Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.12.1

भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा ।
परया त्वरया युक्तो दर्शयन्नस्त्रलाघवम् ॥ ८.१२.१ ॥

于是,大王啊,德罗纳之子以极大的速度,展示其武艺的娴熟,用箭射中了怖军。

8.12.2

अथैनं पुनराजघ्ने नवत्या निशितैः शरैः ।
सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत् ॥ ८.१२.२ ॥

随后他又以九十支利箭射击他,仔细观察了所有要害之处,精通要害,手法轻快。

8.12.3

भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः ।
रराज समरे राजन्रश्मिवानिव भास्करः ॥ ८.१२.३ ॥

德罗纳之子的利箭覆盖着怖军,大王啊,他在战场上闪耀,如同放射光芒的太阳。

8.12.4

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।
द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ॥ ८.१२.४ ॥

于是般度之子以千支精准射出的箭覆盖德罗纳之子,发出狮吼。

8.12.5

शरैः सरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् ।
ललाटेऽभ्याहनद्राजन्नाराचेन स्मयन्निव ॥ ८.१२.५ ॥

于是德罗纳之子以箭挡住箭,在战斗中以铁箭击中般度之子的额头,大王啊,仿佛在微笑。

8.12.6

ललाटस्थं ततो बाणं धारयामास पाण्डवः ।
यथा शृङ्गं वने दृप्तः खङ्गो धारयते नृप ॥ ८.१२.६ ॥

于是般度之子握住嵌在额头的箭,大王啊,犹如林中骄傲的犀牛承载它的角。

8.12.7

ततो द्रौणिं रणे भीमो यतमानं पराक्रमी ।
त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ॥ ८.१२.७ ॥

于是勇猛的怖军在战斗中用三支铁箭射中了努力作战的德罗纳之子的前额,仿佛惊讶一般。

8.12.8

ललाटस्थैस्ततो बाणैर्ब्राह्मणोऽसौ व्यशोभत ।
प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ॥ ८.१२.८ ॥

于是那位婆罗门(德罗纳之子)额上插着箭矢,光彩照人,犹如雨季中被浸湿的最好的三峰山。

8.12.9

ततः शरशतैर्द्रौणिरर्दयामास पाण्डवम् ।
न चैनं कम्पयामास मातरिश्वेव पर्वतम् ॥ ८.१२.९ ॥

于是德罗纳之子以数百支箭射击般度之子,却无法使他动摇,犹如风不能撼动大山。

8.12.10

तथैव पांण्डवो युद्धे द्रौणिं शरशतैः शितैः ।
नाकम्पयत संहृष्टो वार्योध इव पर्वतम् ॥ ८.१२.१० ॥

同样,般度之子在战斗中以数百支锐利的箭射击德罗纳之子,欣然之中也无法使他动摇,犹如水流不能撼动大山。

8.12.11

तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ ।
रथवर्यगतौ वीरौ शुशुभाते बलोत्कटौ ॥ ८.१२.११ ॥

那两位大车将,以可怕的箭矢互相遮蔽,站在上等战车上,如以力量凶猛的英雄般光彩照人。

8.12.12

आदित्याविव सन्दीप्तौ लोकक्षयकरावुभौ ।
स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ॥ ८.१२.१२ ॥

如同两轮炽热的太阳,二者都是毁灭世界者,以最好的箭矢互相炙烤,犹如各自的光芒。

8.12.13

ततः प्रविकृते यत्नं कुर्वाणौ तौ महारणे ।
कृतप्रतिकृते यत्तौ शरसङ्घैरभीतवत् ॥ ८.१२.१३ ॥

随后在那场大战中,二人激愤奋力,以反击还反击,如同无所畏惧一般,以箭雨相搏。

8.12.14

व्याघ्राविव च सङ्ग्रामे चेरतुस्तौ नरोत्तमौ ।
शरदंष्ट्रौ दुराधर्षौ चापवक्रौ भयङ्करौ ॥ ८.१२.१४ ॥

在战场上,这两位人中之雄如虎般游走,箭矢为牙,难以抵挡,手持弯弓,令人生畏。

8.12.15

अभूतां तावदृश्यौ च शरजालैः समन्ततः ।
मेघजालैरिव च्छनौ गगने चन्द्रभास्करौ ॥ ८.१२.१५ ॥

