Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 8.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.16.1

युयुत्सं तव पुत्रस्य द्रावयन्तं बलं महत् ।
उलूको न्यपतत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ ८.१६.१ ॥

García: 珊贾耶说:乌卢迦迅速扑向正在驱散你儿子大军的尤尤苏,喊道:“站住,站住!”

8.16.2

युयुत्सुश्च ततो राजञ्शितधारेण पत्रिणा ।
उलूकं ताडयामास वज्रेणेव महाबलम् ॥ ८.१६.२ ॥

珊贾耶说:大王,尤尤苏随即以锋利的箭射中乌卢迦,犹如以金刚杵击打大力者。

8.16.3

उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे ।
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥ ८.१६.३ ॥

然而,乌卢迦愤怒地在与你儿子的战斗中,以剃刀头箭斩断他的弓,并以带倒钩的箭射击他。

8.16.4

तदपास्य धनुश्छिन्नं युयुत्सर्वेगवत्तरम् ।
अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥ ८.१६.४ ॥

尤尤苏抛开断弓,双目赤红,又拿起另一张极大而迅捷的弓。

8.16.5

शाकुनिं तु ततः षष्ट्या विव्याध भरतर्षभ ।
सारथिं त्रिभिरानर्च्छत्तं च भूयो व्यविध्यत ॥ ८.१६.५ ॥

然后,婆罗多的雄牛啊,他以六十支箭射穿沙古尼,以三支箭击中车夫,又再次射穿了他。

8.16.6

उलूकस्तं तु विंशत्या विद्व्वा स्वर्णविभूषितैः ।
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥ ८.१६.६ ॥

乌卢迦以二十支饰金之箭射穿了他,随后愤怒地在战斗中斩断了他金色的旗帜。

8.16.7

स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः ।
पपात प्रमुखे राजन्युयुत्सोः काञ्चनध्वजः ॥ ८.१६.७ ॥

君王啊,那面杆断、正在崩裂的巨大金旗,倒在了युयुत्सु面前。

8.16.8

ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्च्छितः ।
उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥ ८.१६.८ ॥

युयुत्सु见旗帜被扯倒,怒火攻心,以五支箭射中乌卢迦的胸膛。

8.16.9

उलूकस्तस्य समरे तैलधौतेन मारिष ।
शिरश्चिच्छेद भल्लेन यन्तुर्भरतसत्तम ॥ ८.१६.९ ॥

尊者啊,婆罗多中的最优者,乌卢迦在战斗中以一支油洗的婆罗箭斩下了他御者的头颅。

8.16.10

तच्छिन्नमपतद्भूमौ युयुत्सोः सारथेस्तदा ।
तारारूपं यथा चित्रं निपपात महीतले ॥ ८.१६.१० ॥

那时,युयुत्सु御者被斩断的头颅,如同明亮的星辰般坠落于大地。

8.16.11

जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः ।
सोऽतिविद्वो बलवता प्रत्यपायाद्रथान्तरम् ॥ ८.१६.११ ॥

他杀死四匹马,又以五支箭射中他;被强者重创后,他退到另一辆战车上。

8.16.12

तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ ।
पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥ ८.१६.१२ ॥

君王啊,乌卢迦在战场上击败了他,便迅速向般遮罗与娑闍耶人冲去,以利箭将他们杀伤。

8.16.13

शतानीकं महाराज श्रुतकर्मा सुतस्तव ।
व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमः ॥ ८.१६.१३ ॥

大王啊,你的儿子室如迦尔曼毫不慌乱,在半瞬之间,使舍跋尼迦的战车失去了马匹和御者。

8.16.14

हताश्वे तु रथे तिष्ठञ्शतानीको महारथः ।
गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष ॥ ८.१६.१४ ॥

舍跋尼迦是大战车手,他站在马已被杀死的战车上,怒气冲冲,向你的儿子掷出了铁杵,主公啊。

8.16.15

सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् ।
पपात धरणीं तूर्णं दारयन्तीव भारत ॥ ८.१६.१५ ॥

那铁杵将战车、马匹和御者化为灰烬,迅速坠地,仿佛要撕裂大地,婆罗多啊。

8.16.16

तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ ।
व्यपाक्रमेतां युद्वात्तु प्रेक्षमाणौ परस्परम् ॥ ८.१६.१६ ॥

