摩诃婆罗多 · 章 7.92
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.92.1
सन्निरुद्धस्तु तैः पार्थो महाबलपराक्रमः ।
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः ॥ ७.९२.१ ॥
然而,被他们包围的般度之子,力量与勇武都极为强大,被车战者中的最优者德罗纳迅速追击。
7.92.2
किरन्निषुगणांस्तीक्ष्णान्स रश्मीनिव भास्करः ।
तापयामास तत्सैन्यं देहं व्याधिगणो यथा ॥ ७.९२.२ ॥
他洒下无数锐利的箭,灼烧那支军队,如同太阳以光线灼烤,如同众多疾病灼烧身体。
7.92.3
अश्वो विद्धो रथश्छिन्नः सारोहः पातितो गजः ।
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः ॥ ७.९२.३ ॥
战马被射穿,战车被毁,象与骑者一同倒下,华盖被弓箭射穿,战车则被摧毁车轮而无法行驶。
7.92.4
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः ।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥ ७.९२.४ ॥
军队被箭矢所伤,四面溃散。如此便爆发了喧嚣的战斗,无法分辨任何事物。
7.92.5
तेषां संयच्छतां सङ्ख्ये परस्परमजिह्मगैः ।
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् ॥ ७.९२.५ ॥
大王啊,尽管他们在战斗中以直飞的箭相互阻挡,阿周那仍不断使那支军队颤抖。
7.92.6
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः ।
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः ॥ ७.९२.६ ॥
白马之主 (阿周那) 欲使誓言成真,恪守诺言,向那辆以红马驾驭的最优战车猛冲而去。
7.92.7
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः ।
अन्तेवासिनमाचार्यो महेष्वासं समार्पयत् ॥ ७.९२.७ ॥
师尊德罗纳以二十五支直飞、刺穿要害的箭射向他那位大弓手弟子。
7.92.8
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः ।
अभ्यधावदिषूनस्यन्निषुवेगविघातकान् ॥ ७.९२.८ ॥
最善于持武器的毗跋蹉(阿周那)迅速向他冲去,射出能够阻挡箭势的箭。
7.92.9
तस्याशु क्षिपतो भल्लान्भल्लैः सन्नतपर्वभिः ।
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् ॥ ७.९२.९ ॥
当他迅速射出倒钩之箭时,那位心智无量者(阿周那)召唤梵箭,以弯节的倒钩箭反射穿了他。
7.92.10
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि ।
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः ॥ ७.९२.१० ॥
我们在战斗中目睹了德罗纳作为师长的奇妙技艺:年轻的阿周那与他相争,却没有反射穿他。
7.92.11
क्षरन्निव महामेघो वारिधाराः सहस्रशः ।
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः ॥ ७.९२.११ ॥
如大云降下千万道水流,德罗纳之云将箭雨倾注于般度之子这座山上。
7.92.12
अर्जुनः शरवर्षं तच्छरवर्षेण वीर्यवान् ।
अवारयदसम्भ्रान्तो न त्वाचार्यमपीडयत् ॥ ७.९२.१२ ॥
勇猛的阿周那不慌不忙,以自己的箭雨抵挡那箭雨,却没有伤害师尊。
7.92.13
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् ।
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः ॥ ७.९२.१३ ॥
德罗纳以二十五支箭射伤白马者(阿周那),又以七十支疾箭射中瓦苏提婆(克里希纳)的臂膀与胸膛。
7.92.14
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् ।
विसृजन्तं शितान्बाणानवारयत तं युधि ॥ ७.९२.१४ ॥
而智慧的普利塔之子(阿周那)微笑着,在战中阻挡了那位射出锐利箭矢的老师。
7.92.15
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ ।
अवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् ॥ ७.९२.१५ ॥
此时,被德罗纳射伤的那两位最优秀的御车战士,抵挡住了那如劫末之火般升起的不可战胜者。
7.92.16
वर्जयन्निशितान्बाणान्द्रोणचापविनिः सृतान् ।
किरीटमाली कौन्तेयो भोजानीकमथाविशत् ॥ ७.९२.१६ ॥