二人被四面八方的箭网遮蔽而不可见,如同天空中被云网遮掩的日月。

8.12.16

चकाशेते मुहूर्तेन ततस्तावप्यरिन्दमौ ।
विमुक्तावभ्रजालेन अङ्गारकबुधाविव ॥ ८.१२.१६ ॥

霎时间,这两位降伏敌人者从云网中挣脱,光芒四射,如火星与水星。

8.12.17

अथ तत्रैव सङ्ग्रमे वर्तमाने सुदारुणे ।
अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् ॥ ८.१२.१७ ॥

当那场极为惨烈的战斗在那里进行时,德罗纳之子绕行至右侧,包围了狼腹(怖军)。

8.12.18

किरञ्छरशतैरुग्रैर्धाराभिरिव पर्वतम् ।
न तु तन्ममृषे भीमः शत्रोर्विजलक्षणम् ॥ ८.१२.१८ ॥

如暴雨倾注于山岳般,射出数百支猛烈的箭;但怖军不能容忍敌人的那个胜利标记。

8.12.19

प्रतिचक्रे ततो राजन्पाण्डवोऽप्यपसव्यतः ।
मण्डलानां विभागेन गतप्रत्यागतेन च ॥ ८.१२.१९ ॥

王啊,then 般everything般 般般般般般

8.12.20

बभूव तुमुलं युद्धं तयोः पुरुषसिंहयोः ।
चरित्वा विविधान्मार्गान्मण्डलस्थानमेव च ॥ ८.१२.२० ॥

这两位人中雄狮之间爆发了激烈的战斗,他们沿着各种道路行进,也在环形阵位间来回。

8.12.21

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ।
अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम् ॥ ८.१२.२१ ॥

他们以满弓射出的箭互相攻击,并竭尽全力要杀死对方。

8.12.22

ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे ।
ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः ॥ ८.१२.२२ ॥

他们在战斗中努力使对方失去战车;这时,大车士德罗纳之子施展了大神兵。

8.12.23

तान्यस्त्रैरेव समरे प्रतिजघ्नेऽथ पाण्डवः ।
ततो घोरं महाराज अस्त्रयुद्धमवर्तत ॥ ८.१२.२३ ॥

于是般昆王以同样的神兵在战场上抵挡它们;然后,大王啊,一场可怕的神兵之战爆发了。

8.12.24

ग्रहयुद्वं यथा घोरं प्रजासंहरणे ह्यभूत् ।
ते वाणाः समसज्जन्त मुक्तास्ताभ्यां तु भारत ॥ ८.१२.२४ ॥

如同在众生毁灭之时,诸行星发生可怕的相争,婆罗多啊,那两人所射出的箭便彼此相撞。

8.12.25

द्योतग्रन्तो दिशः सर्वास्तव सैन्यं समन्ततः ।
बाणसङ्घैर्वृतं घोरमाकाशं समपद्यत ॥ ८.१२.२५ ॥

您的全军照亮了所有方向,四面八方,变成了被箭群覆盖的可怕天空。

8.12.26

उल्कापातावृतं युद्धं प्रजानां संक्षये नृप ।
बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः ॥ ८.१२.२६ ॥

大王,在民众的毁灭中,那场战斗被陨石坠落所笼罩;婆罗多,那里因箭矢的撞击而生出了火。

8.12.27

सविस्फुलिङ्गो दीप्तार्चिर्योऽदहद्वाहिनीद्वयम् ।
तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः ॥ ८.१२.२७ ॥

那火焰带着火星与炽热的火光,焚烧了两支军队;大王,那里降临的悉陀们说出了这些话。

8.12.28

युद्धानामति सर्वेषां युद्धमेतदिति प्रभो ।
सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् ॥ ८.१२.२८ ॥

主啊,此战超越一切战斗;其他所有战斗,连它的十六分之一都不配。

8.12.29

नेदृशं च पुनर्युद्धं भविष्यति कदाचन ।
अहो ज्ञानेन सम्पन्नावुभ ब्राह्मणक्षत्रियौ ॥ ८.१२.२९ ॥

如此的战斗今后再也不会发生。啊!这二人都具备智慧,一个是婆罗门,一个是刹帝利!

