.91.3
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे ।
भवत्प्रसादादिच्छामि प्रवेष्टं दुर्भिदां चमूम् ॥ ७.९१.३ ॥
婆罗门啊,愿以湿婆之恩赐我祝福,为我说吉祥之语。蒙您恩典,我愿冲入这难以攻破的大军。
7.91.4
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च ।
धौम्यकृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते ॥ ७.९१.४ ॥
您于我如父,亦如法王,与达乌玛、克里希那相同。这真实之言我告诉您。
7.91.5
अश्वत्थामा यथा तात रक्षणीयस्त्वयाऽनघ ।
तथाऽहमपि ते रक्ष्यः सदैव द्विजसत्तम ॥ ७.९१.५ ॥
亲爱的无垢者啊,犹如阿湿婆达曼应由您护持,我也应永远受您护持,再生者中最优秀者啊。
7.91.6
तव प्रसादादिच्छेयं सिन्धुराजानमाहवे ।
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे प्रभो ॥ ७.९१.६ ॥
蒙您恩典,我愿在战场上杀死信度王。人中最优秀者啊,主啊,请护持我的誓言。
7.91.7
एवमुक्तस्तदाऽऽचार्यः प्रत्युवाच स्मयन्निव ।
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः ॥ ७.९१.७ ॥
德罗纳老师听后微笑答道:“若不先胜我,比跋苏(阿周那)便不能征服胜车。”
7.91.8
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् ।
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् ॥ ७.९१.८ ॥
德罗纳说完这些,便笑着以锐利的箭雨覆盖他,连同他的战车、马匹、旗帜和御者。
7.91.9
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः ।
द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्हत्तरैः ॥ ७.९१.९ ॥
于是阿周那以自己的箭挡住德罗纳的箭雨,并以可怖而锐利的箭攻击德罗纳。
7.91.10
विव्याध च रणे द्रोणमनुमान्य विशाम्पते ।
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः ॥ ७.९१.१० ॥
人主啊!阿周那在战场上恭敬地向德罗纳致意后,依循武士之法,又以九支箭射穿了他。
7.91.11
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ ।
विषाग्निज्वलितप्रख्यैरिषुभिः कृष्णपाण्डवौ ॥ ७.९१.११ ॥
德罗纳以自己的箭斩断他的箭,并以如毒与火般炽烈的箭射穿了那二人——克里希那与般度之子。
7.91.12
इयेप पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् ।
तस्य चिन्तयतस्त्वेव फल्गुनस्य महात्मनः ॥ ७.९१.१२ ॥
般度之子设法以箭射断他的弓;当伟大的法尔古那(阿周那)正在思量此事时——
7.91.13
द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् ।
विव्याध च हयानस्य ध्वजं सारथिमेव च ॥ ७.९१.१३ ॥
德罗纳毫不慌乱,以箭迅速射断了他的弓弦;这位勇猛的战士又射穿了他的马、旗帜和御者。
7.91.14
अर्जुनं च शरैर्वीरः स्मयमानोऽभ्यवाकिरत् ।
एतस्मिन्नन्तरे पार्थः सज्यं कृत्वा महद्धनुः ॥ ७.९१.१४ ॥
英雄德罗纳面带微笑,以箭雨覆盖阿周那;与此同时,帕尔特ha张弦于他的大弓之上。
7.91.15
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरः ।
मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् ॥ ७.९१.१५ ॥
精通一切兵器者中的最优秀者,想要超越他的老师,迅速射出了六百支箭,仿佛只取了一支。
7.91.16
पुनः सप्तशतानन्यान्सहस्रं चानिवर्तिनः ।
चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् ॥ ७.९१.१६ ॥
他又射出七百支其他箭和一千支不退的箭,还有成万的箭;它们击中了德罗纳的那支军队。
7.91.17
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना ।
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः ॥ ७.९१.१७ ॥
被那位强大、熟练、奇妙的战士的精准武器射穿,人、马和象纷纷倒下,失去了生命。
7.91.18
विसूताश्वध्वजाः पेतुः सञ्छिन्नायुधजीविताः ।
रथिनो रथमुख्येभ्यः सहसा शरपीडिताः ॥ ७.९१.१८ ॥
战车武士的马匹与旗帜被扯落,兵器与性命被斩断,被箭矢折磨,突然从他们的主战车上坠落。
7.91.19
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः ।
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् ॥ ७.९१.१९ ॥
