Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.98

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.98.1

बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते ।
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ॥ ७.९८.१ ॥

桑贾耶,当那支箭被折断、德里斯塔迅那获救时,那位为韦里施尼族英雄的尤尤陀那……

7.98.2

अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः ।
नरव्याघ्रं शिनेः पौत्रं द्रोणः किमकरोद्युधि ॥ ७.९८.२ ॥

愤怒的大弓箭手、一切持械者中最优秀的德罗纳,在战斗中对希尼之孙、人中猛虎做了什么?

7.98.3

सम्प्रस्रुतक्रोधविषो व्यादितास्यशरासनः ।
तीक्ष्णधारेषुदशनः सितनाराचदंष्ट्रवान् ॥ ७.९८.३ ॥

喷吐愤怒的毒液,他的弓如张开的大口,锐利的箭如牙齿,白色的那罗遮箭如獠牙……

7.98.4

संरम्भामर्षताम्राक्षो महोरग इव श्वसन् ।
नरवीरः प्रमुदितः शोणैरश्वैर्महाजवैः ॥ ७.९८.४ ॥

双眼因愤怒与不耐而泛红,如大蛇般嘶嘶作响,人中英雄欢欣鼓舞,驾着迅捷的红色骏马……

7.98.5

उत्पतद्भिरिवाकाशे क्रामद्भिरिव पर्वतम् ।
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ॥ ७.९८.५ ॥

仿佛飞向天空,仿佛跨越山岳,射出金羽之箭,他向尤尤陀那猛扑而去。

7.98.6

शरपातमहावर्षं रथघोषबलाहकम् ।
कार्मुकैरावृतं राजन्नाराचबहुविद्युतम् ॥ ७.९८.६ ॥

大王啊,那是一场箭雨的大暴雨,战车的轰鸣如同乌云,弓弦环绕,那罗遮箭的闪电不计其数。

7.98.7

शक्तिखङ्गाशनिधरं क्रोधवेगसमुत्थितम् ।
द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥ ७.९८.७ ॥

手持长枪、利剑与雷电,以愤怒之势升起,德罗纳如不可抵挡的云,被马之风驱动。

7.98.8

दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः ।
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥ ७.९८.८ ॥

见他冲来,征服敌城的英雄沙伊尼耶在战斗的豪情中大笑,对御者说道。

7.98.9

एनं वै ब्राह्मणं शूरं स्वकर्मण्यनवस्थितम् ।
आश्रयं धार्तराष्ट्रस्य धर्मराजभयावहम् ॥ ७.९८.९ ॥

这位婆罗门英雄坚守自己的职责,是持国之子的庇护,也令正法之王生畏。

7.98.10

शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् ।
आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥ ७.९८.१० ॥

用疾驰的马匹,欢欣地迎向诸王子的老师,他总以为自己是英雄。

7.98.11

एवमुक्तस्ततः सूतः सात्यकस्यावहद्रथम् ।
ततो रजतसङ्काशा माधवस्य हयोत्तमाः।
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ॥ ७.९८.११ ॥

御者听了这话,便驾起萨提亚奇的战车。于是摩陀婆那雪白如银的良马,疾如风,径直奔向德罗纳。

7.98.12

ततस्तौ द्रोणशैनेयौ युयुधाते परन्तपौ ।
शरैरनेकसाहस्रैस्ताडयन्तौ परस्परम् ॥ ७.९८.१२ ॥

于是那两位灭敌者,德罗纳与沙伊尼耶,以千万支箭互相射击,展开激战。

7.98.13

इषुजालावृतं व्योम चक्रतुः पुरुषर्षभौ ।
पूरयामासतुर्वीरावुभौ दश दिशः शरैः।
मेघाविवातपापाये धाराभिरितरेतरम् ॥ ७.९८.१३ ॥

他们以箭网遮蔽天空;这两位人中雄牛的英雄以箭充满十方,犹如酷暑过后两朵云彼此倾泻雨水。

7.98.14

न स्म सूर्यस्तदा भाति न ववौ च समीरणः ।
हषुजालावृतं घोरमन्धकारं समन्ततः ॥ ७.९८.१४ ॥

