摩诃婆罗多 · 章 8.100
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.100.1
शरसङ्कृत्तवर्माणं रुधिरोक्षितवक्षसम् ।
गतासुमपि राधेयं नैव लक्ष्मीर्विमुञ्चति ॥ ८.१००.१ ॥
尽管他已无生命,铠甲被箭矢割裂,胸膛沾满鲜血,吉祥天女仍未离弃罗陀之子。
8.100.2
तप्तजाम्बूनदनिभं बालार्कसदृशद्युतिम् ।
जीवन्तमिव तं शूरं सर्वभूतानि मेनिरे ॥ ८.१००.२ ॥
那位英雄如熔化的金子,光芒如初升的太阳,万物都以为他仍然活着。
8.100.3
हतस्यापि महाराज सूतपुत्रस्य संयुगे ।
वित्रेसुः सर्वतो योधाः सिंहस्येवेतरे मृगाः ॥ ८.१००.३ ॥
大王啊,即便御者之子已在战中被杀,四方的战士仍因他而战栗,如同其他鹿遇见狮子一般。
8.100.4
हतोऽपि पुरुषव्याघ्रो व्याहरन्निव लक्ष्यते ।
नाभवद्विकृतिः काचिन्मृतस्यापि महात्मनः ॥ ८.१००.४ ॥
虽已被杀,那人中猛虎仿佛仍在说话;这位大德者即便死去,也毫无变化。
8.100.5
चारुवेषधरं राजंश्चारुमौलिशिरोधरम् ।
तन्मुखं सूतपुत्रस्य पूर्णचन्द्रसमद्युति ॥ ८.१००.५ ॥
大王啊,御者之子身着华服,头戴精美的冠冕,他的面容如满月般光辉。
8.100.6
कनकोत्तमसह्काशो ज्वलन्निव विभावसुः ।
स शान्तः पुरुषव्याघ्रः पार्थसायकवारिणा ॥ ८.१००.६ ॥
那人中猛虎如上等黄金,又如燃烧的烈火,却被阿周那的箭雨之水浇灭而归于寂静。
8.100.7
यथाऽग्निर्ज्वलनो दीप्तो जलमासाद्य शाम्यति ।
कर्णाग्निः समरे तद्वत्पार्थमेघेन शामितः ॥ ८.१००.७ ॥
如同熊熊燃烧的火遇水即熄,战场上迦尔纳之火被般度之子的云雨所熄灭。
8.100.8
आहृत्य स यशो दीप्तं सुयुद्धेनात्मनो भुवि ।
सपुत्रः समरे कर्णः प्रशान्तः पार्थतेजसा ॥ ८.१००.८ ॥
迦尔纳凭借自己的善战在大地上赢得了光耀的名声,却与众子一同在战场上被般度之子的威光所平息。
8.100.9
प्रताप्य पाण्डवान्सर्वान्पाञ्चालानस्त्रतेजसा ।
नानाभरणवान्रजंस्तप्तजाम्बूनदप्रभः ॥ ८.१००.९ ॥
以武器的威力灼烧了所有般度族与般遮罗人,身饰种种璎珞,大王啊,光辉如熔化的赡部金。
8.100.10
वर्षित्वा शरवर्षाणि प्रताप्य रिपुवाहिनीम् ।
श्रीमानिव सहस्रांशुर्ज्वलन्सर्वान्प्रताप्य च।
हतो वैकर्तनः कर्णः पादपोऽङ्कुरवानिव ॥ ८.१००.१० ॥
降下箭雨,灼烧敌军,如辉煌的千光太阳般燃烧并炙烤众人,毗迦尔坦之子迦尔纳被杀,犹如抽出新芽的树木被砍倒。
8.100.11
ददानीत्येव यः प्रादान्न नास्तीत्यर्थितोऽवदत् ।
सद्ध्यः सदा सत्पुरुषः स हतो द्वैरथे वृषा ॥ ८.१००.११ ॥
