Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.95

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.95.1

प्रविष्टयोर्महाराज पार्थवार्ष्णेययो रणे ।
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥ ७.९५.१ ॥

大王啊,当贡坦之子(Pārtha)与闍尼之裔(Vārṣṇeya)入阵之时,杜尔约达那从后方离去,人中之牛啊。

7.95.2

जवेनाभ्यद्रवन्द्रोणं महता निःस्वनेन च ।
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥ ७.९५.२ ॥

般度之子与索摩迦人以大吼之声疾速冲向德罗纳,于是战斗开始了。

7.95.3

तद्युद्धमभवत्तीव्रं तुमुलं रोमहर्षणम् ।
कुरूणां पाण्डवानां च व्यूहस्य पुरतोऽद्भुतम् ॥ ७.९५.३ ॥

那场战斗变得激烈、喧嚣而令人毛骨悚然;在俱卢与般度两军阵前,它令人惊叹。

7.95.4

राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्क च श्रुतम् ।
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशाम्पते ॥ ७.९५.४ ॥

大王啊,我们从未见过也从未听闻,太阳正值中天之时发生的那样的战斗,民之主啊。

7.95.5

धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः ।
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥ ७.९५.५ ॥

以猛光为首的贡坦之子们,阵列既成,奋勇进攻,尽以箭雨覆盖了德罗纳的军队。

7.95.6

वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् ।
पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ॥ ७.९५.६ ॥

我们以诸持兵者中最优秀的德罗纳为先锋,以箭矢倾注于以普利沙塔之子为首的贡坦之子们。

7.95.7

महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये ।
सेनाग्रे प्रचकाशेते रुचिरे रथभूषिते ॥ ७.९५.७ ॥

如同寒冬尽头升起的两朵大云,风势交杂,在军队前列,装饰着战车,光彩耀目。

7.95.8

समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् ।
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥ ७.९५.८ ॥

两大军队相遇,激起了极大的冲势,如同雨季中恒河与亚穆纳河涨满狂暴的洪水奔流。

7.95.9

नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः ।
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् ॥ ७.९५.९ ॥

众多兵器之风在前吹拂,被象、马与战车所环绕,以铁锤为闪电,极为可怖,乃一大战云。

7.95.10

भारद्वाजानिलोद्भूतः शरधारासहस्रवान् ।
अभ्यवर्षन्महारौद्रं पाण्डुसेनाग्निमुद्धतम् ॥ ७.९५.१० ॥

由婆罗堕阇之风激起,携带千道箭流,他向般度军那极其可怖、熊熊燃烧的火焰倾泻箭雨。

7.95.11

समुद्रमिव घर्मान्ते विशन्घोरो महानिलः ।
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥ ७.९५.११ ॥

犹如夏末吹入大海的可怖大风,婆罗门中最优者啊,他彻底搅乱了般度诸军。

7.95.12

तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् ।
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥ ७.९५.१२ ॥

他们也竭尽全力直扑德罗纳,想要冲破他,如同强劲的水流想要冲垮一座大堤。

7.95.13

वारयामास तान्द्रोणो जलौघमचलो यथा ।
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ॥ ७.९५.१३ ॥

如同不动的山岳阻挡洪水,德罗纳在战场上阻挡了愤怒的般度之子和与喀喀耶人同行的般遮罗人。

7.95.14

अथापरे च राजानः परिवृत्य समन्ततः ।
महाबला रणे शूराः पाञ्चालानन्ववारयन् ॥ ७.९५.१४ ॥

此时,其他强大勇猛的国王从四面包围,在战场上阻挡了般遮罗人。

7.95.15

ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह ।
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥ ७.९५.१५ ॥

于是在战场上,人中之虎般的德里什塔迪优摩与般度之子们一道,想要冲破敌军,一次又一次地攻击德罗纳。

7.95.16

यथैव शरवर्षाणि द्रोणो वर्षति पार्षते ।
तथैव शरवर्षाणि धृष्टद्युम्नोऽप्यवर्षत ॥ ७.९५.१६ ॥

德罗纳如何向般遮罗之子降下箭雨,德里什塔迪优摩也同样降下箭雨。

7.95.17

सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः ।
ज्याविद्युच्चापसंहादो धृष्टद्युम्नबलाहकः ॥ ७.९५.१७ ॥

他前方卷起刀剑的疾风,周身环绕矛、枪与投枪,弓弦如闪电,弓声如雷鸣,德里什塔迪优摩化作了雨云。

7.95.18

शरधाराश्मवर्षाणि व्यसृजत्सर्वतो दिशम् ।
निघ्नन्रथवराश्वौघान्प्लावयामास वाहिनीम् ॥ ७.९५.१८ ॥