那两位增添俱卢族荣耀的英雄,都已失去战车,彼此注视着,从战斗中退了下来。

8.16.17

पुत्रस्तु तव सम्भ्रान्तो विविंशो रथमारुहत् ।
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥ ८.१६.१७ ॥

你的儿子毗频舍惊慌地登上一辆战车,舍跋尼迦也急忙前往普罗提文底耶的战车。

8.16.18

सुतमोमं तु शकुनिर्विद्व्वा तु निशितैः शरैः ।
नाकम्पयत सङ्क्रुद्वो वार्योघ इव पर्वतम् ॥ ८.१६.१८ ॥

沙古尼以锐利的箭射中苏多摩,但他虽然愤怒,却无法撼动他,正如水流无法撼动山岳一般。

8.16.19

सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् ।
शरैरनेकसाहस्रैश्छादयामास भारत ॥ ८.१६.१९ ॥

苏多索摩见到父亲的死敌,便以成千上万的箭将他遮蔽,婆罗多啊。

8.16.20

ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः ।
लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥ ८.१६.२० ॥

沙恭尼迅速以其他带羽的箭斩断了那些箭;他善用轻兵器,是奇妙的战士,渴望在战斗中获胜。

8.16.21

निवार्य समरे चापि शरांस्तान्निशितैः शरैः ।
आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः ॥ ८.१६.२१ ॥

在战斗中挡开那些箭后,他大怒,以三支利箭射中了苏多索摩。

8.16.22

नाकम्पयत सङ्क्रुद्धो वार्योघ इव पर्वतम् ।
तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः।
श्यालस्तव महाराज तत उच्चुक्रुशुर्जनाः ॥ ८.१६.२२ ॥

他虽然大怒,却无法撼动苏多索摩,正如洪水不能撼动山岳。他以箭将其马匹、旗帜与御者击碎成芝麻般的碎片。那时,大王啊,人们为你的妻兄高声呼喊。

8.16.23

हताश्वो विरथश्चैव छिन्नकेतुश्च मारिष ।
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ॥ ८.१६.२३ ॥

马匹被杀,车也已失,旗帜折断,哦尊者,那弓手便手持最好的弓,从车上下来,站在地上。

8.16.24

व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ।
छादयामासुरथ ते तव श्यालस्य तं रथम्।
शळभानामिव व्राताः शरव्राता महारथम् ॥ ८.१६.२४ ॥

他射出以金羽装饰、在石上磨砺的箭。于是他们像蝗虫群一样覆盖了你妻兄的那辆战车;箭的群雨包围了那位大车士。

8.16.25

सञ्छाद्यमानोऽपि दृढं विव्यथे नैव सौबलः ।
प्रममाथ शरांस्तस्य शरव्रातैर्महायशाः ॥ ८.१६.२५ ॥

尽管被密密遮蔽,苏波罗之子(沙恭尼)毫不慌乱;这位大名声者以箭雨击碎了他的箭。

8.16.26

तत्रातुष्यन्त योधाश्च सिद्वाश्चापि दिवि स्थिताः ।
सुतसोमस्य तत्कर्म दृष्ट्वाऽश्रद्वेयमद्भुतम्।
रथस्थं शकुनिं यत्तु पदातिः समयोधयत् ॥ ८.१६.२६ ॥

那里的战士和立于天空的悉陀也都欢喜。见到苏多索摩那件难以置信、奇妙的行为——他步行与坐在战车上的沙恭尼作战。

8.16.27

तस्य तीक्ष्णैर्महावेगैर्भल्लैः सन्नतपर्वभिः ।
व्यहनत्कारामुकं राजंस्तूणीरांश्चैव सर्वशः ॥ ८.१६.२७ ॥

他以锐利、迅疾、节部弯曲的阔头箭,大王啊,击碎了弓,也将箭囊全部摧毁。

8.16.28

स च्छिन्नधन्वा विरथः खङ्गमुद्यम्य चानदत् ।
वैदूर्योत्पलवर्णाभं दन्तिदन्तमयत्सरुम् ॥ ८.१६.२८ ॥