那时太阳不再照耀,风也不吹;被箭网覆盖的可怕黑暗四面弥漫。

7.98.15

अनाधृष्यमिवान्येषां शूराणामभवत्तदा ।
अन्धकारीकृते लोके द्रोणशैनेययोः शरैः ॥ ७.९८.१५ ॥

那时,世界被箭矢弄得黑暗,德罗纳与希尼之子对其他英雄而言仿佛变得不可战胜。

7.98.16

तयोः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा ।
नान्तरं शरवृष्टीनां ददृशे नरसिंहयोः ॥ ७.९८.१६ ॥

那两位精通快速兵器的人中雄狮,德罗纳与萨特瓦塔,在箭雨之中当时看不出任何空隙。

7.98.17

इषूणां सन्निपातेन शब्दो धाराभिघातजः ।
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ॥ ७.९८.१७ ॥

箭矢相撞、箭流击打所发出的声音,听起来如同因陀罗投掷的雷电的轰鸣。

7.98.18

नाराचैर्व्यतिविद्धानां शराणां रूपमाबभौ ।
आशीविषविदष्टानां सर्पाणामिव भारत ॥ ७.९८.१८ ॥

被铁箭穿透的箭矢之形貌闪耀,婆罗多啊,宛如被毒蛇咬伤的蛇。

7.98.19

तयोर्ज्यातलनिर्घोषः शुश्रुवे युद्धशौण्डयोः ।
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ॥ ७.९८.१९ ॥

那两位精于战斗者的弓弦鸣响不绝于耳,犹如被金刚杵击中的山峰发出的轰鸣。

7.98.20

उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी ।
रुक्मपुङ्खैः शरैछन्नाश्चित्ररूपा बभुस्तदा ॥ ७.९८.२० ॥

大王啊,二人的战车、马匹和御者,被金羽箭覆盖,此时显出奇异的光彩。

7.98.21

निर्मलानामजिह्मानां नाराचानां विशाम्पते ।
निर्मुक्ताशीविपाभानां सम्पातोऽभूत्सुदारुणः ॥ ७.९८.२१ ॥

人民之主啊,那些洁净笔直的铁箭落下,如同放出的毒蛇,极其可怖。

7.98.22

उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ ।
निकृन्ततोः शरैस्तीक्ष्णैर्द्रोणसात्यकयो रणे ॥ ७.९८.२२ ॥

战中,德罗纳与萨提亚基被利箭斩断,二人的华盖都倒下了,他们的旗帜也同样倒下。

7.98.23

उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ।
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ।
अन्योन्यमभ्यविध्येतां जीवितान्तकरैः शरैः ॥ ७.९८.२३ ॥

二人身上都沾满鲜血,都渴望胜利,以夺命之箭彼此射穿,如同两头从肢体流血的象。

7.98.24

गर्जितोत्कृष्टसन्नादाः शङ्खदुन्दुभिनिःस्वनाः ।
उपारमन्महाराज व्याजहार न कश्चन ॥ ७.९८.२४ ॥

大王啊,当吼声、高呼以及海螺与战鼓的声音停息后,无人再说一句话。

7.98.25

तुष्णींभूतान्यनौकानि योधा युद्धादुपारमन् ।
ददर्श द्वैरथं ताभ्यां जातकौतूहलो जनः ॥ ७.९८.२५ ॥

停止战斗、默然而立的战士们,以及充满好奇的人群,都看到了两人之间的单独决斗。

7.98.26

रथिनो हस्तियन्तारो हयारोहाः पदातयः ।
अवैक्षन्ताचलैर्नेत्रैः परिवार्य नरर्षभौ ॥ ७.९८.२६ ॥

车兵、象师、骑兵和步兵环绕着两位人中之牛,以凝定的目光注视着他们。

7.98.27

हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् ।
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ॥ ७.९८.२७ ॥

象军列阵而立;马军同样,车军也同样,都列成阵势,各自驻守。

7.98.28

मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः ।
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ॥ ७.९८.२८ ॥

