Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.15.1

नकुलं रभसं युद्धे द्रावयन्तं वरूथिनीम् ।
कर्णो वैकर्तनो राजन्वारयामास वै रुषा ॥ ८.१५.१ ॥

大王啊,毗迦尔丹之子迦尔纳愤怒地阻挡了在战场上迅速驱散军队的那库拉。

8.15.2

नकुलस्तु ततः कर्णं प्रहसन्निदमब्रवीत् ।
चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा। ॥ ८.१५.२ ॥

那库拉笑着对迦尔纳说道:“隔了很久,蒙诸神保佑,我才以温和的目光看见了你。”

8.15.3

यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः ।
त्वं हि मूलमनर्थानां वैरस्य कलहस्य च। ॥ ८.१५.३ ॥

“恶人啊!你如今在战场上落入我的视线。你正是灾祸、仇怨与争端的根源。”

8.15.4

त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् ।
त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ॥ ८.१५.४ ॥

“因为你的过错,俱卢族人相互争斗,已然衰落。今天我在战场上杀死你,已完成使命,心无忧虑。”

8.15.5

एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः ।
सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ॥ ८.१५.५ ॥

被如此说后,御者之子迦尔纳回答那库拉;这话适合王子,尤其适合弓箭手。

8.15.6

प्रहरस्व च मे वीर पश्यामस्तव पौरुषम् ।
कर्म कृत्वा रमे शूर ततः कत्थितुमर्हसि ॥ ८.१५.६ ॥

“英雄啊,向我出击吧,我们要看看你的勇力。勇士啊,立下功业之后,你才配夸口。”

8.15.7

अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः ।
प्रयुध्यस्व मया शक्त्या हनिष्ये दर्पमेव ते ॥ ८.१५.७ ॥

孩子啊,勇士在战场上不夸口,只依其力而战。与我交战吧;我将以我的枪矛摧毁你的骄傲。

8.15.8

इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः ।
विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ॥ ८.१५.८ ॥

说完这话,御者之子立即攻击般杜之子,并在战斗中以七十三支箭射穿了他。

8.15.9

नकुलस्तु ततो विद्वः सूतपुत्रेण भारत ।
अशीत्याऽऽशीविषप्रख्यैः सूतपुत्रमविध्यत ॥ ८.१५.९ ॥

婆罗多啊,此时被御者之子射中的无种,以八十支如毒蛇般的箭射穿了御者之子。

8.15.10

तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः ।
त्रिंशता परमेष्वासः शरैः पाण्डवमर्दयत् ॥ ८.१५.१० ॥

卡尔纳斩断了他的弓,这位至上的射手用三十支金羽、在石上磨利的箭折磨了般杜之子。

8.15.11

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ।
आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ॥ ८.१५.११ ॥

那些箭穿透了他的铠甲,在战斗中饮尽鲜血,正如毒蛇穿透大地而饮水。

8.15.12

अथान्यद्वनुरादाय हेमपृष्ठं दुरासदम् ।
कर्णं विव्याध सप्तत्या सारथिञ्च त्रिभिः शरैः ॥ ८.१५.१२ ॥

随后,他拿起另一张背饰金纹、无人能敌的弓,用七十支箭射穿了卡尔纳,用三支箭射穿了御者。

8.15.13

ततः क्रुद्धो महाराज नकुलः परवीहा ।
क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुराच्छिनत् ॥ ८.१५.१३ ॥

大王啊,那时,愤怒的破敌者那古罗用极其锋利的刀刃箭斩断了迦尔纳的弓。

8.15.14

अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः ।
आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ॥ ८.१५.१४ ॥

随后,那位英雄笑着用三百支箭射向弓已断的、名震三界的大车将迦尔纳。

8.15.15

कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष ।
विस्मयं परमं जग्मुर्ऋषयः सह दैवतैः ॥ ८.१५.१५ ॥