8.12.30

अहो शौर्येण सम्पन्नावुभौ चोग्रपराक्रमौ ।
अहो भीमबलो भीम एतस्य च कृतास्त्रता ॥ ८.१२.३० ॥

啊!这二人都具备勇气,有着猛烈的威力!啊!力量可怕的毗摩,还有他的武艺!

8.12.31

अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः ।
स्थितावेतौ हि समरे कालान्तकयमोपमौ ॥ ८.१२.३१ ॥

啊,二人武勇之卓越与技艺何等精妙!立于战场的这两人,如同时间、终结者与阎摩。

8.12.32

रुद्रौ द्वावि सम्भूतौ यथा द्वाविव भास्करौ ।
यमौ वा पुरुषव्याघ्रौ घोररूपावुभौ रणे ॥ ८.१२.३२ ॥

仿佛两位楼陀罗或两轮太阳降生,或孪生的阎摩——这二位人中虎,在战场上都是可怖的形貌。

8.12.33

इति वाचः स्म श्रूयन्ते सिद्धानां वै मुहुर्मुहुः ।
सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम् ॥ ८.१२.३३ ॥

如此,诸悉陀的话语一再被听见;聚集的天界居民中也发出了狮子般的吼声。

8.12.34

अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयो रणे ।
सिद्वचारणसङ्घानां विस्मयः समपद्यत ॥ ८.१२.३४ ॥

见到二人在战场上的奇妙而难以思议的行为,悉陀与遮罗诸群皆感惊异。

8.12.35

प्रशंसन्ति तदा देवाः सिद्वाश्च परमर्षयः ।
साधु द्रौणे महाबाहो साधु भीमेति चाब्रुवन् ॥ ८.१२.३५ ॥

于是诸天神、悉陀与大仙皆赞叹道:“善哉,德罗纳之子,大臂者!善哉,婆罗陀!”

8.12.36

तौ शूरौ समरे राजन्परस्परकृतागसौ ।
परस्परमुदीक्षेतां क्रोधादुद्वृत्य चक्षुषी ॥ ८.१२.३६ ॥

大王!那二位在战场上彼此有过冒犯的勇士,因愤怒而翻转双目,互相怒视。

8.12.37

क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ ।
क्रोधात्संदष्टदशनौ तथैव दशनच्छदौ ॥ ८.१२.३७ ॥

二人双目因愤怒而赤红,因愤怒而嘴唇颤抖,因愤怒而咬紧牙关,嘴唇也同样紧闭。

8.12.38

अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ ।
शराम्बुधारो समरे शस्त्रविद्युत्प्रकाशिनौ ॥ ८.१२.३८ ॥

二位大车士在战场上以箭雨相互遮蔽,箭流如水,兵器闪光如电。

8.12.39

तावन्यन्यं ध्वजं विद्व्वा सारथिं च महारणे ।
अन्योन्यस्य हयान्विद्वा बिभिदाते परस्परम् ॥ ८.१२.३९ ॥

在大战中,二人射穿了对方的旗帜与御者,也射穿了对方的马匹,相互撕裂。

8.12.40

ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे ।
उभौ चिक्षिपतुस्तूर्ममन्योन्यस्य वधैषिणौ ॥ ८.१२.४० ॥

于是,大王啊,二位愤怒的勇士在大战中取箭,各欲置对方于死地,迅速地向对方射去。

8.12.41

तौ सायकौ महाराज द्योतमानौ चमूमुखे ।
आजघ्नतुः समासाद्य वज्रवेगौ दुरासदौ ॥ ८.१२.४१ ॥

大王啊,那两支箭在军阵前闪耀,迅如雷霆,难以抵挡,抵达后便击中了目标。

8.12.42

तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ ।
निपेततुर्महावीर्यौ रथोपस्थे तयोस्तदा ॥ ८.१२.४२ ॥

二位大勇士因彼此的冲击和箭矢而重伤,当时便倒在各自车舆的底板上。

8.12.43

ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् ।
अपोवाह रणाद्राजन्सर्वसैन्यस्य पश्यतः ॥ ८.१२.४३ ॥

于是御者见德罗纳之子失去知觉,大王啊,在全军注视之下,将他从战场上载走。

8.12.44

तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः ।
अपोवाह रथेनाजौ विशोकः शत्रुतापनम् ॥ ८.१२.४४ ॥

同样,大王啊,令敌人焦灼的毗首迦在战斗中用他的战车载走了那位一再昏乱的般度之子。