被雷电、风与火摧碎、掷倒、焚烧的象群,形状相同地倒下,如山峰或云宫。
7.91.20
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः ।
हंसा हिमवतः पृष्ठे वारिविप्रहता इव ॥ ७.९१.२० ॥
被阿周那的箭射倒的数千匹马倒下,如喜马拉雅山背上被水滴击中的天鹅。
7.91.21
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः ।
युगान्तादित्यरश्म्याभैः पाण्डवास्त्रशरैर्हताः ॥ ७.९१.२१ ॥
如洪水般的战车、马、象和步兵之流,如水流般奇异,被般度之子的神箭所射倒,其光芒如劫末的太阳光。
7.91.22
तं पाण्डवादित्यशरांशुजालं ।
कुरुप्रवीरान्युधि निष्टपन्तम्।
स द्रोणमेघः शरवृष्टिवेगैः ।
प्राच्छादयन्मेघ इवार्करश्मीन् ॥ ७.९१.२२ ॥
般度之子的日箭光网,在战场上灼烧着俱卢勇士,德罗纳如云以其箭雨之势将之遮蔽,如云遮蔽日光。
7.91.23
अथात्यर्थं विसृष्टेन द्विषतामसुभोजिना ।
आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् ॥ ७.९१.२३ ॥
于是德罗纳以极猛射出的、吞噬敌人性命的铁箭,射中了财天(阿周那)的胸膛。
7.91.24
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाऽचलः ।
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः ॥ ७.९१.२४ ॥
他全身震颤,如地震中的山岳;然而毗婆叉(阿周那)持守坚定,以箭射穿了德罗纳。
7.91.25
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् ।
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥ ७.९१.२५ ॥
德罗纳以五支箭射中婆苏提婆,以七十三支箭射中阿周那,又以三支箭射中他的旗帜。
7.91.26
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी ।
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः ॥ ७.९१.२६ ॥
国王啊,勇猛的德罗纳想要突显他的弟子,霎时以箭雨使阿周那隐没不见。
7.91.27
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् ।
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् ॥ ७.९१.२७ ॥
我们看见婆罗堕遮(德罗纳)的箭接连不断地落下,他的弓弯成圆环,奇妙地显现出来。
7.91.28
तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जयौ ।
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः ॥ ७.९१.२८ ॥
国王啊,德罗纳射出的许多装有鹤羽的箭在战场上飞向婆苏提婆与财胜(阿周那)。
7.91.29
तत्राद्भुतमपश्याम शिलानामिव सर्पणम् ।
यद्द्रोणं तरसा पार्थो वृद्धं बालोऽपि नातरत् ॥ ७.९१.२९ ॥
我们在那里见到一件奇事:如石头浮动一般,年轻的般度之子(阿周那)竟无法以力量越过年迈的德罗纳。
7.91.30
चिन्तयामास वार्ष्णेयो दृष्ट्वा द्रोणस्य विक्रमम् ।
नातिवर्तिष्यते ह्योनं वेलामिव महार्णवः ॥ ७.९१.३० ॥
婆利深亚(克里希那)见德罗纳的威勇,心想:如大海不越其岸,此人也必不能胜过他。
7.91.31
ततः पार्थं समुद्विग्नं लक्ष्य चिन्तयतेऽच्युतः ।
द्रोणस्य चापि विक्रान्तं दृष्ट्वा मधुनिषूदनः।
इत्यब्रवीद्वासुदेवो धनञ्जयमुदारधीः ॥ ७.९१.३१ ॥
那时阿周那感到焦虑,阿遮逝多见到德罗纳的勇武,便思考起来。心怀高尚的婆苏提婆、摩豆苏陀那对持财者说了这些话。
7.91.32
पार्थपार्थ महाबाहो न नः कालात्ययो भवेत् ।
द्रोणमुत्सृज्य गच्छामो ब्राह्मणोऽसौ गतक्लमः ॥ ७.९१.३२ ॥
啊,帕尔沙,啊,大臂者!愿我们不要误了时机。让我们舍弃德罗纳而去吧;那位婆罗门已无疲惫。
7.91.33
पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशवम् ॥ ७.९१.३३ ॥
帕尔沙也对黑天、柯舍婆说:"一切依您的意愿。"
7.91.34
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजम् ।
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् ॥ ७.९१.३४ ॥
然后,他绕德罗纳右旋致敬,大臂者离去;比跋蹉(阿周那)转身,一边射出箭矢,一边前行。
7.91.35
ततोऽब्रवीत्स्वयं द्रोणः क्वेदं पाण्डव गम्यते ।
ननु नाम रणे शत्रुमजित्वा न निवर्तसे ॥ ७.९१.३५ ॥
于是德罗纳自己说道:"啊,般度之子!你要往哪里去?你岂不是不战胜敌人便不回头的吗?"