先生啊,见迦尔纳被般度之子所逼,诸仙与诸天神都极为惊异。

8.15.16

अथान्यद्वनुरादाय कर्णो वैकर्तनस्तदा ।
नकुलं पञ्छभिर्बाणैर्जत्रुदेशे समार्पयत् ॥ ८.१५.१६ ॥

那时,毗迦尔塔纳之子迦尔纳另取一弓,以五支箭射中那古罗的锁骨处。

8.15.17

उरस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत ।
स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ॥ ८.१५.१७ ॥

那些箭深扎在他的胸前,摩德丽之子那古罗光芒耀眼,如太阳在世间散放自己的光芒。

8.15.18

नकुलस्तु ततः कर्णं विद्व्वा सप्तभिराशुगैः ।
अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष ॥ ८.१५.१८ ॥

那古罗以七支迅疾之箭射穿迦尔纳,然后,先生,又斩断了他弓的末端。

8.15.19

सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् ।
नकुलस्य ततो बैणैः समन्ताच्छादयद्दिशः ॥ ८.१५.१९ ॥

他在战中又取了另一张更迅疾的弓;随后以那罗俱罗的箭矢遮蔽了四面八方。

8.15.20

सञ्छाद्यमानः सहसा कर्णचाप्युतैः सरैः ।
चिच्छेद स शरांस्तूर्णं शरैरेव महारथः ॥ ८.१५.२० ॥

被迦尔纳锐利的箭矢突然遮蔽,那位大战车武士也迅速以自己的箭矢斩断了他的箭。

8.15.21

ततो बाणमयं जालं विततं व्योम्न्यदृश्यत ।
खद्योतानामिव व्रातैः सम्पतद्भिर्यथा नभः ॥ ८.१५.२१ ॥

于是天空中出现了一张由箭矢织成的网,犹如飞舞的萤火虫群充满天空。

8.15.22

तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा ।
शलभानां यथा व्रातैस्तद्वदासीद्विशाम्पते ॥ ८.१५.२२ ॥

那时,他们射出的数百支箭遮蔽了天空,人主啊,正如蝗虫群遮蔽天空一般。

8.15.23

ते शरा हेमविकृताः सम्पन्तौ मुहुर्मुहुः ।
श्रेणीकृता व्यकाशान्त क्रौञ्चाः श्रेणीकृता इव ॥ ८.१५.२३ ॥

那些镶金的箭矢一次又一次地飞行,排成行列,闪耀如排成队列的鹤鸟。

8.15.24

बाणजालवृते व्योम्नि च्छादिते च दिवाकरे ।
न स्म सम्पतते भूतं किञ्चिदप्यन्तरिक्षगम् ॥ ८.१५.२४ ॥

当天空被箭网笼罩、太阳被遮蔽时,就连任何在空中飞行的生灵也无法飞翔。

8.15.25

निरुद्वे तत्र मार्गे च शरसङ्घैः समन्ततः ।
व्यरोचेतां महात्मानौ कालसूर्याविवोदितौ ॥ ८.१५.२५ ॥

当那里的道路四面被箭群阻塞时,这两位伟大的英雄如同升起的末日太阳一般闪耀。

8.15.26

कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः ।
अवालीयन्त राजेन्द्र वेदनार्ता भूशार्दिताः ॥ ८.१५.२६ ॥

被迦尔纳弓中射出的箭所击中的索摩迦人,哦,诸王之主,痛苦不堪、伤势沉重,纷纷后退。

8.15.27

नकुलस्य तथा बाणैर्हन्यमाना चमूस्तव ।
व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः ॥ ८.१५.२७ ॥

您的军队也被那拉库拉的箭所击中,哦国王,如被风吹散的云朵一般四散奔逃于各方。

8.15.28

ते सेने हन्यमाने तु ताभ्यां दिव्यैर्महाशरैः ।
शरपातमपाक्रम्य तस्थतुः प्रेक्षिके तदा ॥ ८.१५.२८ ॥