凡有所求,他只说「我会给」,从不说「没有」;这位常备布施的善人,那位公牛般的英雄,在一对一的决斗中被杀。
8.100.12
यस्य ब्राह्मणसात्सर्वं वित्तमासीन्महात्मनः ।
नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ॥ ८.१००.१२ ॥
这位大德的全部财富都属于婆罗门,从婆罗门处不应取得任何东西,连他自己的生命也(可以奉献)。
8.100.13
स दातॄणां प्रियो राजन्दाता चैव मनोरथान् ।
स पार्थास्त्रविनिर्दग्धो गतः परमिकां गतिम् ॥ ८.१००.१३ ॥
大王啊,他是施主们所爱戴的人,自己也是布施者,满足他人的愿望。被般度之子(Pārtha)的武器焚毁后,他已到达至高之境。
8.100.14
यमाश्रित्याकरोद्वैरं सुतस्ते स गतो दिवम् ।
आदाय तव पुत्राणां जयाशां सर्म वर्म च ॥ ८.१००.१४ ॥
你的儿子依赖他而挑起了仇恨,那人已升天而去,带走了你儿子们的胜利希望、庇护与铠甲。
8.100.15
हते च कर्णे सरितो न सस्रु… ।
र्जगाम चास्तं कलुषो दिवाकरः।
श्वेतो ग्रहश्च ज्वलितार्कवर्णो ।
यमस्य पुत्रोऽभ्युदितः स तिर्यक् ॥ ८.१००.१५ ॥
迦尔纳被杀时,河流不再流淌……太阳黯淡地落下。白色的星辰与如燃烧太阳般色泽的阎摩之子(火星)斜斜升起。
8.100.16
नभश्चचालाथ ननाद चोर्वी ।
ववुश्च वाताः परुषाश्च घोराः।
दिशो बभूवुर्ज्वलिताः सधूमा ।
महार्णवाः सस्वनुश्चुक्षुभुश्च ॥ ८.१००.१६ ॥
于是天空颤动,大地轰鸣。猛烈可怕的狂风吹起。四方燃烧着烟雾;大海轰鸣,翻腾不息。
8.100.17
सकाननाश्चाद्रिवराश्चकम्पिरे ।
प्रविव्यथुर्भूतगणाश्च मारिष।
बृहस्पतिः सम्परिवार्य रोहिणीं ।
बभूव चन्द्रार्कसमो विशाम्पते ॥ ८.१००.१७ ॥
连同森林,最好的山岳都颤抖了,众生也都痛苦不堪,哦尊贵者。木星(Bṛhaspati)环绕罗睺尼,变得与月亮和太阳相齐,哦人主。
8.100.18
हते कर्णे न दिशो विप्रचाराः ।
सचन्द्रार्का द्यौर्विचचाल भूमिः।
पपात चोल्का ज्वलनप्रभा च ।
निशाचरा हृष्टतरा बभूवुः ॥ ८.१००.१८ ॥
迦尔纳被杀之后,方位混乱,日月所在的天空震动,大地摇晃,如火般燃烧的流星坠落,夜行者们更加欢喜。
8.100.19
शशिप्रकाशाननमर्जुनो यदा ।
जहार कर्णस्य शिरः शरेण।
ततोऽन्तरिक्षे सहसैव शब्दो ।
बभूव हाहेति सुरैर्विमुक्तः ॥ ८.१००.१९ ॥
当阿周那以箭斩下面如明月的迦尔纳之首时,天空中忽然响起诸天发出的“哈哈”之声。
8.100.20
सदेवगन्धर्वमनुष्यपूजितं ।
निहत्य कर्णं रिपुमाहवेऽर्जुनः।
रराज राजन्परमेण तेजसा ।