他向四面八方倾泻箭流与石雨,击倒成群的良车与战马,把大军冲进了洪流之中。

7.95.19

यंयमार्च्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् ।
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥ ७.९५.१९ ॥

德罗纳用箭攻击般度族战车阵中的任何人,普利沙塔之子便以箭将其从德罗纳身边拉开。

7.95.20

तथा तु यतमानस्य द्रोणस्य युधि भारत ।
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥ ७.९५.२० ॥

婆罗多啊,德罗纳在战斗中奋力作战时,遇见了德里沙德牙牟那,军队便分裂为三部分。

7.95.21

भोजमेकेऽभ्यवर्तन्त जलसन्धं तथाऽपरे ।
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरे ययुः ॥ ७.९५.२१ ॥

有人转向博嘉,有人转向阇罗僧陀,而被般度族打击的其他人则直奔德罗纳而去。

7.95.22

सङ्घट्टयति सैन्यानि द्रोणस्तु रथिनां वरः ।
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥ ७.९५.२२ ॥

战车勇士中的翘楚德罗纳使军队相互冲撞,大战车勇士德里沙德牙牟那则将其冲散。

7.95.23

धार्तराष्ट्रास्तथा भूता वध्यन्ते पाण्डुसृञ्जयैः ।
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥ ७.९५.२३ ॥

持国之子们同样被般度族与娑尼遮耶人所杀,正如森林中无牧人的牲畜被众多猛兽所杀。

7.95.24

कालः स्म ग्रसते योधान्धृष्टद्युम्नेन मोहितान् ।
सङ्ग्रामे तुमुले तस्मिन्निति सम्मेनिरे जनाः ॥ ७.९५.२४ ॥

在那场喧嚣的战斗中,人们认为是时间本身在吞噬被德里沙德牙牟那迷惑的战士。

7.95.25

कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः ।
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥ ७.९५.२५ ॥

如同恶王之国被饥荒、疫病与盗贼所毁,你的军队陷入困境,正被般度之子们驱散。

7.95.26

अर्करश्मिविमिश्रेषु शस्त्रेषु कवचेषु च ।
चक्षूंषि प्रत्यहन्यन्त सैन्येन रजसा तथा ॥ ७.९५.२६ ॥

在与日光交织的兵器与铠甲上,以及被军队扬起的尘土中,眼睛受到了刺痛。

7.95.27

त्रिधा भूतेषु सैन्येषु वध्यमानेषु पाण्डवैः ।
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ॥ ७.९५.२७ ॥

当军队分作三部分被般度之子们杀戮时,愤怒的德罗纳以箭射倒了般遮罗人。

7.95.28

मृद्गतस्तान्यनीकानि निघ्नतश्चापि सायकैः ।
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥ ७.९५.२८ ॥

德罗纳践踏那些军队并以箭射之,其身形如末日之火般熊熊燃烧。

7.95.29

रथं नागं हयं चापि पत्तिनश्च विशाम्पते ।
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः ॥ ७.९५.२९ ॥

人主啊!那位大车将在战斗中以一支支箭逐一射穿战车、象、马和步兵。

7.95.30

पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत ।
दधार यो रणे बाणान्द्रोणचापच्युतान्प्रभो ॥ ७.९५.३० ॥

婆罗多之子啊,君主啊!般度之子的军中,无人能在战斗中承受德罗纳弓上射出的箭。

7.95.31

तत्पच्यमानमर्केण द्रोणसायकतापितम् ।
बभ्राम पार्षतं सैन्यं तत्रतत्रैव भारत ॥ ७.९५.३१ ॥

被德罗纳的箭矢灼烧、被太阳炙烤的般遮罗军队四处奔逃,婆罗多啊。

7.95.32

हन्यमानं तु तत्सैन्यं भारद्वाजेन सर्वतः ।
शरैरग्निशिखाकारैर्दह्यते भरतर्षभ ॥ ७.९५.३२ ॥

那支军队被婆罗堕阁之子从四面八方杀戮,又被如火焰般的箭矢焚烧,婆罗多族之雄牛啊。

7.95.33

तथैव पार्षतेनापि काल्यमानं बलं तव ।
अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥ ७.९५.३३ ॥

同样,你的军队也被般遮罗之子焚烧,四面八方燃烧起来,如同干燥的森林被火焚烧。

7.95.34

बाध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः ।
त्यक्त्वा प्राणान्परं शक्त्या युध्यन्ते स्वर्गलिप्सवः ॥ ७.९५.३४ ॥