以珍珠和珊瑚装饰得色彩斑斓,以宝石和黄金点缀,旗帜、华美饰物与金甲交相辉映。

7.98.29

वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः ।
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ॥ ७.९८.२९ ॥

有胜幢旗,有覆身的毡毯,有明亮锋利的兵器,还有马匹散落的饰物,光彩耀目。

7.98.30

जातरूपमयीभिश्च राजतीभिश्च मूर्धसु ।
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ॥ ७.९८.३० ॥

婆罗多之子啊,象头上饰有金银制成的象额花环,象牙上also包着护套,光彩耀目。

7.98.31

सबलाकाः सखद्योताः सैरावतशतहदाः ।
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ॥ ७.९८.३१ ॥

与鹤和萤火虫一起,如同爱罗婆多的百湖,在炎热季节中看起来像云的罗网。

7.98.32

अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः ।
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ॥ ७.९८.३२ ॥

我方之人与坚战一方站立者,都未能看见尤尤陀那与大德德罗那的那场战斗。

7.98.33

विमानाग्रगता देवा ब्रह्मसोमपुरोगमाः ।
सिद्धचारणसङ्खाश्च विद्याधरमहोरगाः ॥ ७.९८.३३ ॥

登上天车之巅的诸神,以梵天与月神为首,悉陀与遮罗的群众,持明者与大蛇。

7.98.34

गन्धर्वा दानवा यक्षा राक्षसाप्सरसः खगाः ।
गतप्रत्यागताक्षेपैश्चितैरस्त्रविघातिभिः।
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ॥ ७.९८.३४ ॥

乾闼婆、檀那婆、夜叉、罗刹、阿普萨拉斯与飞禽,见那二位人中狮子以进退的攻击、破除兵器的种种奇妙招式,都感到惊异。

7.98.35

हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ ।
अन्योन्यमभिविध्येतां शरैस्तौ द्रोणसात्यकी ॥ ७.९८.३५ ॥

在兵器上显示手法的娴熟,那二位大力者德罗那与萨提亚基以箭互相射中。

7.98.36

ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे ।
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युतेः ॥ ७.९८.३६ ॥

于是达舍尔诃(萨提亚基)在战斗中斩断了德罗那的箭,并迅速以极坚固的箭折断了那位大光辉者的弓。

7.98.37

निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः ।
सज्यं चकार तदपि चिच्छेदास्य स सात्यकिः ॥ ७.९८.३७ ॥

在眨眼之间,婆罗堕遮之子又拉满了另一张弓,萨提奇也将它斩断。

7.98.38

ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत ।
सज्यं सज्यं धनुश्चास्य चिच्छेद निशिथैः शरैः ॥ ७.९८.३८ ॥

于是德罗纳急忙手持弓挺立;他每拉满一张弓,萨提奇便以利箭将其斩断。

7.98.39

एवमेकशतं छिन्नं धनुषां दृढधन्विना ।
न चान्तरं तयोर्दृष्टं सन्धाने च्छेदनेऽपि च ॥ ७.९८.३९ ॥

如此,坚定的射手斩断了一百张弓;二人之间无论是拉弦还是斩断,都看不出任何间隙。

7.98.40

ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् ।
युयुधानस्य राजेन्द्र मनसैतदचिन्तयत् ॥ ७.९८.४० ॥

于是,王中之王啊,德罗纳见到战场上优由陀那这超凡的壮举,心中如此思忖。

7.98.41

एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये ।
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ॥ ७.९८.४१ ॥

此等兵器之力在罗摩、迦尔塔毗耶、达难耶、人中猛虎毗湿摩身上都有,也在这位萨德瓦塔中的最优者身上。

7.98.42

तं चास्य मनसा द्रोणः पूजयामास विक्रमम् ।
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ॥ ७.९८.४२ ॥

婆罗门中的最优者德罗纳,见其身手敏捷如因陀罗,便在心中赞叹他的勇力。

7.98.43

तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः ।
न तामालक्षयामासुर्लघुतां शीघ्रचारिणः ॥ ७.९८.४३ ॥