यथा पुरा वृत्रवधे शतक्रतुः ॥ ८.१००.२० ॥
阿周那在战场上杀死了受诸天、乾闼婆与人类敬奉的敌人迦尔纳,大王,他以无上的光辉熠熠生辉,正如往昔斩杀弗栗多时的百祭之主因陀罗那样。
8.100.21
पताकिना भीमनिनादकेतुना ।
रथेन शङ्खस्फटिकावभासिना।
महेन्द्रवाहप्रतिमेन तावुभौ ।
महेन्द्रवीर्यप्रतिमानपौरुषौ ॥ ८.१००.२१ ॥
二人乘坐一辆战车,旗帜猛烈作吼,光彩如海螺与水晶,堪比大因陀罗的骏马;他们的勇力与男子气概与大因陀罗相匹敌。
8.100.22
समानयोगाविव विष्णुवासवैः ॥ ८.१००.२२ ॥
这两人仿佛与毗湿奴和婆娑婆(因陀罗)有着同等的结合。
8.100.23
मनांस्यरीणामुपतापयन्तौ ॥ ८.१००.२३ ॥
使敌人的心灵受煎熬。
8.100.24
सुवर्णजालावततौ महास्वनौ ।
हिमावदातौ परिगृह्य पाणिमिः।
चुचुम्बतुः शङ्खवरौ नृणां वरौ ।
विघोषयन्तौ विजयं जगत्त्रये ॥ ८.१००.२४ ॥
二人手持饰有金网、声音洪亮、白如霜雪的上好法螺,亲吻之后,在三界宣告胜利。
8.100.25
पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः ।
पृथिवीमन्तरिक्षं च दिशश्च समपूरयत् ॥ ८.१००.२५ ॥
般遮若耶与提婆达多二螺的吼声,充满了大地、天空与四方。
8.100.26
वित्रस्ताश्चाभवन्सर्वे कुरवो राजसत्तम ।
शूरयोः शङ्खशब्देन माधवस्यार्जुनस्य च ॥ ८.१००.२६ ॥
诸王之中最尊贵者啊!两位英雄摩陀婆(黑天)与阿周那的螺声使所有俱卢人惊恐。
8.100.27
तौ शङ्खशब्देन निनादयन्तौ ।
वनानि शैलान्सरितो गुहाश्च।
वित्रासयन्तौ तव पुत्रसेनां ।
युधिष्ठिरं नन्दयितुं प्रयातौ ॥ ८.१००.२७ ॥
二人以螺声震响森林、山岳、河流与洞穴,使你诸子之军惊恐,为令坚战欢喜而前行。
8.100.28
ततः प्रजग्मुः कुरवो जवेन ।
श्रुत्वैव शङ्खस्वनमीर्यमाणम्।
विहाय मद्राधिपतिं पतिं च ।
दुर्योधनं भारत भारतानाम् ॥ ८.१००.२८ ॥
此时俱卢人闻听螺声,迅速离去,抛下摩德罗王沙利耶与其主杜尔约陀那,啊婆罗多,婆罗多族中最优秀者!
8.100.29
ततो रथेनाम्बुदबृन्दनादिना ।
शरद्वहर्मध्यदिवाकरत्विषा।
धनञ्जयस्याधिरथेश्च विस्मिताः ।
प्रशंसमानाः प्रययुस्तदाऽर्जुनम् ॥ ८.१००.२९ ॥
于是,他们为那如乌云般轰鸣的战车,以及像秋日正午太阳般光辉的阿周那与御者之子迦尔纳所震撼,一面赞叹阿周那,一面前行。
8.100.30
महाहवे तं बहुशोभमानं ।
धनञ्जयं योधगणैः समेताः।
तावन्वमोदंश्च जनाः प्रकामं ।
प्रभाकरावभ्युदितौ यथैव ॥ ८.१००.३० ॥
在大战中,与战士群众聚集在一起的人们极其欣喜地赞赏那光辉灿烂的达那讷耶(阿周那),仿佛两轮升起的太阳。