7.91.36
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते ।
न चास्ति स पुमाँल्लोके यस्त्वां युधि पराजयेत् ॥ ७.९१.३६ ॥
您是我的老师,不是我的敌人;我是您的弟子,如同您的儿子。世上没有哪个人能在战斗中击败您。
7.91.37
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः ।
त्वरायुक्तो महाबाहुस्त्वत्सैन्यं समुपाद्रवत् ॥ ७.९१.३७ ॥
如此说完,急于杀死胜车的大臂比毗跋图(阿周那)便急速冲向你的军队。
7.91.38
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
अन्वयातां महात्मानौ विशन्तं तावकं बलम् ॥ ७.९१.३८ ॥
当他冲入你的军队时,两位大德的般遮罗人、车轮护卫优陀摩尼与乌塔玛奥惹斯紧随其后。
7.91.39
ततो जयो महाराज कृतवर्मा च सात्वतः ।
काम्भोजश्च श्रुतायुश्च धनञ्जयमवारयन् ॥ ७.९१.३९ ॥
大王啊,那时胜者、萨特婆多族的乔天婆、憍萨罗的人以及室利多耶斯阻拦了财主(阿周那)。
7.91.40
तेषां दशसहस्राणि रथानामनुयायिनाम् ।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ ७.९१.४० ॥
跟随他们的战车有一万乘:阿毗沙诃人、首罗罗塞那人、尸毗人以及婆萨提人。
7.91.41
मावेल्लका ललित्थाश्च केकया मद्रकास्तथा ।
नारायणाश्च गोपालाः काम्भोजानां च ये गणाः ॥ ७.९१.४१ ॥
摩韦拉伽人、拉利特人、俱迦耶人、摩德罗人、那罗延人、牧牛人,以及憍萨罗的诸部。
7.91.42
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसम्मताः ।
भारद्वाजं पुरस्कृत्य हृष्टात्मानोऽर्जुनं प्रति ॥ ७.९१.४२ ॥
这些先前在战斗中被迦尔纳击败、被视为英雄的人,以婆罗堕遮(德罗纳)为前导,怀着喜悦之心,面向阿周那。
7.91.43
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् ।
त्यजन्तं तुमुले प्राणान्सन्नद्धं चित्रयोधिनम् ॥ ७.९१.४३ ॥
为爱子之死而悲痛、愤怒如死神阎摩、准备在激烈战斗中舍命、身披铠甲的神奇战士(阿周那)。
7.91.44
गाहमानमनीकानि मातङ्गमिव यूथपम् ।
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् ॥ ७.९१.४४ ॥
他如象群之首冲入军阵,那位大弓手、勇猛的人中之虎(阿周那),却被他们阻挡。
7.91.45
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च ॥ ७.९१.४५ ॥
随即一场令人毛骨悚然的激烈大战爆发了,众战士与阿周那彼此渴求对方。
7.91.46
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् ।
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितं ॥ ७.९१.४६ ॥
这位怀着诛杀胜车的愿望而来的人中之牛(阿周那),被他们齐心阻挡,如同治疗之法遏制已发的疾病。