挡开德罗纳弓中射出的锐利箭矢,戴冠的贡蒂之子(阿周那)进入了波阇人的军队。
7.92.17
सोऽन्तरा कृतवर्माणं काम्भोजं च सुदक्षिणम् ।
अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् ॥ ७.९२.१७ ॥
他避开德罗纳,如同麦纳伽山一般,从中间径直向克里塔瓦尔曼和劫波王苏达克希那而去。
7.92.18
ततो भोजो नरव्याघ्रो दुर्धर्षं कुरुसत्तमम् ।
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः ॥ ७.९२.१८ ॥
此时,人中猛虎的波阇勇士不慌不忙,迅速以十支鹤羽箭射穿了那不可战胜的俱卢最优者。
7.92.19
तमर्जुनः शतेनाजौ राजन्विव्याध पत्रिणाम् ।
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् ॥ ७.९२.१९ ॥
大王,Arjuna在战斗中以百支箭射中他;随后又以另外三支箭射他,仿佛要迷惑萨都婆。
7.92.20
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् ।
एकैकं पञ्चविंशत्या सायकानां समार्पयत् ॥ ७.९२.२० ॥
然而Bhoja笑着,以二十五支箭分别射中Pārtha、Vāsudeva和Mādhava——每人各一。
7.92.21
तस्यार्जुनो धनुश्छित्त्वा वियाधैनं त्रिसप्तभिः ।
शरैरग्निशिखाकारैः क्रुद्धाशीविषसन्निभैः ॥ ७.९२.२१ ॥
Arjuna砍断了他的弓,并以二十一支箭射穿他——箭头如火焰,形似愤怒的毒蛇。
7.92.22
अथान्यद्धनुरादाय कृतवर्मा महारथः ।
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत ॥ ७.९२.२२ ॥
然后,大车手Kṛtavarman取起另一张弓,迅速以五支箭射穿他的胸膛,哦,婆罗多之后裔。
7.92.23
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः ।
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे ॥ ७.९२.२३ ॥
他又以五支锐利的箭射伤Pārtha;Pārtha以九支箭击中他胸膛的中央。
7.92.24
दृष्ट्वा विषक्तं कौन्तेयं कृतवर्मरथं प्रति ।
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् ॥ ७.९२.२४ ॥
看到贡蒂之子陷入与Kṛtavarman战车的纠缠,婆利什尼之后裔思忖:不可让我们的时间白白流逝。
7.92.25
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् ।
कुरु सम्बन्धकं हित्वा प्रमथ्यैनं विशातय ॥ ७.९२.२५ ॥
于是黑天对般度之子说:"不要对伽纳瓦尔曼心慈手软。舍弃亲情,将他碾碎击落。"
7.92.26
ततः स कृतवर्माणं महोयित्वाऽर्जुनः शरैः ।
अभ्यगाज्जवनैरश्वैः काम्भोजानामनीकिनीम् ॥ ७.९२.२६ ॥
于是阿周那以箭大加逼迫伽纳瓦尔曼,以疾马冲向憍萨罗王国之阵——即迦摩阇人的军队。
7.92.27
अमर्षितस्तु हार्दिक्यः प्रविष्टे श्वेतवाहने ।
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः ॥ ७.९२.२७ ॥
然而白马之主阿周那闯入之后,愤怒的希尔迪基亚挥动弓箭,与两位般遮罗战士交战。
7.92.28
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ ।
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः ॥ ७.९२.२८ ॥
然而阿周那的两位车轮护卫,紧随其后而来,伽纳瓦尔曼便从战车上以箭将他们包围。
7.92.29
तावविध्यत्ततो भोजः कृतवर्मा शितैः शरैः ।
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् ॥ ७.९२.२९ ॥
于是博阇人伽纳瓦尔曼以利箭射穿二人:三箭射向犹陀摩尼优,四箭射向乌塔玛乌贾斯。
7.92.30
तावप्येनं विविधतुर्दशभिर्दशभिः शरैः ।
त्रिभिरेव युधामन्युरुत्तगौजास्त्रिभिस्तथा।
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च ॥ ७.९२.३० ॥
二人也各以十箭射中他;犹陀摩尼优以三箭,乌塔玛乌贾斯亦以三箭,并斩断了他的旗帜与弓。
7.92.31
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्च्छितः ।
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् ॥ ७.९२.३१ ॥
于是希尔迪迦之子因愤怒而昏乱,另取一弓,使二位英雄失去弓箭,并以箭雨覆盖他们。