弓断车毁,他举起一柄光如琉璃与青莲、以象牙为柄的剑,并大声吼叫。

8.16.29

भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् ।
कालदण्डोपमं मेने सुतसोमस्य धीमतः ॥ ८.१६.२९ ॥

于是智慧的苏多索摩认为那柄旋转闪耀、如无瑕天空般明亮的剑,正如死神的棍杖。

8.16.30

सोऽचरत्सहसा खङ्गी मण्डलानि सहस्रशः ।
चतुर्दश महाराज शिक्षाबलसमन्वितः ॥ ८.१६.३० ॥

持剑者忽然作千百次回旋的挥舞,大王啊,凭借训练之力,共十四次。

8.16.31

भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम् ।
सम्पातसमुदीर्णे च दर्शयामास संयुगे ॥ ८.१६.३१ ॥

他在战斗中展示了回旋、急跃、刺击、跳跃、侧跃与滑行等步法,以及猛扑与回升的攻击。

8.16.32

सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् ।
तानापतत एवाशु चिच्छेद परमासिना ॥ ८.१६.३२ ॥

于是勇猛的沙恭尼向他射出箭矢;箭矢飞来时,他迅速用至上的宝剑将其斩断。

8.16.33

ततः क्रुद्धो महाराज सौबलः परवीरहा ।
प्राहिणोत्सुतसोमाय शरानाशीविषोपमान् ॥ ८.१६.३३ ॥

于是,大王,愤怒的沙恭尼——敌方勇士的杀手——向苏塔索摩射出如毒蛇般的箭矢。

8.16.34

चिच्छेद तांस्तु खङ्गेन शिक्षया च बलेन च ।
दर्शयँल्लाघवं युद्धे तार्क्ष्यतुल्यपराक्रमः ॥ ८.१६.३४ ॥

他以宝剑、技艺与力量斩断那些箭,在战斗中展示其敏捷;他的勇武堪比迦鲁达(Tārkṣya)。

8.16.35

तस्य सञ्चरतो राजन्मण्डलावर्तने तदा ।
क्षुरप्रेण सुतीक्ष्णेन खङ्गं चिच्छेद सुप्रभम् ॥ ८.१६.३५ ॥

大王,他绕圈旋转之际,一支极其锋利的刀刃箭射断了他那闪亮的宝剑。

8.16.36

स च्छिन्नः सहसा भूमौ निपपात महानसिः ।
अधर्मस्य स्थितं हस्ते सुत्सरोस्तत्र भारत ॥ ८.१६.३६ ॥

那把被斩断的大剑突然坠落在地;婆罗多,它原本握在阿达玛(非法)手中,也握在苏特萨卢手中。

8.16.37

छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।
प्राविध्यत ततः शेषं सुतसोमो महारथः ॥ ८.१६.३७ ॥

大车将苏陀索摩见剑已断,跃起六步,投出了剩下的部分。

8.16.38

तच्छित्त्वा सगुणं चापं रणे तस्य महात्मनः ।
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितम् ॥ ८.१६.३८ ॥

在战斗中,那位大心者的带弦之弓被斩断,镶嵌金与金刚石的弓迅速坠落于地。

8.16.39

सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ।
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुर्जयम् ॥ ८.१६.३९ ॥

于是苏陀索摩走向首陀吉尔提的大车;苏跋罗之子也拿起另一把可怕、极难战胜的弓。

8.16.40

अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ।
तत्र नादो महानासीत्पाण्डवानां विशाम्पते ॥ ८.१६.४० ॥

他冲向般度军队,击杀众多敌军;而在那里,人主啊,般度之子们发出了巨大的喧哗。

8.16.41

सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ।
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च।
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥ ८.१६.४१ ॥

看见苏跋罗之子在战场上如无畏般驰骋,那些骄傲、持械的大军被大心的苏跋罗之子驱散而逃。

8.16.42

यथा दैत्यचमूं राजन्देवराजो ममर्द ह ।
तथैव पाण्वीं सेनां सौबलेयो व्यनाशयत् ॥ ८.१६.४२ ॥

大王啊,犹如天王因陀罗摧毁阿修罗的军队,苏跋罗之子也这样摧毁了般度的军队。