那两支军队被那两人神圣的大箭所击中,便退出箭程,站立在一旁作为旁观者。

8.15.29

प्रोत्सारितजने तस्मिन्कर्णपाण्डवयोः शरैः ।
अविध्येतां महात्मानावन्योन्यं शरवृष्टिभिः ॥ ८.१५.२९ ॥

那里的人被驱散之后,这两位伟大的英雄,迦尔纳与般度之子,开始以箭雨互相射穿。

8.15.30

विदर्शयन्तौ दिव्यानि शस्त्राणि रणमूर्धनि ।
छादयन्तौ च सहसा परस्परवधैषिणौ ॥ ८.१५.३० ॥

那二人在战场前列展示神圣的武器,突然彼此遮蔽,都渴望对方的死亡。

8.15.31

नकुलेन शरा मुक्ता कङ्कबर्हिणवाससः ।
सूतपुत्रमवच्छाद्य व्यतिष्ठन्त यथाऽम्बरे ॥ ८.१५.३१ ॥

那库罗射出的箭,羽毛为鹤与孔雀所饰,遮蔽了御者之子,停留在空中。

8.15.32

तथैव सूतपुत्रेण प्रेषिताः परमाहवे ।
पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्ताम्बरे शराः ॥ ८.१५.३२ ॥

同样,御者之子在大战中射出的箭遮蔽了般度之子,停留在空中。

8.15.33

शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन ।
सूर्याचन्द्रमसौ राजञ्छाद्यमानौ घनैरिव ॥ ८.१५.३३ ॥

二人没入箭的居所,无人能见,王啊,犹如日月被云所遮。

8.15.34

ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः ।
पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः ॥ ८.१५.३४ ॥

于是迦尔纳在战中愤怒,使身形更加可怖,以箭雨从四面遮蔽了般度之子。

8.15.35

सोऽतिच्छन्नो महाराज सूतपुत्रेण पाण्डवः ।
न चकार व्यथां राजन्भास्करो जलदैर्यथा ॥ ८.१५.३५ ॥

虽被御者之子完全遮蔽,大王啊,般度之子并未苦恼,王啊,犹如太阳被云遮蔽而不受扰动。

8.15.36

ततः प्रहस्याधिरथिः शरजालानि मारिष ।
प्रेषयामास समरे शतशोऽथ सहस्रशः ॥ ८.१५.३६ ॥

于是阿提罗陀之子大笑,啊,尊者,在战中射出成百上千的箭网。

8.15.37

एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः ।
अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः ॥ ८.१५.३७ ॥

在这位伟大者的箭雨之下,一切都被笼罩在同一片阴影中;纷纷落下的良箭,宛如云的阴影。

8.15.38

ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः ।
सारथिं पातयामास रथनीडाद्वसन्निव ॥ ८.१५.३८ ॥

于是,大王啊,迦尔纳斩断了那位伟大者的弓,将他的御者从车座上击落,仿佛他只是坐在那里一般。

8.15.39

ततोऽश्वांश्छतुरश्चास्य चतुर्भिर्निशितैः शरैः ।
यमस्य भवनं तूर्णं प्रेषयामास भारत ॥ ८.१५.३९ ॥

然后,婆罗多的后裔啊,他用四支锐利的箭迅速将其四匹马送往阎摩的居所。

8.15.40

अथास्य तं रथं दिव्यं तिलशो व्यधमच्छरैः ।
पताकां चक्ररक्षांश्च गदां खङ्गं च मारिष ॥ ८.१५.४० ॥

接着,他用箭将其神圣的战车击碎成芝麻大小的碎片,连同他的旗帜、车轮护卫、狼牙棒和剑,啊高贵者。

8.15.41

शतचन्द्रं च तच्चर्म सर्वापकरणानि च ।
सुवर्णविकृतं तच्च धनुः शरमाहवे ॥ ८.१५.४१ ॥

他那百月盾、全部装备、那张镶金的弓,以及战斗中的箭,也都被毁了。

8.15.42

हताश्वो विरथश्चैव विवर्मा च विशाम्पते ।
अवतीर्य रथात्तूर्णं परिघं गृह्य धिष्ठितः ॥ ८.१५.४२ ॥