7.92.32
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः ।
तेनान्तरेषु बीभत्सुर्विवेशामित्रवाहिनीम् ॥ ७.९२.३२ ॥
二人各持另一张上了弦的弓,射击跋伽;而在那些空隙中,比波呵苏(阿周那)进入了敌军。
7.92.33
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा ।
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ ॥ ७.९२.३३ ॥
然而,二位人中雄牛被胜军所阻,无法在持国子的军队中获得通路,尽管他们极力争取。
7.92.34
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः ।
नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः ॥ ७.९२.३४ ॥
白马者(阿周那)在战斗中迅速地折磨敌军,他虽是敌人的毁灭者,却没有杀死前来的胜军。
7.92.35
तं दृष्ट्वा तु तथाऽऽयान्तंशूरो राजा श्रुतायुधः ।
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः ॥ ७.९२.३५ ॥
见他如此前来,英勇的国王室卢多阳怒不可遏,挥动大弓,向他冲去。
7.92.36
स पार्थं त्रिभिरानर्च्छत्सप्तत्या च जनार्दनम् ।
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् ॥ ७.९२.३६ ॥
他以三箭射阿周那,以七十箭射克里希那(补卢那),又以极锐利的剃刀头箭射中阿周那的旗帜。
7.92.37
ततोऽर्जुनो नवत्या तु शराणां नतपर्वणाम् ।
आजघान भृशं क्रुद्धस्तोत्रैरिव महाद्विपम् ॥ ७.९२.३७ ॥
于是阿周那愤怒至极,以九十支弯曲箭尾的箭猛烈射击他,如同用刺棒驱打大象。
7.92.38
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् ।
अथैनं सप्तसप्तत्या नाराचानां समार्पयत् ॥ ७.९२.३८ ॥
大王啊,他不能忍受般度之子的勇武;随即他以七十七支铁箭射向他。
7.92.39
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च ।
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः ॥ ७.९२.३९ ॥
阿周那愤怒地斩断他的弓,又割断箭袋,随后以七支弯曲箭尾的箭射中他的胸膛。
7.92.40
अथान्यद्धनुरादाय स राजा क्रोधमूर्च्छितः ।
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ७.९२.४० ॥
那国王怒不可遏,又取了另一张弓,以九支箭射向婆薮之子(阿周那)的双臂与胸膛。
7.92.41
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः ।
शरैरनेकसाहस्रैः पीडयामास भारत ॥ ७.९२.४१ ॥
于是降敌者阿周那含笑以数千支箭射得室鲁多衍陀痛苦不堪,婆罗多啊。
7.92.42
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः ।
विव्याध चैनं सप्तत्या नाराचानां महाबलः ॥ ७.९२.४२ ॥
这位大车将迅速杀死了他的马与御者,那位大力者又以七十支铁箭射穿了他。
7.92.43
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः ।
अभ्यद्रुवद्रुणे पार्थं गदामुद्यम्य वीर्यवान् ॥ ७.९२.४३ ॥
马匹被杀后,国王室会众舍弃战车,高举铁棍,在战场上勇猛地冲向阿周那。
7.92.44
वरुणस्यत्मजो वीरः स तु राजा श्रुतायुधः ।
पर्णाशाजननी यस्य शीततोया महानदी ॥ ७.९२.४४ ॥
伐楼那之英勇之子,国王室会众;其母为帕尔纳沙,一条水温寒冷的大河。
7.92.45
तस्य माताऽब्रवीद्राजन्वरुणं पुत्रकारणात् ।
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम ॥ ७.९२.४५ ॥
大王啊,他的母亲为儿子向伐楼那说道:「愿我这个儿子在世间不被敌人所杀。」
7.92.46
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् ।
दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति ॥ ७.९२.४६ ॥
伐楼那欢喜地说:「我赐予他这有益的恩惠:你的这个儿子将得到一件神圣的武器,凭借它他将成为不可被杀的人。」
7.92.47
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन ।
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे ॥ ७.९२.४७ ॥