当军队被德罗纳与般遮罗之子的箭矢压迫时,渴望天界的人舍弃生命,竭尽全力作战。

7.95.35

तावकानां परेषां च युध्यतां भरतर्षभ ।
नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ॥ ७.९५.३५ ॥

婆罗多族之雄牛啊,大王!在你的和敌方的交战者中,没有一人因恐惧而退出战斗。

7.95.36

भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् ।
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥ ७.९५.३६ ॥

然而,贡提之子婆罗多族的毗摩森那被他的同母兄弟包围了:毗毗因沙提、质多罗森那,以及大车将维卡尔纳。

7.95.37

विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् ।
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥ ७.९५.३७ ॥

阿万提的两位王子毗湯陀与阿奴毗湯陀,以及勇猛的刹摩达尔提——你的三个儿子;这三人正是他们的追随者。

7.95.38

बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः ।
सहसेनः सहामात्यो द्रौपदेयानवारयत् ॥ ७.९५.३८ ॥

巴赫利迦国的光辉之王、出身高贵的大车战士萨哈塞纳,与他的大臣们一起阻挡了德劳帕蒂的诸子。

7.95.39

शैब्यो गोवासनो राजा योधैर्दशशतावरैः ।
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥ ७.९५.३९ ॥

Śaibya 王 Govāsana 率不足千名战士,阻挡了强大的迦尸王的勇猛之子。

7.95.40

अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् ।
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत्। ॥ ७.९५.४० ॥

摩德罗之主沙利耶王包围了贡蒂之子阿阇多设睨王,他如燃烧的火焰一般。

7.95.41

दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः ।
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥ ७.९५.४१ ॥

然而难以容忍的难降率领自己的军队挺进,怒气冲冲、英勇无畏地冲向战场上最优秀的战车武士萨提亚基。

7.95.42

स्वकेनाहमनीकेन सन्नद्धः कवचावृतः ।
चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥ ७.९५.४२ ॥

我身披铠甲、整装待发,率领自己的军队与四百名大弓箭手,阻挡了车基塔纳。

7.95.43

शकुनिस्तु सहानीको माद्रीपुत्राववारयत् ।
गान्धारकैः सप्तशतैश्चापशक्त्यसिपाणिभिः ॥ ७.९५.४३ ॥

沙恭尼率军阻挡摩德利的两个儿子,与手持弓、矛和剑的七百名乾陀罗人同行。

7.95.44

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् ।
प्राणांस्तक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतायुधौ ॥ ७.९५.४४ ॥

阿槃提的两位王子、大弓手平陀与阿努平陀为朋友舍弃性命,举起兵器冲向鱼王毗罗吒。

7.95.45

शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् ।
बाह्लीकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥ ७.९५.४५ ॥

巴赫利迦准备抵抗,阻挡了夜祭王之子、不可战胜的湿铠狄,后者正向前推进并阻碍战斗。

7.95.46

धृष्टद्युम्नं तु पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः ।
आवन्त्यः सहसौवीरैः क्रुद्धरूपमवारयत् ॥ ७.९५.४६ ॥

阿槃提王子阻挡了般遮罗的猛光,与残暴的普罗跋陀迦和娑维罗人同行;他怒火中烧。

7.95.47

घटोत्कचं तथा शूरं राक्षसं क्रूरकर्मिणम् ।
अलामुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥ ७.९५.४७ ॥

阿拉穆达迅速冲向勇猛而行事残酷的罗刹迦托特迦,后者在战场上怒气冲冲地逼近。

7.95.48

अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः ।
सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥ ७.९५.४८ ॥

大车战士贡蒂博阳率大军阻挡了形貌愤怒的罗刹王阿兰布沙。

7.95.49

सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत ।
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥ ७.९५.४९ ॥

婆罗多啊,信度王位于全军之后,由克利帕等大弓箭手与战车武士护卫。

7.95.50

तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ ।
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ॥ ७.९५.५० ॥

国王啊,他有两位极为强大的车轮护卫:右侧是德罗纳之子,左侧是御者之子。

7.95.51

पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः ।
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥ ७.९५.५१ ॥

他的后卫由索摩达多之子领头:克利帕、毗梨沙犀那、沙罗、沙利耶,以及不可战胜的杜尔迦耶。

7.95.52

नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।
सैन्धवस्य विधायैवं रक्षां युयुधिरे ततः ॥ ७.९५.५२ ॥

他们都精通政略、是大弓箭手、善于战阵;如此为信度王安排好护卫之后,便投入了战斗。