人主啊,他的马被杀,失去战车与铠甲,便迅速从车上跳下,手持铁棒,坚定地站立。

8.15.43

तमुद्यतं महारघोरं परिघं तस्य सूतजः ।
व्यहनत्सायकै राजन्सुतीक्ष्णैर्भारसाधनैः ॥ ८.१५.४३ ॥

大王啊,御者之子用极其锐利、能承受战斗重负的箭,击碎了向他举起的那柄可怖的铁杵。

8.15.44

व्यायुधं चैनमालक्ष्य शरैः सन्नतपर्वभिः ।
आर्पयद्बहुभिः कर्णो न चैनं समपीडयत् ॥ ८.१५.४४ ॥

见他已无兵器,迦尔纳以许多节部弯曲的箭射击他,却并未使他完全受创。

8.15.45

स हन्यमानः समरे कृतास्त्रेण बलीयसा ।
प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः ॥ ८.१५.४५ ॥

大王啊,那擅长武器的强者在战场上击打他,那持双胞胎的无可解的心怀惊乱,突然逃跑了。

8.15.46

तमभिद्रुत्य राधेयः प्रहसन्वै पुनःपुनः ।
सज्यमस्य धनुः कण्ठे व्यवासृजत भारत ॥ ८.१५.४६ ॥

婆罗多之子啊,御者之子(罗陀之子)迦尔纳追逐他,一再大笑,把他那张已上弦的弓套在了他的脖子上。

8.15.47

ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः ।
परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः ॥ ८.१५.४७ ॥

大王啊,那时他脖子上挂着大弓,光彩照人,如同天空中的月亮获得了光环。

8.15.48

यथैव चासितो मेघः शक्रचापेन शोभितः ।
अशोभत महाराज पाण्डुपुत्रस्तथा रणे ॥ ८.१५.४८ ॥

犹如黑云被帝释的彩虹装饰,大王啊,般度之子也在战场上如此光彩照人。

8.15.49

तमब्रवीत्ततः कर्णो व्यर्थं व्याहृतवानसि ।
वदेदानीं पुनर्हृष्टो वध्यमानः पुनःपुनः ॥ ८.१५.४९ ॥

于是迦尔纳对他说:你说的话是徒劳的。现在你再高兴地说吧,你正被一次又一次地击打。

8.15.50

मा योत्सीः कुरुभिः सार्धं बलवद्भिश्च पाण्डव ।
सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव ॥ ८.१५.५० ॥

般度之子啊,不要与库鲁族和强大者并肩作战。亲爱的,与你同等的人作战吧;般度之子啊,不要感到羞耻。

8.15.51

गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ ।
एवमुक्त्वा महाराज विससर्ज स तं तदा ॥ ८.१५.५१ ॥

回家去吧,玛德丽之子,或者去克里希纳与法尔古那所在之处。大王啊,他这样说完,便当即放了他。

8.15.52

वधप्राप्तं तु तं शूरो नाहनद्वर्मवित्तदा ।
स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् ॥ ८.१५.५२ ॥

大王啊,那位应当被杀的人,那位熟知铠甲的英雄当时没有击杀他。想起了贡蒂的话,他便放了他。

8.15.53

विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना ।
व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ॥ ८.१५.५३ ॥

大王啊,般度之子被驭者之子、这位弓箭手放走后,仿佛感到羞愧,便向坚战的战车走去。

8.15.54

आरुरोह रथं चापि सूतपुत्रप्रतापितः ।
निःश्वसन्दुःखसन्तप्तः कुम्भक्षिप्त इवोरगः ॥ ८.१५.५४ ॥