河流中最优秀者啊,人类绝无任何方式获得不死;凡出生者必然要死。
7.92.48
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा ।
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः ॥ ७.९२.४८ ॥
他在战斗中将始终使敌人无法抵挡;愿凭借此武器之力,让你心中的热恼消散。
7.92.49
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् ।
यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः ॥ ७.९२.४९ ॥
瓦卢那说完此言,便赐给他一柄以咒语加持的铁杵;得到它的室鲁多育陀在一切世界中变得不可战胜。
7.92.50
उवाच चैनं भगवान्पुनरेव जलेश्वरः ।
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति ॥ ७.९२.५० ॥
尊贵的水之主瓦卢那又对他说:“不要向没有武器的人投掷它;它只会落在你自己身上。”
7.92.51
हन्यादेषा प्रतीपं हि प्रयोक्तारमपि प्रभो ।
न चाकरोत्स तद्वाक्यं प्राप्ते काले श्रुतायुधः ॥ ७.९२.५१ ॥
“主啊,它可能反转过来击杀投掷它的人。”然而时机到来时,室鲁多育陀并未听从他的话。
7.92.52
स तया वीरघातिन्या जनार्दनमताडयत् ।
प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान्।
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः ॥ ७.९२.५२ ॥
他以那杀戮英雄的铁杵击打生主。大力的黑天用他粗壮的肩膀承接了它;它没有撼动室瑞,正如风无法撼动温底耶山。
7.92.53
ततोऽर्जुनः क्षुरप्राभ्यां भुजौ परिघसन्निभौ ।
चिच्छेद पाण्डवः शीघ्रं जलेश्वरसुतस्य वै ॥ ७.९२.५३ ॥
于是般度之子阿周那以两支剃刀般的箭迅速斩断了水之主之子那如铁杵般的双臂。
7.92.54
स ज्वलन्ती महोल्केव समासाद्य जनार्दनम् ।
प्रत्यागता महावेगा कृत्येव दुरधिष्ठिता ॥ ७.९२.५४ ॥
它像燃烧的大流星一样抵达生主,随后又以极大的速度返回,宛如被误用的咒术之灵。
7.92.55
जघान चास्थितं वीरं श्रुतायुधममर्षणम् ।
स पपात हतो भूमौ विशिरा विभुजो बली।
सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥ ७.९२.५५ ॥
他击中了站在面前的英雄、愤怒的室鲁多育陀。那臂膀修长的勇士被杀,头颅已断,倒卧于地,如同被风折断的多枝大树。
7.92.56
सा विस्फुरन्ती ज्वलिता वज्रवेगसमा गदा ।
हत्वा श्रुतायुधं वीरं धरणीमन्वपद्यत ॥ ७.९२.५६ ॥
那柄颤动燃烧、速度如同雷霆的铁锤击中英雄室鲁多育陀,随即落于地上。
7.92.57
गदां निवर्तितां दृष्ट्वा निहतं च श्रुतायुधम् ।
हाहाकारो महांस्तत्र सैन्यानां समजायत।
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥ ७.९२.५७ ॥
见铁锤返回、室鲁多育陀被杀,那里军中升起巨大的哀号。看到这位制敌者室鲁多育陀竟被自己的兵器所杀——
7.92.58
अयुध्यमानाय ततः केशवाय नराधिप ।
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा ॥ ७.९२.५८ ॥
人主啊,那时室鲁多育陀向未参战的刻舍婆掷出铁锤,而那铁锤反而杀了他自己。
7.92.59
यथोक्तं वरुणेनाजौ तथा स निधनं गतः ।
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् ॥ ७.९२.५९ ॥
正如伐楼那在战场上所说,他就这样死去了;失去生命的他倒在地上,所有射手都在注视。
7.92.60
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः ।
सम्भग्न इव वातेन बहुशाखो वनस्पतिः ॥ ७.९२.६० ॥
即便倒下,他仍如帕尔纳沙河的心爱之子般闪耀,宛如被风折断的多枝大树。
7.92.61
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः ।
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम् ॥ ७.९२.६१ ॥
此时,见室鲁多延陀被杀,所有军队和将领四散奔逃。
7.92.62
ततः काम्भोजराजस्य पुत्रः शूरः सुदक्षिणः ।
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् ॥ ७.९२.६२ ॥
此时,劫补阇国王的勇猛之子苏达克希那驾驭迅捷的马匹,冲向歼灭敌人的法尔古那。
7.92.63
तस्य पार्थः शरान्सप्त प्रेषयामास भारत ।