精通兵器者中的最佳者感到欣悦,因陀罗(Vāsava)率领的诸神也一样欣悦。疾行的神众也未能察觉他那份敏捷。

7.98.44

देवाश्च युयुधानस्य गन्धर्वाश्च विशाम्पते ।
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ॥ ७.९८.४४ ॥

诸神、护持优yudhāna一方的乾闼婆,以及悉陀与遮罗众,啊,人民之主,都知晓了德罗纳的那一壮举。

7.98.45

ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः ।
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ॥ ७.९८.४५ ॥

此后,德罗纳执起另一张弓,作为摧伏刹帝利者、精通兵器者中的最佳者,以兵器作战,啊,婆罗多之裔!

7.98.46

तस्यास्त्राण्यस्त्रमायाभिः प्रतिहत्य स सात्यकिः ।
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ॥ ७.९८.४६ ॥

萨提亚基以兵器幻术化解了他的兵器,并以锋利的箭矢将他击倒,那情景仿佛奇妙无比。

7.98.47

तस्यातिमानुषं कर्म दृष्ट्वाऽन्यैरसमं रणे ।
युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ॥ ७.९८.४७ ॥

你的战士们是精通技艺之人,他们见到他在战场上那超凡的、无人能及、又充满技艺的壮举,便对他充分表示敬重。

7.98.48

यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः ।
तमाचार्योऽथ सम्भ्रान्तोऽयोधयच्छत्रुतापनः ॥ ७.९८.४८ ॥

德罗纳发出什么兵器,萨提亚基便发出同样的兵器。于是这位灼烧敌人的导师心神不定,便与他交战。

7.98.49

ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः ।
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ॥ ७.९८.४९ ॥

大王啊,精通射箭之学的他愤怒了,为了杀死尤尤陀那(萨提亚基),发出了一件神圣的武器。

7.98.50

तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः ।
दिव्यमस्त्रं महेष्वासो वारुणं समुदैरयत् ॥ ७.९८.५० ॥

这位大弓箭手看见那极为可怖、杀敌的火焰神兵,便发出了伐楼那的神圣水神武器。

7.98.51

हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ ।
न विचेरुस्तदाऽऽकाशे भूतान्याकाशगान्यपि ॥ ७.९८.५१ ॥

看到这两位持有神兵的人,一片巨大的惊呼声响起;那时,连在空中飞行的生灵也无法飞翔了。

7.98.52

अस्त्रे ते वारुणाग्नेये यदा बाणैः समाहिते ।
न यावदभ्यपद्येतां व्यावर्तदथ भास्करः ॥ ७.९८.५२ ॥

当水神与火神二武器被箭矢引至一处时,尚未相互接触,太阳便折返了。

7.98.53

ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ॥ ७.९८.५३ ॥

于是,国王坚战、般度之子怖军、无种与偕天也从四面护卫萨提亚基。

7.98.54

धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः ।
मत्स्याः साल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ॥ ७.९८.५४ ॥

在持国之子的王子。。(注:此句为德罗纳之方向)在德里斯塔德尤姆那的率领下,与毗罗吒及迦伽耶人一同,鱼族与沙尔瓦之军迅速奔向德罗纳。

7.98.55

दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः ।
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ॥ ७.९८.५५ ॥

杜沙那在前引导,成千上万的王子走向被敌人包围的德罗纳。

7.98.56

रजसा संवृते लोके शरजालसमावृते ।
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन। ॥ ७.९८.५६ ॥

世界被尘土遮蔽,被箭网笼罩,一切都陷入骚乱,什么也分辨不清。

7.98.57

सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ।
तेनान्तरेण पार्थस्तु रणे जित्वा महारिपून्। ॥ ७.९८.५७ ॥

因军队的尘土,一切被摧毁,失去了分寸;在此间隙,般度之子在战斗中击败了强大的敌人,

7.98.58

अतिक्रान्तस्तदा युद्धं कृत्वा पर्यवतस्थिवान् ॥ ७.९८.५८ ॥

于是他越过战斗,在那里站定。