被驭者之子折磨的他也登上了战车,叹息着,被悲痛煎熬,像被投入瓦罐中的蛇。

8.15.55

तं विजित्याथ कर्णोऽपि पाञ्चालांस्त्वरितो ययौ ।
रथेनातिपताकेन चन्द्रवर्णहयेन च ॥ ८.१५.५५ ॥

击败了他之后,迦尔纳也迅速地冲向般遮罗人,乘坐着插满旗帜、毛色如月的战车。

8.15.56

तत्राक्रन्दो महानासीत्पाण्डवानां विशाम्पते ।
दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् ॥ ८.१५.५६ ॥

主上啊,般度之子中升起了巨大的哀号,他们看见统帅向般遮罗的战车队列冲来。

8.15.57

तत्राकरोन्महाराज कदनं सूतनन्दनः ।
मध्यं प्राप्ते दिनकरे चक्रवद्विचरन्प्रभुः ॥ ८.१५.५७ ॥

大王啊,那里御者之子大肆屠杀,这位英雄如车轮般回旋奔走,那时太阳已到正午。

8.15.58

भग्नचक्रै रथैः कैश्चिच्छिन्नध्यवजपताकिभिः ।
हताश्वैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष।
हियमाणानपश्याम पाञ्चालानां रथव्रजान् ॥ ८.१५.५८ ॥

尊者啊,我们看见般遮罗的战车群:车轮破碎,旗帜和幡旗被斩断,马匹和御者被杀,车轴折断,正被拖走。

8.15.59

तत्रतत्र च सम्भ्रान्ता विचेरुरथ कुञ्जराः ।
दावाग्न्यभिपरीताङ्गा यथैव स्युर्महावने ॥ ८.१५.५९ ॥

战象四处惊慌奔窜,仿佛在大森林中身体被野火围住一般。

8.15.60

भिन्नकुम्भाः सरुधिराश्छिन्नहस्ताश्च वारणाः ।
छिन्नगात्रावराश्चैव च्छिन्नवालधयोऽपरे।
छिन्नाभ्राणीव सम्पेतुर्हन्यमाना महात्मना ॥ ८.१५.६० ॥

额头裂开、血迹斑斑、象鼻被斩断的战象;其他的肢体、臀部和尾巴被斩断。被这位大德者击中,它们如被撕裂的云朵般倒下。

8.15.61

अपरे त्रासिता नागा नाराचशरतोमरैः ।
तमेवाभिमुखं जग्मुः शलभा इव पावकम् ॥ ८.१५.६१ ॥

其他象群被铁箭、箭矢和长枪惊吓,径直朝他冲去,如同飞蛾扑向火焰。

8.15.62

अपरे निष्टनन्तश्च व्यदृश्यन्त महाद्विपाः ।
क्षरन्तः शोणितं गात्रैर्नगा इव जलस्रवाः ॥ ८.१५.६२ ॥

其他大象呻吟着出现,血从肢体上流下,如同山岳流出瀑布。

8.15.63

उरश्छदैर्वियुक्तांश्च वालबन्धैश्च वाजिनः ।
राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ॥ ८.१५.६३ ॥

它们的胸甲已被扯落,尾饰已松脱;银、铜和金的饰物也散落各处。

8.15.64

हीनांश्चाभरणैश्चैव खलीनैश्च विवर्जितान् ।
चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ॥ ८.१५.६४ ॥

失去了装饰,没有缰绳,身边散落着牦牛尾拂尘、鞍毯和坠落的箭囊。

8.15.65

निहतैः सादिभिश्चैव शूरैराहवशोभितैः ।
अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् ॥ ८.१५.६५ ॥

在战场上,我们看见高贵的战马四处游荡,与阵亡的骑士和勇士一同倒下,被战斗装点着。

8.15.66

प्रासैः खङ्गैश्च रहितानृष्टिभिश्चापि भारत ।
हयसादीनपश्याम कञ्चुकोष्णीषधारिणः ॥ ८.१५.६६ ॥