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् ॥ ७.९२.६३ ॥
婆罗多啊,阿周那向他射出七支箭。箭穿透了那位勇士,没入大地之中。
7.92.64
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे ।
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः ॥ ७.९२.६४ ॥
他被从甘狄拔弓射出的利箭重重射中,随即在战斗中以十支饰有鹤羽的箭回击阿周那。
7.92.65
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः ।
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष ॥ ७.९२.६५ ॥
他以三箭射中婆苏提婆,又以五箭射中阿周那。随后,法尔古那砍断了他的弓,并斩断了他的旗帜,啊,大人。
7.92.66
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः ।
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् ॥ ७.९२.६६ ॥
般度之子也用两支极利的婆罗箭射中了他。随后,他以三箭射中法尔古那,并发出一声狮吼。
7.92.67
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः ।
सघण्टां प्राहिणोद्धोरां क्रुद्धो गाण्डीवधन्वने ॥ ७.९२.६७ ॥
英雄苏达克希那愤怒地向持甘狄拔弓的阿周那投掷了一支由各种铁制成的长矛,以及一支带铃的可怖长矛。
7.92.68
सा ज्वलन्ती महोल्केव तमासाद्य महारथम् ।
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले ॥ ७.९२.६८ ॥
它如同燃烧的巨大流星,抵达那位大车士,带着火花刺穿了他,落在地上。
7.92.69
शक्या त्वभिहतो गाढं मूर्च्छयाऽभिपरिप्लुतः ।
समाश्वास्य महातेजाः सृक्विणी परिलेलिहन् ॥ ७.९२.६९ ॥
他被长矛深深击中,陷入昏迷,之后苏醒过来,这位大光辉者舔着自己嘴角。
7.92.70
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः ।
साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः ॥ ७.९२.७० ॥
具有不可思议威力的阿周那,用十四支以鹤羽为翎的铁箭,连同他的马匹、旗帜、弓和御者一起射穿了他。
7.92.71
रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः ।
सुदक्षिणं तं काम्भोजं मोघसङ्कल्पविक्रमम्।
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः ॥ ७.९२.७१ ॥
般度之子用许多其他箭将他的战车击碎,并以一支宽刃箭射穿了那位决心与勇力都落空的甘波阇人苏达克希那的胸膛。
7.92.72
स भिन्नवर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः ।
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः ॥ ७.९२.७२ ॥
他的铠甲破碎,肢体松弛,王冠和臂环脱落,这位英雄面朝前倒下,好像从机关上松脱的旗帜。
7.92.73
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः ।
निर्भग्न इव वातेन कर्णिकारो हिमात्यये।
विशीर्णः पतितो राजा प्रसार्य विपुलौ भुजौ ॥ ७.९२.७३ ॥
如同生长在山峰之上的迦尼迦罗树,华美,枝叶优美,根基牢固,在寒冬将尽时被风折断,那位国王也支离破碎,伸展双臂倒下了。
7.92.74
शेते स्म निहतो भूमौ काम्भोजास्तरणोचितः ।
महार्हाभरणोपेतः सानुमानिव पर्वतः ॥ ७.९२.७४ ॥
他被杀倒在地上,配得上迦mb1 坎博阇人的床榻,身饰珍贵的饰物,如同有山坡的山岳。
7.92.75
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः ।
पुत्रः काम्भोजराजस्य पार्थेन विनिपातितः ॥ ७.९२.७५ ॥
苏达克希那,俊美而红眼,是阇人王之子,被俱楼之子(阿周那)所击倒。
7.92.76
धारयन्नग्निसङ्काशां शिरसा काञ्चनीं स्रजम् ।
अशोभत महाबाहुर्व्यसुर्भूमौ निपातितः ॥ ७.९२.७६ ॥
头上戴着如火般的金花环,这位大臂者倒在地上,已无生命,却依然光彩照人。
7.92.77
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते ।
हतं श्रुतायुधं दृष्ट्वा काम्भोजं च सुदक्षिणम् ॥ ७.९२.७७ ॥
于是,你儿子的所有军队溃散而逃,看见室卢多耶陀和阇人苏达克希那都被杀了。