婆罗多之子啊,我们看见骑士没有了投枪、剑与长矛,身着长袍,头戴缠头。

8.15.67

निहतान्वध्यमानांश्च वेपमानांश्च भारत ।
नागाङ्गावयवैर्हीनांस्तत्रतत्रैव भारत ॥ ८.१५.६७ ॥

婆罗多的后裔啊,我看见到处都是被杀者、正被杀者和颤抖者,他们失去了象的肢体。

8.15.68

रथान्हेमपरिष्कारान्संयुक्ताञ्जवनैर्हयैः ।
भ्राम्यमाणानपश्याम हतेषु रथिषु द्रुतम् ॥ ८.१५.६८ ॥

我们看见饰有黄金、套着快马的战车,在战士被杀之后迅速四处乱跑。

8.15.69

भग्नाक्षकूबरान्कांश्चिद्भग्नचक्रांश्च भारत ।
विपताकध्वजांश्चान्याञ्छिन्नेषादण्डबन्धुरान् ॥ ८.१५.६९ ॥

婆罗多的后裔啊,有些战车的车轴和轭已断,有些车轮已碎,有些旗帜和幡已被扯落,还有些车杆和辕已折断。

8.15.70

विहीनान्रथिनस्तत्र धावमानांस्ततस्ततः ।
सूतपुत्रशरैस्तीक्ष्णैर्हन्यमानान्विशाम्पते ॥ ८.१५.७० ॥

那里,失去了战车手的人们四处奔逃,被御者之子迦尔纳的锐利箭矢射杀,人民之主啊。

8.15.71

विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च हतान्बहून् ।
तारकाजालसञ्छन्नान्वरघण्टाविशोभितान् ॥ ८.१५.७१ ॥

还有许多其他人,无论有无武器,都已被杀,身上覆着星辰般的网,并饰有精美的铃铛。

8.15.72

नानावर्णविचित्राभिः पताकाभिरलङ्कृतान् ।
वारमआननुपश्याम धावमानान्समन्ततः ॥ ८.१५.७२ ॥

我们看见装饰着各色斑斓旗帜的象,四处奔跑。

8.15.73

शिरांसि बाहूनूरूंश्च च्छिन्नानन्यांस्तथैव च ।
कर्णचापच्युतैर्बाणैरपश्याम समन्ततः ॥ ८.१५.७३ ॥

我们四面八方都看到被迦尔纳之弓射出的箭斩断的头颅、手臂、大腿和其他肢体。

8.15.74

महान्व्यतिकरो रौद्रो योधानामन्वपद्यत ।
कर्णसायकनुन्नानां युध्यतां च शितैः शरैः ॥ ८.१५.७४ ॥

在迦尔纳锐利箭矢的驱赶下,交战的战士之间发生了巨大而可怕的混乱。

8.15.75

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।
तमेवाभिमुखं यान्ति पतङ्गा इव पावकम् ॥ ८.१५.७५ ॥

被御者之子在战场上杀戮的斯兰遮耶人,像飞蛾扑向火焰一样直冲向他。

8.15.76

तं दहन्तमनीकानि तत्रतत्र महारथम् ।
क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् ॥ ८.१५.७६ ॥

刹帝利武士们远远避开那位四处焚烧军队的大车将,就像避开末劫时猛烈的大火一样。

8.15.77

हतशेषास्तु ये वीराः पाञ्चालानां महारथाः ।
तान्प्रभग्रान्दुतान्वीरः पृष्ठो विकिऱञ्छरैः।
अभ्यधावत तेजस्वी विशीर्णवचनध्वजान् ॥ ८.१५.७७ ॥

般遮罗残存的大车将们已经溃败逃跑,那位光辉的英雄从后面追击,一路射出箭矢,他们的言语之旗已倒下。

8.15.78

तापयामास तान्बाणैः सूतपुत्रो महाबलः ।
मध्यन्दिनमनुप्राप्तो भूतानीव तमोनुदः ॥ ८.१५.७८ ॥

这位大力的御者之子以箭矢烧灼他们,正如驱散黑暗的太阳到达正午时炙烤一切众生。